196

Summary (SA)

Chapter 196- Kālayavana-episode; Mucukunda and Kṛṣṇa

{{Ref- SS 306-307}}

व्यास उवाच-

गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्य् उक्तवान् द्विजाः ।
यदूनां सन्निधौ सर्वे जहसुर् यादवास् तदा ॥ १ ॥

ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः ।
सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम् ॥ २ ॥

आराधयन् महादेवं सो ऽयश् चूर्णम् अभक्षयत् ।
ददौ वरं च तुष्टो ऽसौ वर्षे द्वादशके हरः ॥ ३ ॥

सम्भावयाम् आस स तं यवनेशो ह्य् अनात्मजम् ।
तद्योषित्सङ्गमाच् चास्य पुत्रो ऽभूद् अलिसप्रभः ॥ ४ ॥

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ ५ ॥

स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश् चास्मै कथयाम् आस यादवान् ॥ ६ ॥

म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽपि संवृतः ।
गजाश्वरथसम्पन्नैश् चकार परमोद्यमम् ॥ ७ ॥

प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने ।
यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ ८ ॥

कृष्णो ऽपि चिन्तयाम् आस क्षपितं यादवं बलम् ।
यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ ९ ॥

मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा ॥ १० ॥

तस्माद् दुर्गं करिष्यामि यदूनाम् अतिदुर्जयम् ।
स्त्रियो ऽपि यत्र युध्येयुः किं पुनर् वृष्णियादवाः ॥ ११ ॥

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन् वैरिणो ऽधिकम् ॥ १२ ॥

इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् ।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १३ ॥

महोद्यानां महावप्रां तडागशतशोभिताम् ।
प्राकारशतसम्बाधाम् इन्द्रस्येवामरावतीम् ॥ १४ ॥

मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १५ ॥

बहिर् आवासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम स गोविन्दो ददर्श यवनश् च तम् ॥ १६ ॥

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
अनुयातो महायोगिचेतोभिः प्राप्यते न यः ॥ १७ ॥

तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १८ ॥

सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।
पादेन ताडयाम् आस कृष्णं मत्वा स दुर्मतिः ॥ १९ ॥

दृष्टमात्रश् च तेनासौ जज्वाल यवनो ऽग्निना ।
तत्क्रोधजेन मुनयो भस्मीभूतश् च तत्क्षणात् ॥ २० ॥

स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् ।
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ २१ ॥

प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति ।
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ २२ ॥

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस् त्वम् इत्य् आह सो ऽप्य् आह जातो ऽहं शशिनः कुले ॥ २३ ॥

वसुदेवस्य तनयो यदुवंशसमुद्भवः ।
मुचुकुन्दो ऽपि तच् छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ २४ ॥

संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वरः ॥ २५ ॥

पुरा गार्ग्येण कथितम् अष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर् जन्म यदुवंशे भविष्यति ॥ २६ ॥

स त्वं प्राप्तो न सन्देहो मर्त्यानाम् उपकारकृत् ।
तथा हि सुमहत् तेजो नालं सोढुम् अहं तव ॥ २७ ॥

तथा हि सुमहाम्भोदध्वनिधीरतरं ततः ।
वाक्यं तम् इति होवाच युष्मत्पादसुलालितम् ॥ २८ ॥

देवासुरे महायुद्धे दैत्याश् च सुमहाभटाः ।
न शेकुस् ते महत् तेजस् तत् तेजो न सहाम्य् अहम् ॥ २९ ॥

संसारपतितस्यैको जन्तोस् त्वं शरणं परम् ।
सम्प्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम् ॥ ३० ॥

त्वं पयोनिधयः शैलाः सरितश् च वनानि च ।
मेदिनी गगनं वायुर् आपो ऽग्निस् त्वं तथा पुमान् ॥ ३१ ॥

पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् ।
शब्दादिहीनम् अजरं वृद्धिक्षयविवर्जितम् ॥ ३२ ॥

त्वत्तो ऽमरास् तु पितरो यक्षगन्धर्वराक्षसाः ।
सिद्धाश् चाप्सरसस् त्वत्तो मनुष्याः पशवः खगाः ॥ ३३ ॥

सरीसृपा मृगाः सर्वे त्वत्तश् चैव महीरुहाः ।
यच् च भूतं भविष्यद् वा किञ्चिद् अत्र चराचरे ॥ ३४ ॥

अमूर्तं मूर्तम् अथवा स्थूलं सूक्ष्मतरं तथा ।
तत् सर्वं त्वं जगत्कर्तर् नास्ति किञ्चित् त्वया विना ॥ ३५ ॥

मया संसारचक्रे ऽस्मिन् भ्रमता भगवन् सदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ ३६ ॥

दुःखान्य् एव सुखानीति मृगतृष्णाजलाशयः ।
मया नाथ गृहीतानि तानि तापाय मे ऽभवन् ॥ ३७ ॥

राज्यम् उर्वी बलं कोशो मित्रपक्षस् तथात्मजाः ।
भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ ३८ ॥

सुखबुद्ध्या मया सर्वं गृहीतम् इदम् अव्यय ।
परिणामे च देवेश तापात्मकम् अभून् मम ॥ ३९ ॥

देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि ।
मत्तः साहाय्यकामो ऽभूच् छाश्वती कुत्र निर्वृतिः ॥ ४० ॥

त्वाम् अनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४१ ॥

त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य पापान् पश्यन्ति प्रेतराजानम् अन्तरा ॥ ४२ ॥

ततः पाशशतैर् बद्धा नरकेष्व् अतिदारुणम् ।
प्राप्नुवन्ति महद् दुःखं विश्वरूपम् इदं तव ॥ ४३ ॥

अहम् अत्यन्तविषयी मोहितस् तव मायया ।
ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ ४४ ॥

सो ऽहं त्वां शरणम् अपारम् ईशम् ईड्यं ।
सम्प्राप्तः परमपदं यतो न किञ्चित् ।
संसारश्रमपरितापतप्तचेता ।
निर्विण्णे परिणतधाम्नि साभिलाषः ॥ ४५ ॥