Summary (SA)
Chapter 184- Adventures of the child Kṛṣṇa
{{Ref- SS 294-295}}
व्यास उवाच-
विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥ १ ॥
वसुदेवो ऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् ।
वार्धके ऽपि समुत्पन्नस् तनयो ऽयं तवाधुना ॥ २ ॥
दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः ।
यदर्थम् आगतस् तस्मान् नात्र स्थेयं महात्मना ॥ ३ ॥
यदर्थम् आगतः कार्यं तन् निष्पन्नं किम् आस्यते ।
भवद्भिर् गम्यतां नन्द तच् छीघ्रं निजगोकुलम् ॥ ४ ॥
ममापि बालकस् तत्र रोहिणीप्रसवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ॥ ५ ॥
व्यास उवाच-
इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः ॥ ६ ॥
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णम् उपादाय रात्रौ च प्रददौ स्तनम् ॥ ७ ॥
यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति ।
तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ ८ ॥
कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ ९ ॥
सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १० ॥
तन्नादश्रुतिसन्त्रासाद् विबुद्धास् ते व्रजौकसः ।
ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ ११ ॥
आदाय कृष्णं सन्त्रस्ता यशोदा च ततो द्विजाः ।
गोपुच्छभ्रामणाद्यैश् च बालदोषम् अपाकरोत् ॥ १२ ॥
गोपुरीषम् उपादाय नन्दगोपो ऽपि मस्तके ।
कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदम् उदैरयत् ॥ १३ ॥
नन्दगोप उवाच-
रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज् जगत् ॥ १४ ॥
येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत् ।
वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ १५ ॥
गुह्यं स जठरं विष्णुर् जङ्घापादौ जनार्दनः ।
वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत् ॥ १६ ॥
त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः ।
शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ १७ ॥
मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।
रक्षत्व् अव्याहतैश्वर्यस् तव नारायणो ऽव्ययः ॥ १८ ॥
त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १९ ॥
व्यास उवाच-
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥ २० ॥
ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ २१ ॥
कदाचिच् छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणाव् ऊर्ध्वं स्तनार्थी प्ररुरोद च ॥ २२ ॥
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै ॥ २३ ॥
ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः ।
आजगाम तदा ज्ञात्वा बालम् उत्तानशायिनम् ॥ २४ ॥
गोपाः केनेति जगदुः शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम् ॥ २५ ॥
रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम् ।
शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥ २६ ॥
ततः पुनर् अतीवासन् गोपा विस्मितचेतसः ।
नन्दगोपो ऽपि जग्राह बालम् अत्यन्तविस्मितः ॥ २७ ॥
यशोदा विस्मयारूढा भग्नभाण्डकपालकम् ।
शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः ॥ २८ ॥
गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारम् अकरोत् तयोः ॥ २९ ॥
ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥ ३० ॥
अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ ।
घृष्टजानुकरौ विप्रा बभूवतुर् उभाव् अपि ॥ ३१ ॥
करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः ।
न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥ ३२ ॥
गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ ३३ ॥
यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ ।
शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ ॥ ३४ ॥
दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले ।
कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता ॥ ३५ ॥
यशोदोवाच-
यदि शक्तो ऽसि गच्छ त्वम् अतिचञ्चलचेष्टित ॥ ३६ ॥
व्यास उवाच-
इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी ।
व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम् ॥ ३७ ॥
यमलार्जुनयोर् मध्ये जगाम कमलेक्षणः ।
कर्षता वृक्षयोर् मध्ये तिर्यग् एवम् उलूखलम् ॥ ३८ ॥
भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ।
ततः कटकटाशब्दसमाकर्णनकातरः ॥ ३९ ॥
आजगाम व्रजजनो ददृशे च महाद्रुमौ ।
भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥ ४० ॥
ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् ।
तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥ ४१ ॥
ततश् च दामोदरतां स ययौ दामबन्धनात् ।
गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः ॥ ४२ ॥
मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः ।
स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महावनम् ॥ ४३ ॥
उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः ।
पूतनाया विनाशश् च शकटस्य विपर्ययः ॥ ४४ ॥
विना वातादिदोषेण द्रुमयोः पतनं तथा ।
वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम् ॥ ४५ ॥
यावद् भौममहोत्पातदोषो नाभिभवेद् व्रजम् ।
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥ ४६ ॥
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ।
ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा ॥ ४७ ॥
यूथशो वत्सपालीश् च कालयन्तो व्रजौकसः ।
सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा ॥ ४८ ॥
काककाकीसमाकीर्णं व्रजस्थानम् अभूद् द्विजाः ।
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥ ४९ ॥
शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता ।
ततस् तत्रातिरुक्षे ऽपि धर्मकाले द्विजोत्तमाः ॥ ५० ॥
प्रावृट्काल इवाभूच् च नवशष्पं समन्ततः ।
स समावासितः सर्वो व्रजो वृन्दावने ततः ॥ ५१ ॥
शकटीवाटपर्यन्तचन्द्रार्धाकारसंस्थितिः ।
वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥ ५२ ॥
तत्र स्थितौ तौ च गोष्ठे चेरतुर् बाललीलया ।
बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥ ५३ ॥
गोपवेणुकृतातोद्यपत्त्रवाद्यकृतस्वनौ ।
काकपक्षधरौ बालौ कुमाराव् इव पावकौ ॥ ५४ ॥
हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् ।
क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः ॥ ५५ ॥
गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः ।
कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥ ५६ ॥
सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे ।
प्रावृट्कालस् ततो ऽतीव मेघौघस्थगिताम्बरः ॥ ५७ ॥
बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव ।
प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥ ५८ ॥
यथा मारकते वासीत् पद्मरागविभूषिता ।
ऊहुर् उन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥ ५९ ॥
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव ।
विकाले च यथाकामं व्रजम् एत्य महाबलौ ।
गोपैः समानैः सहितौ चिक्रीडाते ऽमराव् इव ॥ ६० ॥