189

Summary (SA)

Chapter 189- Kṛṣṇa and the cowherds; Ariṣṭa-episode

{{Ref- SS 299-300}}

व्यास उवाच-

गते शक्रे तु गोपालाः कृष्णम् अक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १ ॥

गोपा ऊचुः-

वयम् अस्मान् महाभाग भवता महतो भयात् ।
गावश् च भवता त्राता गिरिधारणकर्मणा ॥ २ ॥

बालक्रीडेयम् अतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च कर्म भवतः किम् एतत् तात कथ्यताम् ॥ ३ ॥

कालियो दमितस् तोये प्रलम्बो विनिपातितः ।
धृतो गोवर्धनश् चायं शङ्कितानि मनांसि नः ॥ ४ ॥

सत्यं सत्यं हरेः पादौ श्रयामो ऽमितविक्रम ।
यथा त्वद्वीर्यम् आलोक्य न त्वां मन्यामहे नरम् ॥ ५ ॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किं चास्माकं विचारेण बान्धवो ऽस्ति नमो ऽस्तु ते ॥ ६ ॥

प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव ।
कर्म चेदम् अशक्यं यत् समस्तैस् त्रिदशैर् अपि ॥ ७ ॥

बालत्वं चातिवीर्यं च जन्म चास्मास्व् अशोभनम् ।
चिन्त्यमानम् अमेयात्मञ् शङ्कां कृष्ण प्रयच्छति ॥ ८ ॥

व्यास उवाच-

क्षणं भूत्वा त्व् असौ तूष्णीं किञ्चित् प्रणयकोपवान् ।
इत्य् एवम् उक्तस् तैर् गोपैर् आह कृष्णो द्विजोत्तमाः ॥ ९ ॥

श्रीकृष्ण उवाच-

मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ १० ॥

यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि ।
तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥ ११ ॥

नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नातश् चिन्त्यम् अतो ऽन्यथा ॥ १२ ॥

व्यास उवाच-

इति श्रुत्वा हरेर् वाक्यं बद्धमौनास् ततो बलम् ।
ययुर् गोपा महाभागास् तस्मिन् प्रणयकोपिनि ॥ १३ ॥

कृष्णस् तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
तथा कुमुदिनीं फुल्लाम् आमोदितदिगन्तराम् ॥ १४ ॥

वनराजीं तथा कूजद्भृङ्गमालामनोरमाम् ।
विलोक्य सह गोपीभिर् मनश् चक्रे रतिं प्रति ॥ १५ ॥

सह रामेण मधुरम् अतीव वनिताप्रियम् ।
जगौ कमलपादो ऽसौ नाम तत्र कृतव्रतः ॥ १६ ॥

रम्यं गीतध्वनिं श्रुत्वा सन्त्यज्यावसथांस् तदा ।
आजग्मुस् त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १७ ॥

शनैः शनैर् जगौ गोपी काचित् तस्य पदानुगा ।
दत्तावधाना काचिच् च तम् एव मनसास्मरत् ॥ १८ ॥

काचित् कृष्णेति कृष्णेति चोक्त्वा लज्जाम् उपाययौ ।
ययौ च काचित् प्रेमान्धा तत्पार्श्वम् अविलज्जिता ॥ १९ ॥

काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर् गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ २० ॥

गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
मानयाम् आस गोविन्दो रासारम्भरसोत्सुकः ॥ २१ ॥

गोप्यश् च वृन्दशः कृष्णचेष्टाभ्यायत्तमूर्तयः ।
अन्यदेशगते कृष्णे चेरुर् वृन्दावनान्तरम् ॥ २२ ॥

बभ्रमुस् तास् ततो गोप्यः कृष्णदर्शनलालसाः ।
कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥ २३ ॥

एवं नानाप्रकारासु कृष्णचेष्टासु तासु च ।
गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥ २४ ॥

निवृत्तास् तास् ततो गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरम् आगम्य जगुस् तच्चरितं द्विजाः ॥ २५ ॥

ततो ददृशुर् आयान्तं विकाशिमुखपङ्कजम् ।
गोप्यस् त्रैलोक्यगोप्तारं कृष्णम् अक्लिष्टकारिणम् ॥ २६ ॥

काचिद् आलोक्य गोविन्दम् आयान्तम् अतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥ २७ ॥

काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ २८ ॥

काचिद् आलोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ २९ ॥

ततः काञ्चित् प्रियालापैः काञ्चिद् भ्रूभङ्गवीक्षितैः ।
निन्ये ऽनुनयम् अन्याश् च करस्पर्शेन माधवः ॥ ३० ॥

ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् ।
रराम रासगोष्ठीभिर् उदारचरितो हरिः ॥ ३१ ॥

रासमण्डलबद्धो ऽपि कृष्णपार्श्वम् अनूद्गता ।
गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना ॥ ३२ ॥

हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् ।
चकार च करस्पर्शनिमीलितदृशं हरिः ॥ ३३ ॥

ततः प्रववृते रम्या चलद्वलयनिस्वनैः ।
अनुयातशरत्काव्यगेयगीतिर् अनुक्रमाम् ॥ ३४ ॥

कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् ।
जगौ गोपीजनस् त्व् एकं कृष्णनाम पुनः पुनः ॥ ३५ ॥

परिवृत्ता श्रमेणैका चलद्वलयतापिनी ।
ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः ॥ ३६ ॥

काचित् प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् ।
गोपी गीतस्तुतिव्याजनिपुणा मधुसूदनम् ॥ ३७ ॥

गोपीकपोलसंश्लेषम् अभिपद्य हरेर् भुजौ ।
पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ ३८ ॥

रासगेयं जगौ कृष्णो यावत् तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥ ३९ ॥

गते ऽनुगमनं चक्रुर् वलने सम्मुखं ययुः ।
प्रतिलोमानुलोमेन भेजुर् गोपाङ्गना हरिम् ॥ ४० ॥

स तदा सह गोपीभी रराम मधुसूदनः ।
स वर्षकोटिप्रतिमः क्षणस् तेन विनाभवत् ॥ ४१ ॥

ता वार्यमाणाः पितृभिः पतिभिर् भ्रातृभिस् तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ४२ ॥

सो ऽपि कैशोरकवया मानयन् मधुसूदनः ।
रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः ॥ ४३ ॥

तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपो ऽसौ व्याप्य सर्वम् अवस्थितः ॥ ४४ ॥

यथा समस्तभूतेषु नभो ऽग्निः पृथिवी जलम् ।
वायुश् चात्मा तथैवासौ व्याप्य सर्वम् अवस्थितः ॥ ४५ ॥

व्यास उवाच-

प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने ।
त्रासयन् समदो गोष्ठान् अरिष्टः समुपागतः ॥ ४६ ॥

सतोयतोयदाकारस् तीक्ष्णशृङ्गो ऽर्कलोचनः ।
खुराग्रपातैर् अत्यर्थं दारयन् धरणीतलम् ॥ ४७ ॥

लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः ।
संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ४८ ॥

उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः ।
विण्मूत्रालिप्तपृष्ठाङ्गो गवाम् उद्वेगकारकः ॥ ४९ ॥

प्रलम्बकण्ठो ऽभिमुखस् तरुघाताङ्किताननः ।
पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक् ॥ ५० ॥

सूदयंस् तरसा सर्वान् वनान्य् अटति यः सदा ।
ततस् तम् अतिघोराक्षम् अवेक्ष्यातिभयातुराः ॥ ५१ ॥

गोपा गोपस्त्रियश् चैव कृष्ण कृष्णेति चुक्रुशुः ।
सिंहनादं ततश् चक्रे तलशब्दं च केशवः ॥ ५२ ॥

तच्छब्दश्रवणाच् चासौ दामोदरमुखं ययौ ।
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥ ५३ ॥

अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् ।
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥ ५४ ॥

न चचाल ततः स्थानाद् अवज्ञास्मितलीलया ।
आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः ॥ ५५ ॥

जघान जानुना कुक्षौ विषाणग्रहणाचलम् ।
तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥ ५६ ॥

आपीडयद् अरिष्टस्य कण्ठं क्लिन्नम् इवाम्बरम् ।
उत्पाट्य शृङ्गम् एकं च तेनैवाताडयत् ततः ॥ ५७ ॥

ममार स महादैत्यो मुखाच् छोणितम् उद्वमन् ।
तुष्टुवुर् निहते तस्मिन् गोपा दैत्ये जनार्दनम् ।
जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥ ५८ ॥