Summary (SA)
Chapter 197- Kṛṣṇa and Mucukunda; Baladeva in Gokula
{{Ref- SS 307}}
व्यास उवाच-
इत्थं स्तुतस् तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानाम् अनादिनिधनो हरिः ॥ १ ॥
श्रीकृष्ण उवाच-
यथाभिवाञ्छितांल् लोकान् दिव्यान् गच्छ नरेश्वर ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ २ ॥
भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात् ततो मोक्षम् अवाप्स्यसि ॥ ३ ॥
व्यास उवाच-
इत्य् उक्तः प्रणिपत्येशं जगताम् अच्युतं नृपः ।
गुहामुखाद् विनिष्क्रान्तो ददृशे सो ऽल्पकान् नरान् ॥ ४ ॥
ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५ ॥
कृष्णो ऽपि घातयित्वारिम् उपायेन हि तद्बलम् ।
जग्राह मथुराम् एत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ६ ॥
आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् ।
पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ ७ ॥
बलदेवो ऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ८ ॥
ततो गोपाश् च गोप्यश् च यथापूर्वम् अमित्रजित् ।
तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥ ९ ॥
कैश् चापि सम्परिष्वक्तः कांश्चित् स परिषस्वजे ।
हासं चक्रे समं कैश्चिद् गोपगोपीजनैस् तथा ॥ १० ॥
प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम् ।
गोप्यश् च प्रेममुदिताः प्रोचुः सेर्ष्यम् अथापराः ॥ ११ ॥
गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः ।
कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमरसाकुलः ॥ १२ ॥
अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् ।
सौभाग्यमानम् अधिकं करोति क्षणसौहृदः ॥ १३ ॥
कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् ।
अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति ॥ १४ ॥
अथवा किं तदालापैः क्रियन्ताम् अपराः कथाः ।
यद् अस्माभिर् विना तेन विनास्माकं भविष्यति ॥ १५ ॥
पिता माता तथा भ्राता भर्ता बन्धुजनश् च कः ।
न त्यक्तस् तत्कृते ऽस्माभिर् अकृतज्ञस् ततो हि सः ॥ १६ ॥
तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ १७ ॥
दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः ॥ १८ ॥
व्यास उवाच-
आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च ।
जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ १९ ॥
सन्देशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ २० ॥
गोपैश् च पूर्ववद् रामः परिहासमनोहरैः ।
कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु ॥ २१ ॥