Summary (SA)
Chapter 185- Kālīya-episode
{{Ref- SS 295-296}}
व्यास उवाच-
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः ॥ १ ॥
स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः ॥ २ ॥
तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ।
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ ३ ॥
विषाग्निना विसरता दग्धतीरमहातरुम् ।
वाताहताम्बुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ ४ ॥
तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम् ।
विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः ॥ ५ ॥
अस्मिन् वसति दुष्टात्मा कालीयो ऽसौ विषायुधः ।
यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ ६ ॥
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।
न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते ॥ ७ ॥
तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया ।
नित्यत्रस्ताः सुखं येन चरेयुर् व्रजवासिनः ॥ ८ ॥
एतदर्थं नृलोके ऽस्मिन्न् अवतारो मया कृतः ।
यद् एषाम् उत्पथस्थानां कार्या शास्तिर् दुरात्मनाम् ॥ ९ ॥
तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम् ।
अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिञ् जीवनाशिनः ॥ १० ॥
व्यास उवाच-
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ ११ ॥
तेनापि पतता तत्र क्षोभितः स महाह्रदः ।
अत्यर्थदूरजातांश् च तांश् चासिञ्चन् महीरुहान् ॥ १२ ॥
ते ऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः ।
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ १३ ॥
आस्फोटयाम् आस तदा कृष्णो नागह्रदं भुजैः ।
तच्छब्दश्रवणाच् चाथ नागराजो ऽभ्युपागमत् ॥ १४ ॥
आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः ।
वृतो महाविषैश् चान्यैर् अरुणैर् अनिलाशनैः ॥ १५ ॥
नागपत्न्यश् च शतशो हारिहारोपशोभिताः ।
प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः ॥ १६ ॥
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः ॥ १७ ॥
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् ।
गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः ॥ १८ ॥
गोपा ऊचुः-
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम् ॥ १९ ॥
व्यास उवाच-
एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः ।
गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम् ॥ २० ॥
हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ २१ ॥
नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ २२ ॥
ददृशुश् चापि ते तत्र सर्पराजवशङ्गतम् ।
निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ २३ ॥
नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ २४ ॥
गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः ।
प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम् ॥ २५ ॥
सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे ।
नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे ॥ २६ ॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना दुग्धेन का गावो विना कृष्णेन को व्रजः ।
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ २७ ॥
व्यास उवाच-
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः ॥ २८ ॥
नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसञ्ज्ञया ॥ २९ ॥
बलराम उवाच-
किम् अयं देवदेवेश भावो ऽयं मानुषस् त्वया ।
व्यज्यते स्वं तम् आत्मानं किम् अन्यं त्वं न वेत्सि यत् ॥ ३० ॥
त्वम् अस्य जगतो नाभिः सुराणाम् एव चाश्रयः ।
कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥ ३१ ॥
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ॥ ३२ ॥
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् ।
तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥ ३३ ॥
व्यास उवाच-
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः ।
आस्फाल्य मोचयाम् आस स्वं देहं भोगबन्धनात् ॥ ३४ ॥
आनाम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम् ।
आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥ ३५ ॥
व्रणाः फणे ऽभवंस् तस्य कृष्णस्याङ्घ्रिविकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ३६ ॥
मूर्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ३७ ॥
तं निर्भुग्नशिरोग्रीवम् आस्यप्रस्रुतशोणितम् ।
विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम् ॥ ३८ ॥
नागपत्न्य ऊचुः-
ज्ञातो ऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तम ।
परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः ॥ ३९ ॥
न समर्थाः सुर स्तोतुं यम् अनन्यभवं प्रभुम् ।
स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥ ४० ॥
यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम् ॥ ४१ ॥
ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः ।
प्राणांस् त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम् ॥ ४२ ॥
व्यास उवाच-
इत्य् उक्ते ताभिर् आश्वास्य क्लान्तदेहो ऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ४३ ॥
कालीय उवाच-
तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम् ॥ ४४ ॥
त्वं परस् त्वं परस्याद्यः परं त्वं तत्परात्मकम् ।
परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम् ॥ ४५ ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस् तथेदं चेष्टितं मया ॥ ४६ ॥
यद्य् अन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दण्डनिपातस् ते तवैव वचनं यथा ॥ ४७ ॥
तथापि यं जगत्स्वामी दण्डं पातितवान् मयि ।
स सोढो ऽयं वरो दण्डस् त्वत्तो नान्यो ऽस्तु मे वरः ॥ ४८ ॥
हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत ।
जीवितं दीयताम् एकम् आज्ञापय करोमि किम् ॥ ४९ ॥
श्रीभगवान् उवाच-
नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले ।
सभृत्यपरिवारस् त्वं समुद्रसलिलं व्रज ॥ ५० ॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे ।
गरुडः पन्नगरिपुस् त्वयि न प्रहरिष्यति ॥ ५१ ॥
व्यास उवाच-
इत्य् उक्त्वा सर्पराजानं मुमोच भगवान् हरिः ।
प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम् ॥ ५२ ॥
पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ५३ ॥
गते सर्पे परिष्वज्य मृतं पुनर् इवागतम् ।
गोपा मूर्धनि गोविन्दं सिषिचुर् नेत्रजैर् जलैः ॥ ५४ ॥
कृष्णम् अक्लिष्टकर्माणम् अन्ये विस्मितचेतसः ।
तुष्टुवुर् मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ ५५ ॥
गीयमानो ऽथ गोपीभिश् चरितैश् चारुचेष्टितैः ।
संस्तूयमानो गोपालैः कृष्णो व्रजम् उपागमत् ॥ ५६ ॥