Summary (SA)
Chapter 194- Kṛṣṇa’s education; Pañcajana-episode
{{Ref- SS 305-306}}
व्यास उवाच-
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः ॥ १ ॥
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ।
उवाच चाम्ब भोस् तात चिराद् उत्कण्ठितेन तु ॥ २ ॥
भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च ।
कुर्वतां याति यः कालो मातापित्रोर् अपूजनम् ॥ ३ ॥
स वृथा क्लेशकारी वै साधूनाम् उपजायते ।
गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम् ॥ ४ ॥
कुर्वतः सफलं जन्म देहिनस् तात जायते ।
तत् क्षन्तव्यम् इदं सर्वम् अतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्याम् आवयोः परवश्ययोः ॥ ५ ॥
व्यास उवाच-
इत्य् उक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् ।
पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ ६ ॥
कंसपत्न्यस् ततः कंसं परिवार्य हतं भुवि ।
विलेपुर् मातरश् चास्य शोकदुःखपरिप्लुताः ॥ ७ ॥
बहुप्रकारम् अस्वस्थाः पश्चात्तापातुरा हरिः ।
ताः समाश्वासयाम् आस स्वयम् अस्राविलेक्षणः ॥ ८ ॥
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः ।
अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥ ९ ॥
राज्ये ऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १० ॥
कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया ॥ ११ ॥
ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि साम्प्रतम् ।
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १२ ॥
इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।
नृवाचा चैव भगवान् केशवः कार्यमानुषः ॥ १३ ॥
श्रीकृष्ण उवाच-
गच्छेन्द्रं ब्रूहि वायो त्वम् अलं गर्वेण वासव ।
दीयताम् उग्रसेनाय सुधर्मा भवता सभा ॥ १४ ॥
कृष्णो ब्रवीति राजार्हम् एतद् रत्नम् अनुत्तमम् ।
सुधर्माख्या सभा युक्तम् अस्यां यदुभिर् आसितुम् ॥ १५ ॥
व्यास उवाच-
इत्य् उक्तः पवनो गत्वा सर्वम् आह शचीपतिम् ।
ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ १६ ॥
वायुना चाहृतां दिव्यां ते सभां यदुपुङ्गवाः ।
बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १७ ॥
विदिताखिलविज्ञानौ सर्वज्ञानमयाव् अपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ १८ ॥
ततः सान्दीपनिं काश्यम् अवन्तिपुरवासिनम् ।
अस्त्रार्थं जग्मतुर् वीरौ बलदेवजनार्दनौ ॥ १९ ॥
तस्य शिष्यत्वम् अभ्येत्य गुरुवृत्तिपरौ हि तौ ।
दर्शयां चक्रतुर् वीराव् आचारम् अखिले जने ॥ २० ॥
सरहस्यं धनुर्वेदं ससङ्ग्रहम् अधीयताम् ।
अहोरात्रैश् चतुःषष्ट्या तद् अद्भुतम् अभूद् द्विजाः ॥ २१ ॥
सान्दीपनिर् असम्भाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ २२ ॥
अस्त्रग्रामम् अशेषं च प्रोक्तमात्रम् अवाप्य तौ ।
ऊचतुर् व्रियतां या ते दातव्या गुरुदक्षिणा ॥ २३ ॥
सो ऽप्य् अतीन्द्रियम् आलोक्य तयोः कर्म महामतिः ।
अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ २४ ॥
गृहीतास्त्रौ ततस् तौ तु गत्वा तं लवणोदधिम् ।
ऊचुतुश् च गुरोः पुत्रो दीयताम् इति सागरम् ॥ २५ ॥
कृताञ्जलिपुटश् चाब्धिस् ताव् अथ द्विजसत्तमाः ।
उवाच न मया पुत्रो हृतः सान्दीपनेर् इति ॥ २६ ॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह सो ऽस्ति सलिले ममैवासुरसूदन ॥ २७ ॥
इत्य् उक्तो ऽन्तर् जलं गत्वा हत्वा पञ्चजनं तथा ।
कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खम् उत्तमम् ॥ २८ ॥
यस्य नादेन दैत्यानां बलहानिः प्रजायते ।
देवानां वर्धते तेजो यात्य् अधर्मश् च सङ्क्षयम् ॥ २९ ॥
तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः ।
बलदेवश् च बलवाञ् जित्वा वैवस्वतं यमम् ॥ ३० ॥
तं बालं यातनासंस्थं यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः ॥ ३१ ॥
मथुरां च पुनः प्राप्ताव् उग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकाव् उभौ रामजनार्दनौ ॥ ३२ ॥