Summary (SA)
Chapter 199- Marriage of Kṛṣṇa and Rukmiṇī
{{Ref- SS 308}}
व्यास उवाच-
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् ।
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १ ॥
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ २ ॥
ददौ स शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः ॥ ३ ॥
विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालश् च कुण्डिनम् ॥ ४ ॥
कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ ५ ॥
श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः ।
विपक्षभावम् आसाद्य रामाद्येष्व् एव बन्धुषु ॥ ६ ॥
ततश् च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः ।
शिशुपालो जरासन्धः शाल्वाद्याश् च महीभृतः ॥ ७ ॥
कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम् ।
निर्जिताश् च समागम्य रामाद्यैर् यदुपुङ्गवैः ॥ ८ ॥
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः ॥ ९ ॥
हत्वा बलं स नागाश्वपत्तिस्यन्दनसङ्कुलम् ।
निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥
निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् ।
राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ ११ ॥
तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १२ ॥