Summary (SA)
Chapter 195- Jarāsandha-episode
{{Ref- SS 306}}
व्यास उवाच-
जरासन्धसुते कंस उपयेमे महाबलः ।
अस्तिः प्राप्तिश् च भो विप्रास् तयोर् भर्तृहणं हरिम् ॥ १ ॥
महाबलपरीवारो मागधाधिपतिर् बली ।
हन्तुम् अभ्याययौ कोपाज् जरासन्धः सयादवम् ॥ २ ॥
उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः ॥ ३ ॥
निष्क्रम्याल्पपरीवाराव् उभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ४ ॥
ततो बलश् च कृष्णश् च मतिं चक्रे महाबलः ।
आयुधानां पुराणानाम् आदाने मुनिसत्तमाः ॥ ५ ॥
अनन्तरं चक्रशार्ङ्गे तूणौ चाप्य् अक्षयौ शरैः ।
आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा ॥ ६ ॥
हलं च बलभद्रस्य गगनाद् आगमत् करम् ।
बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ ७ ॥
ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् ।
पुरीं विविशतुर् वीराव् उभौ रामजनार्दनौ ॥ ८ ॥
जिते तस्मिन् सुदुर्वृत्ते जरासन्धे द्विजोत्तमाः ।
जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ ९ ॥
पुनर् अप्य् आजगामाथ जरासन्धो बलान्वितः ।
जितश् च रामकृष्णाभ्याम् अपकृत्य द्विजोत्तमाः ॥ १० ॥
दश चाष्टौ च सङ्ग्रामान् एवम् अत्यन्तदुर्मदः ।
यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ११ ॥
सर्वेष्व् एव च युद्धेषु यदुभिः स पराजितः ।
अपक्रान्तो जरासन्धः स्वल्पसैन्यैर् बलाधिकः ॥ १२ ॥
तद् बलं यादवानां वै रक्षितं यद् अनेकशः ।
तत् तु सन्निधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः ॥ १३ ॥
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः ।
अस्त्राण्य् अनेकरूपाणि यद् अरातिषु मुञ्चति ॥ १४ ॥
मनसैव जगत्सृष्टिसंहारं तु करोति यः ।
तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥ १५ ॥
तथापि च मनुष्याणां धर्मस् तदनुवर्तनम् ।
कुर्वन् बलवता सन्धिं हीनैर् युद्धं करोत्य् असौ ॥ १६ ॥
साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिद् एव पलायनम् ॥ १७ ॥
मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्तते ।
लीला जगत्पतेस् तस्य च्छन्दतः सम्प्रवर्तते ॥ १८ ॥