179

Summary (SA)

Chapter 179- Introduction to Kṛṣṇacarita

{{Ref- SS 288-290}}

लोमहर्षण उवाच-

व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः ।
प्रीता बभूवुः संहृष्टा विस्मिताश् च पुनः पुनः ॥ १ ॥

मुनय ऊचुः-

अहो भारतवर्षस्य त्वया सङ्कीर्तिता गुणाः ।
तद्वच् छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ २ ॥

विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यम् उत्तमम् ।
पुरुषाख्यस्य क्षेत्रस्य प्रीतिश् च वदतां वर ॥ ३ ॥

चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते ।
त्वदृते संशयस्यास्य च्छेत्ता नान्यो ऽस्ति भूतले ॥ ४ ॥

उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले ।
भद्रायाश् चैव कार्त्स्न्येन पृच्छामस् त्वां महामुने ॥ ५ ॥

किमर्थं तौ समुत्पन्नौ कृष्णसङ्कर्षणाव् उभौ ।
वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ ६ ॥

निःसारे मृत्युलोके ऽस्मिन् दुःखप्राये ऽतिचञ्चले ।
जलबुद्बुदसङ्काशे भैरवे लोमहर्षणे ॥ ७ ॥

विण्मूत्रपिच्छलं कष्टं सङ्कटं दुःखदायकम् ।
कथं घोरतरं तेषां गर्भवासम् अरोचत ॥ ८ ॥

यानि कर्माणि चक्रुस् ते समुत्पन्ना महीतले ।
विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ ९ ॥

समग्रं चरितं तेषाम् अद्भुतं चातिमानुषम् ।
कथं स भगवान् देवः सुरेशः सुरसत्तमः ॥ १० ॥

वसुदेवकुले धीमान् वासुदेवत्वम् आगतः ।
अमरैश् चावृतं पुण्यं पुण्यकृद्भिर् अलङ्कृतम् ॥ ११ ॥

देवलोकं किम् उत्सृज्य मर्त्यलोक इहागतः ।
देवमानुषयोर् नेता द्योर् भुवः प्रभवो ऽव्ययः ॥ १२ ॥

किमर्थं दिव्यम् आत्मानं मानुषेषु न्ययोजयत् ।
यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम् ॥ १३ ॥

स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः ।
गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ १४ ॥

स कथं गां गतो विष्णुर् गोपत्वम् अकरोत् प्रभुः ।
महाभूतानि भूतात्मा यो दधार चकार च ॥ १५ ॥

श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।
येन लोकान् क्रमैर् जित्वा त्रिभिर् वै त्रिदशेप्सया ॥ १६ ॥

स्थापिता जगतो मार्गास् त्रिवर्गाश् चाभवंस् त्रयः ।
यो ऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः ॥ १७ ॥

लोकम् एकार्णवं चक्रे दृश्यादृश्येन चात्मना ।
यः पुराणः पुराणात्मा वाराहं रूपम् आस्थितः ॥ १८ ॥

विषाणाग्रेण वसुधाम् उज्जहारारिसूदनः ।
यः पुरा पुरुहूतार्थे त्रैलोक्यम् इदम् अव्ययम् ॥ १९ ॥

ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ।
येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः ॥ २० ॥

पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर् हतः ।
यः पुरा ह्य् अनलो भूत्वा और्वः संवर्तको विभुः ॥ २१ ॥

पातालस्थो ऽर्णवरसं पपौ तोयमयं हरिः ।
सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ २२ ॥

सहस्रशिरसं देवं यम् आहुर् वै युगे युगे ।
नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ २३ ॥

एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् ।
येन ते निहता दैत्याः सङ्ग्रामे तारकामये ॥ २४ ॥

येन देवमयं कृत्वा सर्वायुधधरं वपुः ।
गुहासंस्थेन चोत्सिक्तः कालनेमिर् निपातितः ॥ २५ ॥

उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ ।
यः शेते शाश्वतं योगम् आस्थाय तिमिरं महत् ॥ २६ ॥

सुरारणी गर्भम् अधत्त दिव्यं ।
तपःप्रकर्षाद् अदितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं ।
गर्भावधानेन कृतं चकार ॥ २७ ॥

पदानि यो योगमयानि कृत्वा ।
चकार दैत्यान् सलिलेशयस्थान् ।
कृत्वा च देवांस् त्रिदशेश्वरांस् तु ।
चक्रे सुरेशं पुरुहूतम् एव ॥ २८ ॥

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ।
अग्निम् आहवनीयं च वेदं दीक्षां समिद् ध्रुवम् ॥ २९ ॥

प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च ।
अवाक्पाणिस् तु यश् चक्रे हव्यभागभुजस् तथा ॥ ३० ॥

हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अथ ।
भोगार्थे यज्ञविधिना ऽयोजयद् यज्ञकर्मणि ॥ ३१ ॥

पात्राणि दक्षिणां दीक्षां चरूंश् चोलूखलानि च ।
यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि ॥ ३२ ॥

यज्ञियानि च द्रव्याणि चमसांश् च तथापरान् ।
सदस्यान् यजमानांश् च मेधादींश् च क्रतूत्तमान् ॥ ३३ ॥

विबभाज पुरा यस् तु पारमेष्ठ्येन कर्मणा ।
युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात् ॥ ३४ ॥

क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च ।
मुहूर्तास् तिथयो मासा दिनं संवत्सरस् तथा ॥ ३५ ॥

ऋतवः कालयोगाश् च प्रमाणं त्रिविधं त्रिषु ।
आयुःक्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम् ॥ ३६ ॥

त्रयो लोकास् त्रयो देवास् त्रैविद्यं पावकास् त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास् त्रयो गुणाः ॥ ३७ ॥

सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा ।
सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥ ३८ ॥

नृणाम् इन्द्रियपूर्वेण योगेन रमते च यः ।
गतागताभ्यां योगेन य एव विधिर् ईश्वरः ॥ ३९ ॥

यो गतिर् धर्मयुक्तानाम् अगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश् चातुर्वर्ण्यस्य रक्षिता ॥ ४० ॥

चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः ।
दिगन्तरं नभो भूमिर् वायुर् वापि विभावसुः ॥ ४१ ॥

चन्द्रसूर्यमयं ज्योतिर् युगेशः क्षणदाचरः ।
यः परं श्रूयते ज्योतिर् यः परं श्रूयते तपः ॥ ४२ ॥

यं परं प्राहुर् अपरं यः परः परमात्मवान् ।
आदित्यानां तु यो देवो यश् च दैत्यान्तको विभुः ॥ ४३ ॥

युगान्तेष्व् अन्तको यश् च यश् च लोकान्तकान्तकः ।
सेतुर् यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४४ ॥

वेद्यो यो वेदविदुषां प्रभुर् यः प्रभवात्मनाम् ।
सोमभूतश् च सौम्यानाम् अग्निभूतो ऽग्निवर्चसाम् ॥ ४५ ॥

यः शक्राणाम् ईशभूतस् तपोभूतस् तपस्विनाम् ।
विनयो नयवृत्तीनां तेजस् तेजस्विनाम् अपि ॥ ४६ ॥

विग्रहो विग्रहार्हाणां गतिर् गतिमताम् अपि ।
आकाशप्रभवो वायुर् वायोः प्राणाद् धुताशनः ॥ ४७ ॥

दिवो हुताशनः प्राणः प्राणो ऽग्निर् मधुसूदनः ।
रसाच् छोणितसम्भूतिः शोणितान् मांसम् उच्यते ॥ ४८ ॥

मांसात् तु मेदसो जन्म मेदसो ऽस्थि निरुच्यते ।
अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसम्भवः ॥ ४९ ॥

शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा ।
तत्रापां प्रथमो भागः स सौम्यो राशिर् उच्यते ॥ ५० ॥

गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिर् उच्यते ।
शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम् ॥ ५१ ॥

भावा रसानुगाश् चैषां बीजे च शशिपावकौ ।
कफवर्गे भवेच् छुक्रं पित्तवर्गे च शोणितम् ॥ ५२ ॥

कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।
देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम् ॥ ५३ ॥

नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः ।
मनः प्रजापतिर् ज्ञेयः कफः सोमो विभाव्यते ॥ ५४ ॥

पित्तम् अग्निः स्मृतं त्व् एवम् अग्निसोमात्मकं जगत् ।
एवं प्रवर्तिते गर्भे वर्धिते ऽर्बुदसन्निभे ॥ ५५ ॥

वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मनः ।
स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥ ५६ ॥

प्राणापानौ समानश् च उदानो व्यान एव च ।
प्राणो ऽस्य परमात्मानं वर्धयन् परिवर्तते ॥ ५७ ॥

अपानः पश्चिमं कायम् उदानो ऽर्धं शरीरिणः ।
व्यानस् तु व्याप्यते येन समानः सन्निवर्तते ॥ ५८ ॥

भूतावाप्तिस् ततस् तस्य जायेतेन्द्रियगोचरा ।
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् ॥ ५९ ॥

तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे ।
पार्थिवं देहम् आहुस् तु प्राणात्मानं च मारुतम् ॥ ६० ॥

छिद्राण्य् आकाशयोनीनि जलात् स्रावः प्रवर्तते ।
ज्योतिश् चक्षूंषि तेजश् च आत्मा तेषां मनः स्मृतम् ॥ ६१ ॥

ग्रामाश् च विषयाश् चैव यस्य वीर्यात् प्रवर्तिताः ।
इत्य् एतान् पुरुषः सर्वान् सृजंल् लोकान् सनातनः ॥ ६२ ॥

नैधने ऽस्मिन् कथं लोके नरत्वं विष्णुर् आगतः ।
एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान् ॥ ६३ ॥

कथं गतिर् गतिमताम् आपन्नो मानुषीं तनुम् ।
आश्चर्यं परमं विष्णुर् देवैर् दैत्यैश् च कथ्यते ॥ ६४ ॥

विष्णोर् उत्पत्तिम् आश्चर्यं कथयस्व महामुने ।
प्रख्यातबलवीर्यस्य विष्णोर् अमिततेजसः ॥ ६५ ॥

कर्मणाश्चर्यभूतस्य विष्णोस् तत्त्वम् इहोच्यताम् ।
कथं स देवो देवानाम् आर्तिहा पुरुषोत्तमः ॥ ६६ ॥

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।
सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः ॥ ६७ ॥

अक्षयः शाश्वतो ऽनन्तः क्षयवृद्धिविवर्जितः ।
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ ६८ ॥

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ।
अविकारी विभुर् नित्यः परमात्मा सनातनः ॥ ६९ ॥

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।
विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥ ७० ॥

वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ।
ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥ ७१ ॥

समतीतां भविष्यं च श्रोतुम् इच्छा प्रवर्तते ।
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ॥ ७२ ॥

नारायणो ह्य् अनन्तात्मा प्रभवो ऽव्यय एव च ।
एष नारायणो भूत्वा हरिर् आसीत् सनातनः ॥ ७३ ॥

ब्रह्मा शक्रश् च रुद्रश् च धर्मः शुक्रो बृहस्पतिः ।
प्रधानात्मा पुरा ह्य् एष ब्रह्माणम् असृजत् प्रभुः ॥ ७४ ॥

सो ऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ।
एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः ।
किमर्थं मर्त्यलोके ऽस्मिन् यातो यदुकुले हरिः ॥ ७५ ॥