192

Summary (SA)

Chapter 192- Encounter between Akrūra and Kṛṣṇa; Kṛṣṇa’s journey to Mathurā

{{Ref- SS 302-303}}

व्यास उवाच-

चिन्तयन्न् इति गोविन्दम् उपगम्य स यादवः ।
अक्रूरो ऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १ ॥

सो ऽप्य् एनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ २ ॥

कृतसंवदनौ तेन यथावद् बलकेशवौ ।
ततः प्रविष्टौ सहसा तम् आदायात्ममन्दिरम् ॥ ३ ॥

सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्यायम् आचचक्षे ततस् तयोः ॥ ४ ॥

यथा निर्भर्त्सितस् तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ ५ ॥

उग्रसेने यथा कंसः स दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ ६ ॥

तत् सर्वं विस्तराच् छ्रुत्वा भगवान् केशिसूदनः ।
उवाचाखिलम् एतत् तु ज्ञातं दानपते मया ॥ ७ ॥

करिष्ये च महाभाग यद् अत्रौपायिकं मतम् ।
विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ॥ ८ ॥

अहं रामश् च मथुरां श्वो यास्यावः समं त्वया ।
गोपवृद्धाश् च यास्यन्ति आदायोपायनं बहु ॥ ९ ॥

निशेयं नीयतां वीर न चिन्तां कर्तुम् अर्हसि ।
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ १० ॥

व्यास उवाच-

समादिश्य ततो गोपान् अक्रूरो ऽपि सकेशवः ।
सुष्वाप बलभद्रश् च नन्दगोपगृहे गतः ॥ ११ ॥

ततः प्रभाते विमले रामकृष्णौ महाबलौ ।
अक्रूरेण समं गन्तुम् उद्यतौ मथुरां पुरीम् ॥ १२ ॥

दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः ।
निश्वसंश् चातिदुःखार्तः प्राह चेदं परस्परम् ॥ १३ ॥

मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति ।
नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ १४ ॥

विलासिवाक्यजातेषु नागरीणां कृतास्पदम् ।
चित्तम् अस्य कथं ग्राम्यगोपगोपीषु यास्यति ॥ १५ ॥

सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ १६ ॥

भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु ॥ १७ ॥

ग्राम्यो हरिर् अयं तासां विलासनिगडैर् यतः ।
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १८ ॥

एषो हि रथम् आरुह्य मथुरां याति केशवः ।
अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ १९ ॥

किं न वेत्ति नृशंसो ऽयम् अनुरागपरं जनम् ।
येनेमम् अक्षराह्लादं नयत्य् अन्यत्र नो हरिम् ॥ २० ॥

एष रामेण सहितः प्रयात्य् अत्यन्तनिर्घृणः ।
रथम् आरुह्य गोविन्दस् त्वर्यताम् अस्य वारणे ॥ २१ ॥

गुरूणाम् अग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ २२ ॥

नन्दगोपमुखा गोपा गन्तुम् एते समुद्यताः ।
नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने ॥ २३ ॥

सुप्रभाताद्य रजनी मथुरावासियोषिताम् ।
यासाम् अच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ २४ ॥

धन्यास् ते पथि ये कृष्णम् इतो यान्तम् अवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ २५ ॥

मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दवदनालोकाद् अतीवाद्य भविष्यति ॥ २६ ॥

को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम् ।
विस्तारिकान्तनयना या द्रक्ष्यन्त्य् अनिवारितम् ॥ २७ ॥

अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उद्धृतान्य् अद्य नेत्राणि विधात्राकरुणात्मना ॥ २८ ॥

अनुरागेण शैथिल्यम् अस्मासु व्रजतो हरेः ।
शैथिल्यम् उपयान्त्य् आशु करेषु वलयान्य् अपि ॥ २९ ॥

अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् ।
एवम् आर्तासु योषित्सु घृणा कस्य न जायते ॥ ३० ॥

हे हे कृष्ण रथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम् ।
दूरीकृतो हरिर् येन सो ऽपि रेणुर् न लक्ष्यते ॥ ३१ ॥

इत्य् एवम् अतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥ ३२ ॥

गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ३३ ॥

अथाह कृष्णम् अक्रूरो भवद्भ्यां तावद् आस्यताम् ।
यावत् करोमि कालिन्द्याम् आह्निकार्हणम् अम्भसि ॥ ३४ ॥

तथेत्य् उक्ते ततः स्नातः स्वाचान्तः स महामतिः ।
दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥ ३५ ॥

फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दामलाङ्गम् उन्निद्रपद्मपत्त्रायतेक्षणम् ॥ ३६ ॥

वृतं वासुकिडिम्भौघैर् महद्भिः पवनाशिभिः ।
संस्तूयमानम् उद्गन्धिवनमालाविभूषितम् ॥ ३७ ॥

दधानम् असिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं मत्तम् अन्तर्जलतले स्थितम् ॥ ३८ ॥

तस्योत्सङ्गे घनश्यामम् आताम्रायतलोचनम् ।
चतुर्बाहुम् उदाराङ्गं चक्राद्यायुधभूषणम् ॥ ३९ ॥

पीते वसानं वसने चित्रमाल्यविभूषितम् ।
शक्रचापतडिन्मालाविचित्रम् इव तोयदम् ॥ ४० ॥

श्रीवत्सवक्षसं चारुकेयूरमुकुटोज्ज्वलम् ।
ददर्श कृष्णम् अक्लिष्टं पुण्डरीकावतंसकम् ॥ ४१ ॥

सनन्दनाद्यैर् मुनिभिः सिद्धयोगैर् अकल्मषैः ।
सञ्चिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥ ४२ ॥

बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद् अथो शीघ्रं कथम् अत्रागताव् इति ॥ ४३ ॥

विवक्षोः स्तम्भयाम् आस वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद् रथम् अभ्यागतः पुनः ॥ ४४ ॥

ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ ।
रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ ॥ ४५ ॥

निमग्नश् च पुनस् तोये ददृशे स तथैव तौ ।
संस्तूयमानौ गन्धर्वैर् मुनिसिद्धमहोरगैः ॥ ४६ ॥

ततो विज्ञातसद्भावः स तु दानपतिस् तदा ।
तुष्टाव सर्वविज्ञानमयम् अच्युतम् ईश्वरम् ॥ ४७ ॥

अक्रूर उवाच-

तन्मात्ररूपिणे ऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८ ॥

शब्दरूपाय ते ऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ ४९ ॥

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥ ५० ॥

प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर ।
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिर् उदीरितः ॥ ५१ ॥

अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन ।
अनाख्येयाभिधान त्वां नतो ऽस्मि परमेश्वरम् ॥ ५२ ॥

न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद् ब्रह्म परमं नित्यम् अविकारि भवान् अजः ॥ ५३ ॥

न कल्पनाम् ऋते ऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्त विष्णुसञ्ज्ञाभिर् ईड्यसे ॥ ५४ ॥

सर्वात्मंस् त्वम् अज विकल्पनाभिर् एतैर् ।
देवास् त्वं जगद् अखिलं त्वम् एव विश्वम् ।
विश्वात्मंस् त्वम् अतिविकारभेदहीनः ।
सर्वस्मिन् नहि भवतो ऽस्ति किञ्चिद् अन्यत् ॥ ५५ ॥

त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता ।
त्वं धाता त्रिदशपतिः समीरणो ऽग्निः ।
तोयेशो धनपतिर् अन्तकस् त्वम् एको ।
भिन्नात्मा जगद् अपि पासि शक्तिभेदैः ॥ ५६ ॥

विश्वं भवान् सृजति हन्ति गभस्तिरूपो ।
विश्वं च ते गुणमयो ऽयम् अज प्रपञ्चः ।
रूपं परं सदितिवाचकम् अक्षरं यज् ।
ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै ॥ ५७ ॥

ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नाय नमस् तुभ्यम् अनिरुद्धाय ते नमः ॥ ५८ ॥

व्यास उवाच-

एवम् अन्तर् जले कृष्णम् अभिष्टूय स यादवः ।
अर्घयाम् आस सर्वेशं धूपपुष्पैर् मनोमयैः ॥ ५९ ॥

परित्यज्यान्यविषयं मनस् तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ ६० ॥

कृतकृत्यम् इवात्मानं मन्यमानो द्विजोत्तमाः ।
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ ६१ ॥

रामकृष्णौ ददर्शाथ यथापूर्वम् अवस्थितौ ।
विस्मिताक्षं तदाक्रूरं तं च कृष्णो ऽभ्यभाषत ॥ ६२ ॥

श्रीकृष्ण उवाच-

किं त्वया दृष्टम् आश्चर्यम् अक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः ॥ ६३ ॥

अक्रूर उवाच-

अन्तर् जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत ।
तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम् ॥ ६४ ॥

जगद् एतन् महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः ॥ ६५ ॥

तत् किम् एतेन मथुरां प्रयामो मधुसूदन ।
बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः ॥ ६६ ॥

व्यास उवाच-

इत्य् उक्त्वा चोदयाम् आस तान् हयान् वातरंहसः ।
सम्प्राप्तश् चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम् ।
विलोक्य मथुरां कृष्णं रामं चाह स यादवः ॥ ६७ ॥

अक्रूर उवाच-

पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्य् अहम् ।
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे ।
युवयोर् हि कृते वृद्धः कंसेन स निरस्यते ॥ ६८ ॥

व्यास उवाच-

इत्य् उक्त्वा प्रविवेशासाव् अक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गम् उपागतौ ॥ ६९ ॥

स्त्रीभिर् नरैश् च सानन्दलोचनैर् अभिविक्षितौ ।
जग्मतुर् लीलया वीरौ प्राप्तौ बालगजाव् इव ॥ ७० ॥

भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् ।
अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥ ७१ ॥

कंसस्य रजकः सो ऽथ प्रसादारूढविस्मयः ।
बहून्य् आक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ ७२ ॥

ततस् तलप्रहारेण कृष्णस् तस्य दुरात्मनः ।
पातयाम् आस कोपेन रजकस्य शिरो भुवि ॥ ७३ ॥

हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥ ७४ ॥

विकासिनेत्रयुगलो मालाकारो ऽतिविस्मितः ।
एतौ कस्य कुतो यातौ मनसाचिन्तयत् ततः ॥ ७५ ॥

पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ ।
स तर्कयाम् आस तदा भुवं देवाव् उपागतौ ॥ ७६ ॥

विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ ७७ ॥

प्रसादसुमुखौ नाथौ मम गेहम् उपागतौ ।
धन्यो ऽहम् अर्चयिष्यामीत्य् आह तौ माल्यजीविकः ॥ ७८ ॥

ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः ।
चारूण्य् एतानि चैतानि प्रददौ स विलोभयन् ॥ ७९ ॥

पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ ।
पुष्पाणि ताभ्यां चारूणि गन्धवन्त्य् अमलानि च ॥ ८० ॥

मालाकाराय कृष्णो ऽपि प्रसन्नः प्रददौ वरम् ।
श्रीस् त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति ॥ ८१ ॥

बलहानिर् न ते सौम्य धनहानिर् अथापि वा ।
यावद् धरणिसूर्यौ च सन्ततिः पुत्रपौत्रिकी ॥ ८२ ॥

भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्यलोकम् अवाप्स्यसि ॥ ८३ ॥

धर्मे मनश् च ते भद्र सर्वकालं भविष्यति ।
युष्मत्सन्ततिजातानां दीर्घम् आयुर् भविष्यति ॥ ८४ ॥

नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः ।
अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति ॥ ८५ ॥

व्यास उवाच-

इत्य् उक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥ ८६ ॥