Summary (SA)
Chapter 181- Heavenly prelude to the incarnation of Viṣṇu as Kṛṣṇa
{{Ref- SS 292-293}}
व्यास उवाच-
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
अवतारं हरेश् चात्र भारावतरणेच्छया ॥ १ ॥
यदा यदा त्व् अधर्मस्य वृद्धिर् भवति भो द्विजाः ।
धर्मश् च ह्रासम् अभ्येति तदा देवो जनार्दनः ॥ २ ॥
अवतारं करोत्य् अत्र द्विधा कृत्वात्मनस् तनुम् ।
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ ३ ॥
दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् ।
प्रजानां रक्षणार्थाय जायते ऽसौ युगे युगे ॥ ४ ॥
पुरा किल मही विप्रा भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ ५ ॥
सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी ।
कथयाम् आस तत् सर्वं खेदात् करुणभाषिणी ॥ ६ ॥
धरण्य् उवाच-
अग्निः सुवर्णस्य गुरुर् गवां सूर्यो ऽपरो गुरुः ।
ममाप्य् अखिललोकानां वन्द्यो नारायणो गुरुः ॥ ७ ॥
तत्साम्प्रतम् इमे दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समागम्य बाधन्ते ऽहर्निशं प्रजाः ॥ ८ ॥
कालनेमिर् हतो यो ऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ ९ ॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा ।
सुन्दो ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः ॥ १० ॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस् तान् न सङ्ख्यातुम् उत्सहे ॥ ११ ॥
अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः ।
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ १२ ॥
तद्भूरिभारपीडार्ता न शक्नोम्य् अमरेश्वराः ।
विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः ॥ १३ ॥
क्रियतां तन् महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयम् अतिविह्वला ॥ १४ ॥
व्यास उवाच-
इत्य् आकर्ण्य धरावाक्यम् अशेषैस् त्रिदशैस् ततः ।
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ १५ ॥
ब्रह्मोवाच-
यद् आह वसुधा सर्वं सत्यम् एतद् दिवौकसः ।
अहं भवो भवन्तश् च सर्वं नारायणात्मकम् ॥ १६ ॥
विभूतयस् तु यास् तस्य तासाम् एव परस्परम् ।
आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते ॥ १७ ॥
तद् आगच्छत गच्छामः क्षीराब्धेस् तटम् उत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ १८ ॥
सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ १९ ॥
व्यास उवाच-
इत्य् उक्त्वा प्रययौ तत्र सह देवैः पितामहः ।
समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ २० ॥
ब्रह्मोवाच-
नमो नमस् ते ऽस्तु सहस्रमूर्ते ।
सहस्रबाहो बहुवक्त्रपाद ।
विनाशसंस्थानपराप्रमेय ॥ २१ ॥
सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं ।
गरीयसाम् अप्य् अतिगौरवात्मन् ।
मूलापरात्मन् भगवन् प्रसीद ॥ २२ ॥
एषा मही देव महीप्रसूतैर् ।
महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगताम् उपैति ।
भारावतारार्थम् अपारपारम् ॥ २३ ॥
एते वयं वृत्ररिपुस् तथायं ।
नासत्यदस्रौ वरुणस् तथैषः ।
इमे च रुद्रा वसवः ससूर्याः ।
समीरणाग्निप्रमुखास् तथान्ये ॥ २४ ॥
सुराः समस्ताः सुरनाथ कार्यम् ।
एभिर् मया यच् च तद् ईश सर्वम् ।
आज्ञापयाज्ञां प्रतिपालयन्तस् ।
तवैव तिष्ठाम सदास्तदोषाः ॥ २५ ॥
व्यास उवाच-
एवं संस्तूयमानस् तु भगवान् परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ २६ ॥
उवाच च सुरान् एतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ २७ ॥
सुराश् च सकलाः स्वांशैर् अवतीर्य महीतले ।
कुर्वन्तु युद्धम् उन्मत्तैः पूर्वोत्पन्नैर् महासुरैः ॥ २८ ॥
ततः क्षयम् अशेषास् ते दैतेया धरणीतले ।
प्रयास्यन्ति न सन्देहो नानायुधविचूर्णिताः ॥ २९ ॥
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तस्या गर्भो ऽष्टमो ऽयं तु मत्केशो भविता सुराः ॥ ३० ॥
अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमिसमुद्भूतम् इत्य् उक्त्वान्तर्दधे हरिः ॥ ३१ ॥
अदृश्याय ततस् ते ऽपि प्रणिपत्य महात्मने ।
मेरुपृष्ठं सुरा जग्मुर् अवतेरुश् च भूतले ॥ ३२ ॥
कंसाय चाष्टमो गर्भो देवक्या धरणीतले ।
भविष्यतीत्य् आचचक्षे भगवान् नारदो मुनिः ॥ ३३ ॥
कंसो ऽपि तद् उपश्रुत्य नारदात् कुपितस् ततः ।
देवकीं वसुदेवं च गृहे गुप्ताव् अधारयत् ॥ ३४ ॥
जातं जातं च कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विजाः ॥ ३५ ॥
हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत् ॥ ३६ ॥
योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत् सर्वं ताम् आह भगवान् हरिः ॥ ३७ ॥
विष्णुर् उवाच-
गच्छ निद्रे ममादेशात् पातालतलसंश्रयान् ।
एकैकश्येन षड्गर्भान् देवकीजठरे नय ॥ ३८ ॥
हतेषु तेषु कंसेन शेषाख्यो ऽंशस् ततो ऽनघः ।
अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति ॥ ३९ ॥
गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता ।
तस्याः प्रसूतिसमये गर्भो नेयस् त्वयोदरम् ॥ ४० ॥
सप्तमो भोजराजस्य भयाद् रोधोपरोधतः ।
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ ४१ ॥
गर्भसङ्कर्षणात् सो ऽथ लोके सङ्कर्षणेति वै ।
सञ्ज्ञाम् अवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ४२ ॥
ततो ऽहं सम्भविष्यामि देवकीजठरे शुभे ।
गर्भे त्वया यशोदाया गन्तव्यम् अविलम्बितम् ॥ ४३ ॥
प्रावृट्काले च नभसि कृष्णाष्टम्याम् अहं निशि ।
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वम् अवाप्स्यसि ॥ ४४ ॥
यशोदाशयने मां तु देवक्यास् त्वाम् अनिन्दिते ।
मच्छक्तिप्रेरितमतिर् वसुदेवो नयिष्यति ॥ ४५ ॥
कंसश् च त्वाम् उपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्य् अन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥ ४६ ॥
ततस् त्वां शतधा शक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ४७ ॥
ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः ।
स्थानैर् अनेकैः पृथिवीम् अशेषां मण्डयिष्यसि ॥ ४८ ॥
त्वं भूतिः सन्नतिः कीर्तिः कान्तिर् वै पृथिवी धृतिः ।
लज्जा पुष्टिर् उषा या च काचिद् अन्या त्वम् एव सा ॥ ४९ ॥
ये त्वाम् आर्येति दुर्गेति वेदगर्भे ऽम्बिकेति च ।
भद्रेति भद्रकालीति क्षेम्या क्षेमङ्करीति च ॥ ५० ॥
प्रातश् चैवापराह्णे च स्तोष्यन्त्य् आनम्रमूर्तयः ।
तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति ॥ ५१ ॥
सुरामांसोपहारैस् तु भक्ष्यभोज्यैश् च पूजिता ।
नृणाम् अशेषकामांस् त्वं प्रसन्नायां प्रदास्यसि ॥ ५२ ॥
ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम् ।
असन्दिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥ ५३ ॥