Summary (SA)
Chapter 193- Kṛṣṇa’s deeds in Mathurā; killing of Kaṃsa
{{Ref- SS 303-305}}
व्यास उवाच-
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ।
ददर्श कुब्जाम् आयान्तीं नवयौवनगोचराम् ॥ १ ॥
ताम् आह ललितं कृष्णः कस्येदम् अनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ २ ॥
सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा ददर्श च बलात् ततः ॥ ३ ॥
कुब्जोवाच-
कान्त कस्मान् न जानासि कंसेनापि नियोजिता ।
नैकवक्रेति विख्याताम् अनुलेपनकर्मणि ॥ ४ ॥
नान्यपिष्टं हि कंसस्य प्रीतये ह्य् अनुलेपनम् ।
भवत्य् अहम् अतीवास्य प्रसादधनभाजनम् ॥ ५ ॥
श्रीकृष्ण उवाच-
सुगन्धम् एतद् राजार्हं रुचिरं रुचिरानने ।
आवयोर् गात्रसदृशं दीयताम् अनुलेपनम् ॥ ६ ॥
व्यास उवाच-
श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् ।
अनुलेपं च प्रददौ गात्रयोग्यम् अथोभयोः ॥ ७ ॥
भक्तिच्छेदानुलिप्ताङ्गौ ततस् तौ पुरुषर्षभौ ।
सेन्द्रचापौ विराजन्तौ सितकृष्णाव् इवाम्बुदौ ॥ ८ ॥
ततस् तां चिबुके शौरिर् उल्लापनविधानवित् ।
उल्लाप्य तोलयाम् आस द्व्यङ्गुलेनाग्रपाणिना ॥ ९ ॥
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवो ऽनयत् ।
ततः सा ऋजुतां प्राप्ता योषिताम् अभवद् वरा ॥ १० ॥
विलासललितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ ११ ॥
आयास्ये भवतीगेहम् इति तां प्राह केशवः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १२ ॥
भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बराव् उभौ ।
धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १३ ॥
अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः ।
आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः ॥ १४ ॥
ततः पूरयता तेन भज्यमानं बलाद् धनुः ।
चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ १५ ॥
अनुयुक्तौ ततस् तौ च भग्ने धनुषि रक्षिभिः ।
रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १६ ॥
अक्रूरागमवृत्तान्तम् उपलभ्य तथा धनुः ।
भग्नं श्रुत्वाथ कंसो ऽपि प्राह चाणूरमुष्टिकौ ॥ १७ ॥
कंस उवाच-
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १८ ॥
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् ।
दास्याम्य् अभिमतान् कामान् नान्यथैतन् महाबलौ ॥ १९ ॥
न्यायतो ऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ ।
हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति ॥ २० ॥
व्यास उवाच-
इत्य् आदिश्य स तौ मल्लौ ततश् चाहूय हस्तिपम् ।
प्रोवाचोच्चैस् त्वया मत्तः समाजद्वारि कुञ्जरः ॥ २१ ॥
स्थाप्यः कुवलयापीडस् तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारम् उपागतौ ॥ २२ ॥
तम् आज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् ।
आसन्नमरणः कंसः सूर्योदयम् उदैक्षत ॥ २३ ॥
ततः समस्तमञ्चेषु नागरः स तदा जनः ।
राजमञ्चेषु चारूढाः सह भृत्यैर् महीभृतः ॥ २४ ॥
मल्लप्राश्निकवर्गश् च रङ्गमध्ये समीपगः ।
कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः ॥ २५ ॥
अन्तःपुराणां मञ्चाश् च यथान्ये परिकल्पिताः ।
अन्ये च वारमुख्यानाम् अन्ये नगरयोषिताम् ॥ २६ ॥
नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ २७ ॥
नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ २८ ॥
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ २९ ॥
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ ३० ॥
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥ ३१ ॥
हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्व् अनन्तरम् ।
कृष्णो ऽयं बलभद्रो ऽयम् इति लोकस्य विस्मयात् ॥ ३२ ॥
सो ऽयं येन हता घोरा पूतना सा निशाचरी ।
प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥ ३३ ॥
सो ऽयं यः कालियं नागं ननर्तारुह्य बालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ३४ ॥
अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
हतो येन च दुर्वृत्तो दृश्यते सो ऽयम् अच्युतः ॥ ३५ ॥
अयं चास्य महाबाहुर् बलदेवो ऽग्रजो ऽग्रतः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ३६ ॥
अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः ।
गोपालो यादवं वंशं मग्नम् अभ्युद्धरिष्यति ॥ ३७ ॥
अयं स सर्वभूतस्य विष्णोर् अखिलजन्मनः ।
अवतीर्णो महीम् अंशो नूनं भारहरो भुवः ॥ ३८ ॥
इत्य् एवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस् तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ३९ ॥
महोत्सवम् इवालोक्य पुत्राव् एव विलोकयन् ।
युवेव वसुदेवो ऽभूद् विहायाभ्यागतां जराम् ॥ ४० ॥
विस्तारिताक्षियुगला राजान्तःपुरयोषितः ।
नागरस्त्रीसमूहश् च द्रष्टुं न विरराम तौ ॥ ४१ ॥
स्त्रिय ऊचुः-
सख्यः पश्यत कृष्णस्य मुखम् अप्य् अम्बुजेक्षणम् ।
गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम् ॥ ४२ ॥
विकासीव सरोम्भोजम् अवश्यायजलोक्षितम् ।
परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥ ४३ ॥
श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥ ४४ ॥
वल्गता मुष्टिकेनैव चाणूरेण तथा परैः ।
क्रियते बलभद्रस्य हास्यम् ईषद् विलोक्यताम् ॥ ४५ ॥
सख्यः पश्यत चाणूरं नियुद्धार्थम् अयं हरिः ।
समुपैति न सन्त्य् अत्र किं वृद्धा युक्तकारिणः ॥ ४६ ॥
क्व यौवनोन्मुखीभूतः सुकुमारतनुर् हरिः ।
क्व वज्रकठिनाभोगशरीरो ऽयं महासुरः ॥ ४७ ॥
इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ ।
दैतेयमल्लाश् चाणूरप्रमुखास् त्व् अतिदारुणाः ॥ ४८ ॥
नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः ।
यद् बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ४९ ॥
व्यास उवाच-
इत्थं पुरस्त्रीलोकस्य वदतश् चालयन् भुवम् ।
ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः ॥ ५० ॥
बलभद्रो ऽपि चास्फोट्य ववल्ग ललितं यदा ।
पदे पदे तदा भूमिर् न शीर्णा यत् तद् अद्भुतम् ॥ ५१ ॥
चाणूरेण ततः कृष्णो युयुधे ऽमितविक्रमः ।
नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः ॥ ५२ ॥
सन्निपातावधूतैश् च चाणूरेण समं हरिः ।
क्षेपणैर् मुष्टिभिश् चैव कीलावज्रनिपातनैः ॥ ५३ ॥
पादोद्भूतैः प्रमृष्टाभिस् तयोर् युद्धम् अभून् महत् ।
अशस्त्रम् अतिघोरं तत् तयोर् युद्धं सुदारुणम् ॥ ५४ ॥
स्वबलप्राणनिष्पाद्यं समाजोत्सवसन्निधौ ।
यावद् यावच् च चाणूरो युयुधे हरिणा सह ॥ ५५ ॥
प्राणहानिम् अवापाग्र्यां तावत् तावन् न बान्धवम् ।
कृष्णो ऽपि युयुधे तेन लीलयैव जगन्मयः ॥ ५६ ॥
खेदाच् चालयता कोपान् निजशेषकरे करम् ।
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥ ५७ ॥
वारयाम् आस तूर्याणि कंसः कोपपरायणः ।
मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥ ५८ ॥
खसङ्गतान्य् अवाद्यन्त दैवतूर्याण्य् अनेकशः ।
जय गोविन्द चाणूरं जहि केशव दानवम् ॥ ५९ ॥
इत्य् अन्तर्धिगता देवास् तुष्टुवुस् ते प्रहर्षिताः ।
चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥ ६० ॥
उत्पाट्य भ्रामयाम् आस तद्वधाय कृतोद्यमः ।
भ्रामयित्वा शतगुणं दैत्यमल्लम् अमित्रजित् ॥ ६१ ॥
भूमाव् आस्फोटयाम् आस गगने गतजीवितम् ।
भूमाव् आस्फोटितस् तेन चाणूरः शतधा भवन् ॥ ६२ ॥
रक्तस्रावमहापङ्कां चकार स तदा भुवम् ।
बलदेवस् तु तत्कालं मुष्टिकेन महाबलः ॥ ६३ ॥
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ।
सो ऽप्य् एनं मुष्टिना मूर्ध्नि वक्षस्य् आहत्य जानुना ॥ ६४ ॥
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ।
कृष्णस् तोशलकं भूयो मल्लराजं महाबलम् ॥ ६५ ॥
वाममुष्टिप्रहारेण पातयाम् आस भूतले ।
चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥ ६६ ॥
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ।
ववल्गतुस् तदा रङ्गे कृष्णसङ्कर्षणाव् उभौ ॥ ६७ ॥
समानवयसो गोपान् बलाद् आकृष्य हर्षितौ ।
कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यायतान् नरान् ॥ ६८ ॥
गोपाव् एतौ समाजौघान् निष्क्रम्येतां बलाद् इतः ।
नन्दो ऽपि गृह्यतां पापो निगडैर् आशु बध्यताम् ॥ ६९ ॥
अवृद्धार्हेण दण्डेन वसुदेवो ऽपि वध्यताम् ।
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥ ७० ॥
गावो ह्रियन्ताम् एषां च यच् चास्ति वसु किञ्चन ।
एवम् आज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥ ७१ ॥
उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः ।
केशेष्व् आकृष्य विगलत्किरीटम् अवनीतले ॥ ७२ ॥
स कंसं पातयाम् आस तस्योपरि पपात च ।
निःशेषजगदाधारगुरुणा पततोपरि ॥ ७३ ॥
कृष्णेन त्याजितः प्राणान्न् उग्रसेनात्मजो नृपः ।
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥ ७४ ॥
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ।
गौरवेणातिमहता परिपातेन कृष्यता ॥ ७५ ॥
कृता कंसस्य देहेन वेगितेन महात्मना ।
कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ॥ ७६ ॥
सुनामा बलभद्रेण लीलयैव निपातितः ।
ततो हाहाकृतं सर्वम् आसीत् तद् रङ्गमण्डलम् ॥ ७७ ॥
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ।
कृष्णो ऽपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥ ७८ ॥
देवक्याश् च महाबाहुर् बलदेवसहायवान् ।
उत्थाप्य वसुदेवस् तु देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ ताव् एव प्रणतौ स्थितौ ॥ ७९ ॥
वसुदेव उवाच-
प्रसीद देवदेवेश देवानां प्रवर प्रभो ।
तथावयोः प्रसादेन कृताभ्युद्धार केशव ॥ ८० ॥
आराधितो यद् भगवान् अवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ८१ ॥
त्वम् अन्तः सर्वभूतानां सर्वभूतेष्व् अवस्थितः ।
वर्तते च समस्तात्मंस् त्वत्तो भूतभविष्यती ॥ ८२ ॥
यज्ञे त्वम् इज्यसे ऽचिन्त्य सर्वदेवमयाच्युत ।
त्वम् एव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥ ८३ ॥
सापह्नवं मम मनो यद् एतत् त्वयि जायते ।
देवक्याश् चात्मज प्रीत्या तद् अत्यन्तविडम्बना ॥ ८४ ॥
त्वं कर्ता सर्वभूतानाम् अनादिनिधनो भवान् ।
क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ ८५ ॥
जगद् एतज् जगन्नाथ सम्भूतम् अखिलं यतः ।
कया युक्त्या विना मायां सो ऽस्मत्तः सम्भविष्यति ॥ ८६ ॥
यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम् ।
स कोष्ठोत्सङ्गशयनो मनुष्याज् जायते कथम् ॥ ८७ ॥
स त्वं प्रसीद परमेश्वर पाहि विश्वम् ।
अंशावतारकरणैर् न ममासि पुत्रः ।
आब्रह्मपादपमयं जगद् ईश सर्वं ।
चित्ते विमोहयसि किं परमेश्वरात्मन् ॥ ८८ ॥
मायाविमोहितदृशा तनयो ममेति ।
कंसाद् भयं कृतवता तु मयातितीव्रम् ।
नीतो ऽसि गोकुलम् अरातिभयाकुलस्य ।
वृद्धिं गतो ऽसि मम चैव गवाम् अधीश ॥ ८९ ॥
कर्माणि रुद्रमरुदश्विशतक्रतूनां ।
साध्यानि यानि न भवन्ति निरीक्षितानि ।
त्वं विष्णुर् ईशजगताम् उपकारहेतोः ।
प्राप्तो ऽसि नः परिगतः परमो विमोहः ॥ ९० ॥