187

Summary (SA)

Chapter 187- Pralamba-episode; institution of hill-worship by Kṛṣṇa

{{Ref- SS 297-298}}

व्यास उवाच-

तस्मिन् रासभदैतेये सानुजे विनिपातिते ।
सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १ ॥

ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ ।
शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ ॥ २ ॥

चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ।
नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ ३ ॥

सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ ।
महेन्द्रायुधसङ्काशौ श्वेतकृष्णाव् इवाम्बुदौ ॥ ४ ॥

चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५ ॥

मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम् ॥ ६ ॥

ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ ।
व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः ॥ ७ ॥

तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः ।
आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ ८ ॥

सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः ।
मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः ॥ ९ ॥

तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ १० ॥

हरिणा क्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥ ११ ॥

श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः ।
गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः ॥ १२ ॥

श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः ।
जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः ॥ १३ ॥

ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै ।
पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः ॥ १४ ॥

सङ्कर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः ।
न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ १५ ॥

अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ।
ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ १६ ॥

सङ्कर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ १७ ॥

रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।
ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत् ॥ १८ ॥

बलराम उवाच-

कृष्ण कृष्ण ह्रिये त्व् एष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ १९ ॥

यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन ।
तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः ॥ २० ॥

व्यास उवाच-

तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ २१ ॥

कृष्ण उवाच-

किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया ॥ २२ ॥

स्मराशेषजगदीश कारणं कारणाग्रज ।
आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यः ॥ २३ ॥

भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम् ।
जगतो ऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ ॥ २४ ॥

तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम् ।
मानुष्यम् एवम् आलम्ब्य बन्धूनां क्रियतां हितम् ॥ २५ ॥

व्यास उवाच-

इति संस्मारितो विप्राः कृष्णेन सुमहात्मना ।
विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः ॥ २६ ॥

मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर् याते विलोचने ॥ २७ ॥

स निष्कासितमस्तिष्को मुखाच् छोणितम् उद्वमन् ।
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ २८ ॥

प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास् तुष्टुवुर् गोपाः साधु साध्व् इति चाब्रुवन् ॥ २९ ॥

संस्तूयमानो रामस् तु गोपैर् दैत्ये निपातिते ।
प्रलम्बे सह कृष्णेन पुनर् गोकुलम् आययौ ॥ ३० ॥

व्यास उवाच-

तयोर् विहरतोर् एवं रामकेशवयोर् व्रजे ।
प्रावृड्व्यतीता विकसत्सरोजा चाभवच् छरत् ॥ ३१ ॥

विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् ।
ददर्शेन्द्रोत्सवारम्भप्रवृत्तान् व्रजवासिनः ॥ ३२ ॥

कृष्णस् तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान् ।
कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः ॥ ३३ ॥

कृष्ण उवाच-

को ऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश् च पृच्छन्तम् अतिसादरम् ॥ ३४ ॥

नन्द उवाच-

मेघानां पयसाम् ईशो देवराजः शतक्रतुः ।
येन सञ्चोदिता मेघा वर्षन्त्य् अम्बुमयं रसम् ॥ ३५ ॥

तद्वृष्टिजनितं सस्यं वयम् अन्ये च देहिनः ।
वर्तयामोपभुञ्जानास् तर्पयामश् च देवताः ॥ ३६ ॥

क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः ।
तेन संवर्धितैः सस्यैः पुष्टास् तुष्टा भवन्ति वै ॥ ३७ ॥

नासस्या नानृणा भूमिर् न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ ३८ ॥

भौमम् एतत् पयो गोभिर् धत्ते सूर्यस्य वारिदः ।
पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥ ३९ ॥

तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः ।
महे सुरेशम् अर्घन्ति वयम् अन्ये च देहिनः ॥ ४० ॥

व्यास उवाच-

नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस् तदा ॥ ४१ ॥

कृष्ण उवाच-

न वयं कृषिकर्तारो वणिज्याजीविनो न च ।
गावो ऽस्मद्दैवतं तात वयं वनचरा यतः ॥ ४२ ॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस् तथापरा ।
विद्याचतुष्टयं त्व् एतद् वार्त्ताम् अत्र शृणुष्व मे ॥ ४३ ॥

कृषिर् वणिज्या तद्वच् च तृतीयं पशुपालनम् ।
विद्या ह्य् एता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥ ४४ ॥

कर्षकाणां कृषिर् वृत्तिः पण्यं तु पणजीविनाम् ।
अस्माकं गाः परा वृत्तिर् वार्त्ता भेदैर् इयं त्रिभिः ॥ ४५ ॥

विद्यया यो यया युक्तस् तस्य सा दैवतं महत् ।
सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ ४६ ॥

यो ऽन्यस्याः फलम् अश्नन् वै पूजयत्य् अपरां नरः ।
इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥ ४७ ॥

पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर् वनम् ।
वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥ ४८ ॥

गिरियज्ञस् त्व् अयं तस्माद् गोयज्ञश् च प्रवर्त्यताम् ।
किम् अस्माकं महेन्द्रेण गावः शैलाश् च देवताः ॥ ४९ ॥

मन्त्रयज्ञपरा विप्राः सीरयज्ञाश् च कर्षकाः ।
गिरिगोयज्ञशीलाश् च वयम् अद्रिवनाश्रयाः ॥ ५० ॥

तस्माद् गोवर्धनः शैलो भवद्भिर् विविधार्हणैः ।
अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥ ५१ ॥

सर्वघोषस्य सन्दोहा गृह्यन्तां मा विचार्यताम् ।
भोज्यन्तां तेन वै विप्रास् तथान्ये चापि वाञ्छकाः ॥ ५२ ॥

तम् अर्चितं कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ ५३ ॥

एतन् मम मतं गोपाः सम्प्रीत्या क्रियते यदि ।
ततः कृता भवेत् प्रीतिर् गवाम् अद्रेस् तथा मम ॥ ५४ ॥

व्यास उवाच-

इति तस्य वचः श्रुत्वा नन्दाद्यास् ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा विप्राः साधु साध्व् इत्य् अथाब्रुवन् ॥ ५५ ॥

शोभनं ते मतं वत्स यद् एतद् भवतोदितम् ।
तत् करिष्याम्य् अहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ५६ ॥

तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः ।
दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः ॥ ५७ ॥

द्विजांश् च भोजयाम् आसुः शतशो ऽथ सहस्रशः ।
गावः शैलं ततश् चक्रुर् अर्चितास् तं प्रदक्षिणम् ॥ ५८ ॥

वृषभाश् चाभिनर्दन्तः सतोया जलदा इव ।
गिरिमूर्धनि गोविन्दः शैलो ऽहम् इति मूर्तिमान् ॥ ५९ ॥

बुभुजे ऽन्नं बहुविधं गोपवर्याहृतं द्विजाः ।
कृष्णस् तेनैव रूपेण गोपैः सह गिरेः शिरः ॥ ६० ॥

अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम् ।
अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः ॥ ६१ ॥