Summary (SA)
Chapter 186- Dhenuka-episode
{{Ref- SS 296-297}}
व्यास उवाच-
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ ।
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १ ॥
तच् च तालवनं नित्यं धेनुको नाम दानवः ।
नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ २ ॥
तत्र तालवनं रम्यं फलसम्पत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन् वचः ॥ ३ ॥
गोपा ऊचुः-
हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते ।
भूप्रदेशो यतस् तस्मात् त्यक्तानीमानि सन्ति वै ॥ ४ ॥
फलानि पश्य तालानां गन्धमोदयुतानि वै ।
वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते ॥ ५ ॥
इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः ।
कृष्णश् च पातयाम् आस भुवि तालफलानि वै ॥ ६ ॥
तालानां पततां शब्दम् आकर्ण्यासुरराट् ततः ।
आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥ ७ ॥
पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां च तं बली ।
जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत ॥ ८ ॥
गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् ।
तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि ॥ ९ ॥
ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः ।
पृथिव्यां पातयाम् आस महावातो ऽम्बुदान् इव ॥ १० ॥
अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् ।
कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया ॥ ११ ॥
क्षणेनालङ्कृता पृथ्वी पक्वैस् तालफलैस् तदा ।
दैत्यगर्दभदेहैश् च मुनयः शुशुभे ऽधिकम् ॥ १२ ॥
ततो गावो निराबाधास् तस्मिंस् तालवने द्विजाः ।
नवशष्पं सुखं चेरुर् यत्र भुक्तम् अभूत् पुरा ॥ १३ ॥