183

Summary (SA)

Chapter 183- Kaṃsa’s plans and thoughts

{{Ref- SS 294}}

व्यास उवाच-

कंसस् त्व् अथोद्विग्नमनाः प्राह सर्वान् महासुरान् ।
प्रलम्बकेशिप्रमुखान् आहूयासुरपुङ्गवान् ॥ १ ॥

कंस उवाच-

हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने ।
अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम ॥ २ ॥

मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान् वीरान् न त्व् एतान् गणयाम्य् अहम् ॥ ३ ॥

आश्चर्यं कन्यया चोक्तं जायते दैत्यपुङ्गवाः ।
हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि ॥ ४ ॥

तथापि खलु दुष्टानां तेषाम् अप्य् अधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ ५ ॥

उत्पन्नश् चापि मृत्युर् मे भूतभव्यभवत्प्रभुः ।
इत्य् एतद् बालिका प्राह देवकीगर्भसम्भवा ॥ ६ ॥

तस्माद् बालेषु परमो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ ७ ॥

व्यास उवाच-

इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः ।
उवाच वसुदेवं च देवकीम् अविरोधतः ॥ ८ ॥

कंस उवाच-

युवयोर् घातिता गर्भा वृथैवैते मयाधुना ।
को ऽप्य् अन्य एव नाशाय बालो मम समुद्गतः ॥ ९ ॥

तद् अलं परितापेन नूनं यद् भाविनो हि ते ।
अर्भका युवयोः को वा आयुषो ऽन्ते न हन्यते ॥ १० ॥

व्यास उवाच-

इत्य् आश्वास्य विमुच्यैव कंसस् तौ परितोष्य च ।
अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ ११ ॥