188

Summary (SA)

Chapter 188- Govardhana-episode; encounter of Indra and Kṛṣṇa

{{Ref- SS 298-299}}

व्यास उवाच-

महे प्रतिहते शक्रो भृशं कोपसमन्वितः ।
संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत् ॥ १ ॥

इन्द्र उवाच-

भो भो मेघा निशम्यैतद् वदतो वचनं मम ।
आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम् ॥ २ ॥

नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान् ।
कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत् ॥ ३ ॥

आजीवो यः परं तेषां गोपत्वस्य च कारणम् ।
ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥ ४ ॥

अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् ।
साहाय्यं वः करिष्यामि वायूनां सङ्गमेन च ॥ ५ ॥

व्यास उवाच-

इत्य् आज्ञप्ताः सुरेन्द्रेण मुमुचुस् ते बलाहकाः ।
वातवर्षं महाभीमम् अभावाय गवां द्विजाः ॥ ६ ॥

ततः क्षणेन धरणी ककुभो ऽम्बरम् एव च ।
एकं धारामहासारपूरणेनाभवद् द्विजाः ॥ ७ ॥

गावस् तु तेन पतता वर्षवातेन वेगिना ।
धुताः प्राणाञ् जहुः सर्वास् तिर्यङ्मुखशिरोधराः ॥ ८ ॥

क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या द्विजोत्तमाः ।
गावो विवत्साश् च कृता वारिपूरेण चापराः ॥ ९ ॥

वत्साश् च दीनवदनाः पवनाकम्पिकन्धराः ।
त्राहि त्राहीत्य् अल्पशब्दाः कृष्णम् ऊचुर् इवार्तकाः ॥ १० ॥

ततस् तद् गोकुलं सर्वं गोगोपीगोपसङ्कुलम् ।
अतीवार्तं हरिर् दृष्ट्वा त्राणायाचिन्तयत् तदा ॥ ११ ॥

एतत् कृतं महेन्द्रेण महभङ्गविरोधिना ।
तद् एतद् अखिलं गोष्ठं त्रातव्यम् अधुना मया ॥ १२ ॥

इमम् अद्रिम् अहं वीर्याद् उत्पाट्योरुशिलातलम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रम् इवोपरि ॥ १३ ॥

व्यास उवाच-

इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणैव धारयाम् आस लीलया ॥ १४ ॥

गोपांश् चाह जगन्नाथः समुत्पाटितभूधरः ।
विशध्वम् अत्र सहिताः कृतं वर्षनिवारणम् ॥ १५ ॥

सुनिर्वातेषु देशेषु यथायोग्यम् इहास्यताम् ।
प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ १६ ॥

इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह ।
शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः ॥ १७ ॥

कृष्णो ऽपि तं दधारैवं शैलम् अत्यन्तनिश्चलम् ।
व्रजौकोवासिभिर् हर्षविस्मिताक्षैर् निरीक्षितः ॥ १८ ॥

गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलम् अधारयत् ॥ १९ ॥

सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले ।
इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ २० ॥

ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान् ॥ २१ ॥

व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते ।
निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनर् आगमत् ॥ २२ ॥

मुमोच कृष्णो ऽपि तदा गोवर्धनमहागिरिम् ।
स्वस्थाने विस्मितमुखैर् दृष्टस् तैर् व्रजवासिभिः ॥ २३ ॥

व्यास उवाच-

धृते गोवर्धने शैले परित्राते च गोकुले ।
रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः ॥ २४ ॥

सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ २५ ॥

चारयन्तं महावीर्यं गाश् च गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ २६ ॥

गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विजाः ।
कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ २७ ॥

अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् ।
शक्रः सस्मितम् आहेदं प्रीतिविस्फारितेक्षणः ॥ २८ ॥

इन्द्र उवाच-

कृष्ण कृष्ण शृणुष्वेदं यदर्थम् अहम् आगतः ।
त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वयान्यथा ॥ २९ ॥

भारावतरणार्धाय पृथिव्याः पृथिवीतलम् ।
अवतीर्णो ऽखिलाधारस् त्वम् एव परमेश्वर ॥ ३० ॥

महभङ्गविरुद्धेन मया गोकुलनाशकाः ।
समादिष्टा महामेघास् तैश् चैतत् कदनं कृतम् ॥ ३१ ॥

त्रातास् तापात् त्वया गावः समुत्पाट्य महागिरिम् ।
तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥ ३२ ॥

साधितं कृष्ण देवानाम् अद्य मन्ये प्रयोजनम् ।
त्वयायम् अद्रिप्रवरः करेणैकेन चोद्धृतः ॥ ३३ ॥

गोभिश् च नोदितः कृष्ण त्वत्समीपम् इहागतः ।
त्वया त्राताभिर् अत्यर्थं युष्मत्कारणकारणात् ॥ ३४ ॥

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवाम् इन्द्रो गोविन्दस् त्वं भविष्यसि ॥ ३५ ॥

अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ ३६ ॥

क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्रवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुन्धराम् ॥ ३७ ॥

अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् ।
प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः ॥ ३८ ॥

इन्द्र उवाच-

गवाम् एतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु ।
यद् ब्रवीमि महाभाग भारावतरणेच्छया ॥ ३९ ॥

ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर ।
अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा ॥ ४० ॥

भारावतरणे सख्यं स ते वीरः करिष्यति ।
स रक्षणीयो भवता यथात्मा मधुसूदन ॥ ४१ ॥

श्रीभगवान् उवाच-

जानामि भारते वंशे जातं पार्थं तवांशतः ।
तम् अहं पालयिष्यामि यावद् अस्मि महीतले ॥ ४२ ॥

यावन् महीतले शक्र स्थास्याम्य् अहम् अरिन्दम ।
न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति ॥ ४३ ॥

कंसो नाम महाबाहुर् दैत्यो ऽरिष्टस् तथा परः ।
केशी कुवलयापीडो नरकाद्यास् तथापरे ॥ ४४ ॥

हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ ४५ ॥

स त्वं गच्छ न सन्तापं पुत्रार्थे कर्तुम् अर्हसि ।
नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥ ४६ ॥

अर्जुनार्थे त्व् अहं सर्वान् युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥ ४७ ॥

व्यास उवाच-

इत्य् उक्तः सम्परिष्वज्य देवराजो जनार्दनम् ।
आरुह्यैरावतं नागं पुनर् एव दिवं ययौ ॥ ४८ ॥

कृष्णो ऽपि सहितो गोभिर् गोपालैश् च पुनर् व्रजम् ।
आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥ ४९ ॥