198

Summary (SA)

Chapter 198- Balarāma forcing Yamunā to change her course

{{Ref- SS 308}}

व्यास उवाच-

वने विहरतस् तस्य सह गोपैर् महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १ ॥

निष्पादितोरुकार्यस्य कार्येणैवावतारिणः ।
उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥

वरुण उवाच-

अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥

व्यास उवाच-

इत्य् उक्ता वारुणी तेन सन्निधानम् अथाकरोत् ।
वृन्दावनतटोत्पन्नकदम्बतरुकोटरे ॥ ४ ॥

विचरन् बलदेवो ऽपि मदिरागन्धम् उद्धतम् ।
आघ्राय मदिराहर्षम् अवापाथ पुरातनम् ॥ ५ ॥

ततः कदम्बात् सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ ६ ॥

पपौ च गोपगोपीभिः समवेतो मुदान्वितः ।
उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ ७ ॥

श्रमतो ऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः ॥ ८ ॥

तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै ।
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ ९ ॥

गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यताम् इच्छयान्यतः ॥ १० ॥

सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा ।
यत्रास्ते बलदेवो ऽसौ प्लावयाम् आस तद् वनम् ॥ ११ ॥

शरीरिणी तथोपेत्य त्रासविह्वललोचना ।
प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध ॥ १२ ॥

सो ऽब्रवीद् अवजानासि मम शौर्यबलं यदि ।
सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥

व्यास उवाच-

इत्य् उक्तयातिसन्त्रस्तस् तया नद्या प्रसादितः ।
भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ १४ ॥

ततः स्नातस्य वै कान्तिर् आजगाम महावने ।
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ १५ ॥

वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम् ।
समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत ॥ १६ ॥

कृतावतंसः स तदा चारुकुण्डलभूषितः ।
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥

इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे ।
मासद्वयेन यातश् च पुनः स मथुरां पुरीम् ॥ १८ ॥

रेवतीं चैव तनयां रैवतस्य महीपतेः ।
उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ ॥ १९ ॥