191

Summary (SA)

Chapter 191- Akrūra’s devotion to Kṛṣṇa

{{Ref- SS 302}}

व्यास उवाच-

अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसन्दर्शनासक्तः प्रययौ नन्दगोकुले ॥ १ ॥

चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया ।
यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ २ ॥

अद्य मे सफलं जन्म सुप्रभाता च मे निशा ।
यद् उन्निद्राब्जपत्त्राक्षं विष्णोर् द्रक्ष्याम्य् अहम् मुखम् ॥ ३ ॥

पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् ।
तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम् ॥ ४ ॥

निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च ।
द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम् ॥ ५ ॥

यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते यो ऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम् ॥ ६ ॥

इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम् ॥ ७ ॥

न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति स्पृशत्य् अद्य स मे हरिः ॥ ८ ॥

सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः ।
यो भवत्य् अव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ ९ ॥

मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् ।
चकार योगतो योगं स माम् आलापयिष्यति ॥ १० ॥

साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् ।
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥ ११ ॥

यो ऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् ।
सो ऽवतीर्णो जगत्यर्थे माम् अक्रूरेति वक्ष्यति ॥ १२ ॥

पितृबन्धुसुहृद्भ्रातृमातृबन्धुमयीम् इमाम् ।
यन्मायां नालम् उद्धर्तुं जगत् तस्मै नमो नमः ॥ १३ ॥

तरन्त्य् अविद्यां विततां हृदि यस्मिन् निवेशिते ।
योगमायाम् इमां मर्त्यास् तस्मै विद्यात्मने नमः ॥ १४ ॥

यज्वभिर् यज्ञपुरुषो वासुदेवश् च शाश्वतैः ।
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥ १५ ॥

तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् ।
सदसत्त्वं स सत्त्वेन मय्य् असौ यातु सौम्यताम् ॥ १६ ॥

स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ १७ ॥

व्यास उवाच-

इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित् सूर्ये विराजति ॥ १८ ॥

स ददर्श तदा तत्र कृष्णम् आदोहने गवाम् ।
वत्समध्यगतं फुल्लनीलोत्पलदलच्छविम् ॥ १९ ॥

प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् ।
प्रलम्बबाहुम् आयामतुङ्गोरस्थलम् उन्नसम् ॥ २० ॥

सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ २१ ॥

बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ २२ ॥

हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ २३ ॥

प्रांशुम् उत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिम् इवापरम् ॥ २४ ॥

तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस् तदाक्रूरो ऽभवद् द्विजाः ॥ २५ ॥

य एतत् परमं धाम एतत् तत् परमं पदम् ।
अभवद् वासुदेवो ऽसौ द्विधा यो ऽयं व्यवस्थितः ॥ २६ ॥

साफल्यम् अक्ष्णोर् युगपन् ममास्तु ।
दृष्टे जगद्धातरि हासम् उच्चैः ।
अप्य् अङ्गम् एतद् भगवत्प्रसादाद् ।
दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात् ॥ २७ ॥

अद्यैव स्पृष्ट्वा मम हस्तपद्मं ।
करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैर् ।
अवाप्यते सिद्धिर् अनुत्तमा नरैः ॥ २८ ॥

तथाश्विरुद्रेन्द्रवसुप्रणीता ।
देवाः प्रयच्छन्ति वरं प्रहृष्टाः ।
चक्रं घ्नता दैत्यपतेर् हृतानि ।
दैत्याङ्गनानां नयनान्तराणि ॥ २९ ॥

यत्राम्बु विन्यस्य बलिर् मनोभ्याम् ।
अवाप भोगान् वसुधातलस्थः ।
तथामरेशस् त्रिदशाधिपत्यं ।
मन्वन्तरं पूर्णम् अवाप शक्रः ॥ ३० ॥

अथेश मां कंसपरिग्रहेण ।
दोषास्पदीभूतम् अदोषयुक्तम् ।
कर्ता न मानोपहितं धिग् अस्तु ।
यस्मान् मनः साधुबहिष्कृतो यः ॥ ३१ ॥

ज्ञानात्मकस्याखिलसत्त्वराशेर् ।
व्यावृत्तदोषस्य सदास्फुटस्य ।
किं वा जगत्य् अत्र समस्तपुंसाम् ।
अज्ञातम् अस्यास्ति हृदि स्थितस्य ॥ ३२ ॥

तस्माद् अहं भक्तिविनम्रगात्रो ।
व्रजामि विश्वेश्वरम् ईश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य ।
अनादिमध्यान्तम् अजस्य विष्णोः ॥ ३३ ॥