Summary (SA)
Chapter 182- Birth of Kṛṣṇa
{{Ref- SS 293-294}}
व्यास उवाच-
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १ ॥
सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ २ ॥
योगनिद्रा यशोदायास् तस्मिन्न् एव ततो दिने ।
सम्भूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥ ३ ॥
ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः ।
विष्णोर् अंशे महीं यात ऋतवो ऽप्य् अभवञ् शुभाः ॥ ४ ॥
नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभम् आययुः ॥ ५ ॥
अदृष्टां पुरुषैः स्त्रीभिर् देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम् ॥ ६ ॥
देवा ऊचुः-
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिर् एव च ।
त्वं सर्वलोकरक्षार्थम् अवतीर्णा महीतले ॥ ७ ॥
प्रसीद देवि सर्वस्य जगतस् त्वं शुभं कुरु ।
प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ ८ ॥
व्यास उवाच-
एवं संस्तूयमाना सा देवैर् देवम् अधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ ९ ॥
ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना ।
देवक्याः पूर्वसन्ध्यायाम् आविर्भूतं महात्मना ॥ १० ॥
मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने ।
मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचः सुराः ॥ ११ ॥
फुल्लेन्दीवरपत्त्राभं चतुर्बाहुम् उदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ १२ ॥
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः ।
विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तमाः ॥ १३ ॥
वसुदेव उवाच-
ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधर ।
दिव्यं रूपम् इदं देव प्रसादेनोपसंहर ॥ १४ ॥
अद्यैव देव कंसो ऽयं कुरुते मम यातनाम् ।
अवतीर्णम् इति ज्ञात्वा त्वाम् अस्मिन् मन्दिरे मम ॥ १५ ॥
देवक्य् उवाच-
यो ऽनन्तरूपो ऽखिलविश्वरूपो ।
गर्भे ऽपि लोकान् वपुषा बिभर्ति ।
प्रसीदताम् एष स देवदेवः ।
स्वमाययाविष्कृतबालरूपः ॥ १६ ॥
उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम् ।
जानातु मावतारं ते कंसो ऽयं दितिजान्तक ॥ १७ ॥
श्रीभगवान् उवाच-
स्तुतो ऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते ।
सफलं देवि सञ्जातं जातो ऽहं यत् तवोदरात् ॥ १८ ॥
व्यास उवाच-
इत्य् उक्त्वा भगवांस् तूष्णीं बभूव मुनिसत्तमाः ।
वसुदेवो ऽपि तं रात्राव् आदाय प्रययौ बहिः ॥ १९ ॥
मोहिताश् चाभवंस् तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश् च व्रजत्य् आनकदुन्दुभौ ॥ २० ॥
वर्षतां जलदानां च तत् तोयम् उल्बणं निशि ।
सञ्छाद्य तं ययौ शेषः फणैर् आनकदुन्दुभिम् ॥ २१ ॥
यमुनां चातिगम्भीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥ २२ ॥
कंसस्य करम् आदाय तत्रैवाभ्यागतांस् तटे ।
नन्दादीन् गोपवृद्धांश् च यमुनायां ददर्श सः ॥ २३ ॥
तस्मिन् काले यशोदापि मोहिता योगनिद्रया ।
ताम् एव कन्यां मुनयः प्रासूत मोहिते जने ॥ २४ ॥
वसुदेवो ऽपि विन्यस्य बालम् आदाय दारिकाम् ।
यशोदाशयने तूर्णम् आजगामामितद्युतिः ॥ २५ ॥
ददर्श च विबुद्ध्वा सा यशोदा जातम् आत्मजम् ।
नीलोत्पलदलश्यामं ततो ऽत्यर्थं मुदं ययौ ॥ २६ ॥
आदाय वसुदेवो ऽपि दारिकां निजमन्दिरम् ।
देवकीशयने न्यस्य यथापूर्वम् अतिष्ठत ॥ २७ ॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसम् आवेदयाम् आसुर् देवकीप्रसवं द्विजाः ॥ २८ ॥
कंसस् तूर्णम् उपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्च मुञ्चेति देवक्या आसन्नकण्ठं निवारितः ॥ २९ ॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् ।
अवाप रूपं च महत् सायुधाष्टमहाभुजम् ।
प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ ३० ॥
योगमायोवाच-
किं मयाक्षिप्तया कंस जातो यस् त्वां हनिष्यति ।
सर्वस्वभूतो देवानाम् आसीन् मृत्युः पुरा स ते ।
तद् एतत् सम्प्रधार्याशु क्रियतां हितम् आत्मनः ॥ ३१ ॥
व्यास उवाच-
इत्य् उक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा ॥ ३२ ॥