180

Summary (SA)

Chapter 180- Manifestations and incarnations of Viṣṇu

{{Ref- SS 290-291}}

व्यास उवाच-

नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १ ॥

चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च ।
वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ २ ॥

यज्ञाङ्गायाखिलाङ्गाय देवाद्यैर् ईप्सिताय च ।
यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम् ॥ ३ ॥

येन विश्वम् इदं व्याप्तम् अजेन सचराचरम् ।
आविर्भावतिरोभावदृष्टादृष्टविलक्षणम् ॥ ४ ॥

वदन्ति यत् सृष्टम् इति तथैवाप्य् उपसंहृतम् ।
ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ ५ ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ ६ ॥

नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ ७ ॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ ८ ॥

सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस् तस्मै विष्णवे परमात्मने ॥ ९ ॥

आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् ।
प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम् ॥ १० ॥

ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः ।
तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ ११ ॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् ।
अनादिं जगताम् ईशम् अजम् अक्षयम् अव्ययम् ॥ १२ ॥

कथयामि यथा पूर्वं यक्षाद्यैर् मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १३ ॥

ऋक्सामान्य् उद्गिरन् वक्त्रैर् यः पुनाति जगत्त्रयम् ।
प्रणिपत्य तथेशानम् एकार्णवविनिर्गतम् ॥ १४ ॥

यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् ।
प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणो ऽव्यक्तजन्मनः ॥ १५ ॥

येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः ।
आपो नारा इति प्रोक्ता मुनिभिस् तत्त्वदर्शिभिः ॥ १६ ॥

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ॥ १७ ॥

चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस् तथा ।
एका मूर्तिर् अनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ १८ ॥

ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा ।
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ १९ ॥

वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ।
रूपवर्णादयस् तस्या न भावाः कल्पनामयाः ॥ २० ॥

आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ।
द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्य् अधः ॥ २१ ॥

तामसी सा समाख्याता तिर्यक्त्वं समुपागता ।
तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ २२ ॥

सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ।
चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ २३ ॥

रजस् तस्या गुणः सर्गं सा करोति सदैव हि ।
या तृतीया हरेर् मूर्तिः प्रजापालनतत्परा ॥ २४ ॥

सा तु धर्मव्यवस्थानं करोति नियतं भुवि ।
प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः ॥ २५ ॥

पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् ।
यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ २६ ॥

अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ ।
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ २७ ॥

एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा ।
कृत्वा नृसिंहरूपं च हिरण्यकशिपुर् हतः ॥ २८ ॥

विप्रचित्तिमुखाश् चान्ये दानवा विनिपातिताः ।
वामनं रूपम् आस्थाय बलिं संयम्य मायया ॥ २९ ॥

त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् ।
भृगोर् वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ ३० ॥

जघान क्षत्रियान् रामः पितुर् वधम् अनुस्मरन् ।
तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥ ३१ ॥

योगम् अष्टाङ्गम् आचख्याव् अलर्काय महात्मने ।
रामो दाशरथिर् भूत्वा स तु देवः प्रतापवान् ॥ ३२ ॥

जघान रावणं सङ्ख्ये त्रैलोक्यस्य भयङ्करम् ।
यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥ ३३ ॥

सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः ।
योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥ ३४ ॥

त्रैलोक्यम् उदरे कृत्वा जगत् स्थावरजङ्गमम् ।
जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥ ३५ ॥

तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् ।
मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम् ॥ ३६ ॥

यत्र ब्रह्मा समुत्पन्नो देवदेवश् चतुर्मुखः ।
तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ ॥ ३७ ॥

महाबलौ महावीर्यौ ब्रह्माणं हन्तुम् उद्यतौ ।
जघान तौ दुराधर्षौ उत्थाय शयनोदधेः ॥ ३८ ॥

एवमादींस् तथैवान्यान् असङ्ख्यातुम् इहोत्सहे ।
अवतारो ह्य् अजस्येह माथुरः साम्प्रतस् त्व् अयम् ॥ ३९ ॥

इति सा सात्त्विकी मूर्तिर् अवतारं करोति च ।
प्रद्युम्नेति समाख्याता रक्षाकर्मण्य् अवस्थिता ॥ ४० ॥

देवत्वे ऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।
गृह्णाति तत्स्वभावश् च वासुदेवेच्छया सदा ॥ ४१ ॥

ददात्य् अभिमतान् कामान् पूजिता सा द्विजोत्तमाः ।
एवं मया समाख्यातः कृतकृत्यो ऽपि यः प्रभुः ।
मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः ॥ ४२ ॥