Summary (SA)
Chapter 190- Kaṃsa’s plans against Kṛṣṇa; Keśin-episode
{{Ref- SS 301}}
व्यास उवाच-
ककुद्मिनि हते ऽरिष्टे धेनुके च निपातिते ।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १ ॥
दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ २ ॥
कंसाय नारदः प्राह यथावृत्तम् अनुक्रमात् ।
यशोदादेवकीगर्भपरिवर्ताद्य् अशेषतः ॥ ३ ॥
श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ ४ ॥
सो ऽतिकोपाद् उपालभ्य सर्वयादवसंसदि ।
जगर्हे यादवांश् चापि कार्यं चैतद् अचिन्तयत् ॥ ५ ॥
यावन् न बलम् आरूढौ बलकृष्णौ सुबालकौ ।
तावद् एव मया वध्याव् असाध्यौ रूढयौवनौ ॥ ६ ॥
चाणूरो ऽत्र महावीर्यो मुष्टिकश् च महाबलः ।
एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ ७ ॥
धनुर्महमहायागव्याजेनानीय तौ व्रजात् ।
तथा तथा करिष्यामि यास्यतः सङ्क्षयं यथा ॥ ८ ॥
व्यास उवाच-
इत्य् आलोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमतिर् वीरम् अक्रूरं वाक्यम् अब्रवीत् ॥ ९ ॥
कंस उवाच-
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनम् आरुह्य गम्यतां नन्दगोकुलम् ॥ १० ॥
वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ ।
नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ ११ ॥
धनुर्महमहायागश् चतुर्दश्यां भविष्यति ।
आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ १२ ॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर् युद्धं सर्वलोको ऽत्र पश्यतु ॥ १३ ॥
नागः कुवलयापीडो महामात्रप्रचोदितः ।
स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ १४ ॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ १५ ॥
ततः समस्तगोपानां गोधनान्य् अखिलान्य् अहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १६ ॥
त्वाम् ऋते यादवाश् चेमे दुष्टा दानपते मम ।
एतेषां च वधायाहं प्रयतिष्याम्य् अनुक्रमात् ॥ १७ ॥
ततो निष्कण्टकं सर्वं राज्यम् एतद् अयादवम् ।
प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥ १८ ॥
यथा च माहिषं सर्पिर् दधि चाप्य् उपहार्य वै ।
गोपाः समानयन्त्य् आशु त्वया वाच्यास् तथा तथा ॥ १९ ॥
व्यास उवाच-
इत्य् आज्ञप्तस् तदाक्रूरो महाभागवतो द्विजाः ।
प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ २० ॥
तथेत्य् उक्त्वा तु राजानं रथम् आरुह्य सत्वरः ।
निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ २१ ॥
व्यास उवाच-
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनम् उपागमत् ॥ २२ ॥
स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः ।
पुनर् विक्रान्तचन्द्रार्कमार्गो गोपान्तम् आगमत् ॥ २३ ॥
तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः ॥ २४ ॥
त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तु तद्वचः ।
सतोयजलदध्वानगम्भीरम् इदम् उक्तवान् ॥ २५ ॥
गोविन्द उवाच-
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भवद्भिर् गोपजातीयैर् वीरवीर्यं विलोप्यते ॥ २६ ॥
किम् अनेनाल्पसारेण ह्रेषितारोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ २७ ॥
एह्य् एहि दुष्ट कृष्णो ऽहं पूष्णस् त्व् इव पिनाकधृक् ।
पातयिष्यामि दशनान् वदनाद् अखिलांस् तव ॥ २८ ॥
व्यास उवाच-
इत्य् उक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ ।
विवृतास्यश् च सो ऽप्य् एनं दैतेयश् च उपाद्रवत् ॥ २९ ॥
बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः ।
प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः ॥ ३० ॥
केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनास् तस्य सिताभ्रावयवा इव ॥ ३१ ॥
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः ।
विनाशाय यथा व्याधिर् आप्तभूतैर् उपेक्षितः ॥ ३२ ॥
विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् ।
सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥ ३३ ॥
जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सो ऽभवत् ततः ॥ ३४ ॥
व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना ।
निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥ ३५ ॥
द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके ।
केशिनस् ते द्विधा भूते शकले च विरेजतुः ॥ ३६ ॥
हत्वा तु केशिनं कृष्णो मुदितैर् गोपकैर् वृतः ।
अनायस्ततनुः स्वस्थो हसंस् तत्रैव संस्थितः ॥ ३७ ॥
ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम् ॥ ३८ ॥
आययौ त्वरितो विप्रो नारदो जलदस्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ ३९ ॥
नारद उवाच-
साधु साधु जगन्नाथ लीलयैव यद् अच्युत ।
निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम् ॥ ४० ॥
सुकर्माण्य् अवतारे तु कृतानि मधुसूदन ।
यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम् ॥ ४१ ॥
तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति ।
धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः ॥ ४२ ॥
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥ ४३ ॥
स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः ।
परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन ॥ ४४ ॥
उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥ ४५ ॥
तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ ४६ ॥
सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् ।
त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥ ४७ ॥
व्यास उवाच-
नारदे तु गते कृष्णः सह गोपैर् अविस्मितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ ४८ ॥