178

Summary (SA)

Chapter 178- Kaṇḍu-episode

{{Ref- SS 285-288}}

व्यास उवाच-

तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे ।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १ ॥

कण्डुर् नाम महातेजा ऋषिः परमधार्मिकः ।
सत्यवादी शुचिर् दान्तः सर्वभूतहिते रतः ॥ २ ॥

जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः ।
अवाप परमां सिद्धिम् आराध्य पुरुषोत्तमम् ॥ ३ ॥

अन्ये ऽपि तत्र संसिद्धा मुनयः संशितव्रताः ।
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ ४ ॥

मुनय ऊचुः-

को ऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् ।
श्रोतुम् इच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ ५ ॥

व्यास उवाच-

शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् ।
प्रवक्ष्यामि समासेन मुनेस् तस्य विचेष्टितम् ॥ ६ ॥

पवित्रे गोमतीतीरे विजने सुमनोहरे ।
कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ ७ ॥

नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।
नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ ८ ॥

तत्राश्रमपदं कण्डोर् बभूव मुनिसत्तमाः ।
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ ९ ॥

तपस् तेपे मुनिस् तत्र सुमहत् परमाद्भुतम् ।
व्रतोपवासैर् नियमैः स्नानमौनसुसंयमैः ॥ १० ॥

ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास् तु हेमन्ते स तेपे सुमहत् तपः ॥ ११ ॥

दृष्ट्वा तु तपसो वीर्यं मुनेस् तस्य सुविस्मिताः ।
बभूवुर् देवगन्धर्वाः सिद्धविद्याधरास् तथा ॥ १२ ॥

भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः ।
कण्डुः सन्तापयाम् आस त्रैलोक्यं तपसो बलात् ॥ १३ ॥

अहो ऽस्य परमं धैर्यम् अहो ऽस्य परमं तपः ।
इत्य् अब्रुवंस् तदा दृष्ट्वा देवास् तं तपसि स्थितम् ॥ १४ ॥

मन्त्रयाम् आसुर् अव्यग्राः शक्रेण सहितास् तदा ।
भयात् तस्य समुद्विग्नास् तपोविघ्नम् अभीप्सवः ॥ १५ ॥

ज्ञात्वा तेषाम् अभिप्रायं शक्रस् त्रिभुवनेश्वरः ।
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ १६ ॥

सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् ।
सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ १७ ॥

शक्र उवाच-

प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः ।
विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ १८ ॥

प्रम्लोचोवाच-

तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो ।
किन्तु शङ्का ममैवात्र जीवितस्य च संशयः ॥ १९ ॥

बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् ।
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ २० ॥

ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् ।
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ २१ ॥

उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला ।
विश्वाची सहजन्या च पूर्वचित्तिस् तिलोत्तमा ॥ २२ ॥

अलम्बुषा मिश्रकेशी शशिलेखा च वामना ।
अन्याश् चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ २३ ॥

सुमध्याश् चारुवदनाः पीनोन्नतपयोधराः ।
कामप्रधानकुशलास् तास् तत्र सन्नियोजय ॥ २४ ॥

ब्रह्मोवाच-

तस्यास् तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः ।
तिष्ठन्तु नाम चान्यास् तास् त्वं चात्र कुशला शुभे ॥ २५ ॥

कामं वसन्तं वायुं च सहायार्थे ददामि ते ।
तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ २६ ॥

शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना ।
जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ २७ ॥

गत्वा सा तत्र रुचिरं ददर्श वनम् उत्तमम् ।
मुनिं च दीप्ततपसम् आश्रमस्थम् अकल्मषम् ॥ २८ ॥

अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् ।
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ २९ ॥

पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् ।
श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् ॥ ३० ॥

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ।
अपश्यत् पादपांश् चैव विहङ्गैर् अनुनादितान् ॥ ३१ ॥

आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् ।
अथ बिल्वांस् तथा जीवान् दाडिमान् बीजपूरकान् ॥ ३२ ॥

पनसांल् लकुचान् नीपाञ् शिरीषान् सुमनोहरान् ।
पारावतांस् तथा कोलान् अरिमेदाम्लवेतसान् ॥ ३३ ॥

भल्लातकान् आमलकाञ् शतपर्णांश् च किंशुकान् ।
इङ्गुदान् करवीरांश् च हरीतकीविभीतकान् ॥ ३४ ॥

एतान् अन्यांश् च सा वृक्षान् ददर्श पृथुलोचना ।
तथैवाशोकपुन्नागकेतकीबकुलान् अथ ॥ ३५ ॥

पारिजातान् कोविदारान् मन्दारेन्दीवरांस् तथा ।
पाटलाः पुष्पिता रम्या देवदारुद्रुमांस् तथा ॥ ३६ ॥

शालांस् तालांस् तमालांश् च निचुलांल् लोमकांस् तथा ।
अन्यांश् च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान् ॥ ३७ ॥

चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः ।
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥ ३८ ॥

प्रियपुत्रैश् चातकैश् च तथान्यैर् विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितम् ॥ ३९ ॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः ॥ ४० ॥

कह्लारैः कमलैश् चैव आचितानि समन्ततः ।
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥ ४१ ॥

कारण्डवैर् बकैर् हंसैः कूर्मैर् मद्गुभिर् एव च ।
एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥ ४२ ॥

क्रमेणैव तथा सा तु वनं बभ्राम तैः सह ।
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥ ४३ ॥

विस्मयोत्फुल्लनयना सा बभूव वराङ्गना ।
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥ ४४ ॥

प्रम्लोचोवाच-

कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक् ॥ ४५ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तदा सा तु तथेत्य् उक्ता सुरैर् द्विजाः ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ ४६ ॥

अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ ४७ ॥

ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
तथाप्य् अद्य करिष्यामि कामबाणक्षतान्तरम् ॥ ४८ ॥

इत्य् उक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः ।
मुनेस् तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥ ४९ ॥

सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता ।
स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः ॥ ५० ॥

ततो वसन्तः सहसा बलं समकरोत् तदा ।
कोकिलारावमधुरम् अकालिकमनोहरम् ॥ ५१ ॥

ववौ गन्धवहश् चैव मलयाद्रिनिकेतनः ।
पुष्पान् उच्चावचान् मेध्यान् पातयंश् च शनैः शनैः ॥ ५२ ॥

पुष्पबाणधरश् चैव गत्वा तस्य समीपतः ।
मुनेश् च क्षोभयाम् आस कामस् तस्यापि मानसम् ॥ ५३ ॥

ततो गीतध्वनिं श्रुत्वा मुनिर् विस्मितमानसः ।
जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥ ५४ ॥

दृष्ट्वा ताम् आह सन्दृष्टो विस्मयोत्फुल्ललोचनः ।
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥ ५५ ॥

ऋषिर् उवाच-

कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि ।
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥ ५६ ॥

प्रम्लोचोवाच-

तव कर्मकरा चाहं पुष्पार्थम् अहम् आगता ।
आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥ ५७ ॥

व्यास उवाच-

श्रुत्वैवं वचनं तस्यास् त्यक्त्वा धैर्यं विमोहितः ।
आदाय हस्ते तां बालां प्रविवेश स्वम् आश्रमम् ॥ ५८ ॥

ततः कामश् च वायुश् च वसन्तश् च द्विजोत्तमाः ।
जग्मुर् यथागतं सर्वे कृतकृत्यास् त्रिविष्टपम् ॥ ५९ ॥

शशंसुश् च हरिं गत्वा तस्यास् तस्य च चेष्टितम् ।
श्रुत्वा शक्रस् तदा देवाः प्रीताः सुमनसो ऽभवन् ॥ ६० ॥

स च कण्डुस् तया सार्धं प्रविशन्न् एव चाश्रमम् ।
आत्मनः परमं रूपं चकार मदनाकृति ॥ ६१ ॥

रूपयौवनसम्पन्नम् अतीव सुमनोहरम् ।
दिव्यालङ्कारसंयुक्तं षोडशवत्सराकृति ॥ ६२ ॥

दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् ।
सर्वोपभोगसम्पन्नं सहसा तपसो बलात् ॥ ६३ ॥

दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयम् आगता ।
अहो ऽस्य तपसो वीर्यम् इत्य् उक्त्वा मुदिताभवत् ॥ ६४ ॥

स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् ।
व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥ ६५ ॥

त्यक्त्वा स रेमे मुदितस् तया सार्धम् अहर्निशम् ।
मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥ ६६ ॥

सन्ध्यारात्रिदिवापक्षमासर्त्वयनहायनम् ।
न बुबोध गतं कालं विषयासक्तमानसः ॥ ६७ ॥

सा च तं कामजैर् भावैर् विदग्धा रहसि द्विजाः ।
वरयाम् आस सुश्रोणिः प्रलापकुशला तदा ॥ ६८ ॥

एवं कण्डुस् तया सार्धं वर्षाणाम् अधिकं शतम् ।
अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥ ६९ ॥

सा तं प्राह महाभागं गन्तुम् इच्छाम्य् अहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वम् अर्हसि ॥ ७० ॥

तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः ।
दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत ॥ ७१ ॥

एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना ॥ ७२ ॥

अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस् तयेति स पुनः स्थीयताम् इत्य् अभाषत ॥ ७३ ॥

पुनर् गते वर्षशते साधिके सा शुभानना ।
याम्य् अहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥ ७४ ॥

उक्तस् तयैवं स मुनिः पुनर् आहायतेक्षणाम् ।
इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥ ७५ ॥

तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिद् ऊनं वर्षाणां समतिष्ठत ॥ ७६ ॥

गमनाय महाभागो देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत ॥ ७७ ॥

तस्य शापभयाद् भीरुर् दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम् ॥ ७८ ॥

तया च रमतस् तस्य परमर्षेर् अहर्निशम् ।
नवं नवम् अभूत् प्रेम मन्मथासक्तचेतसः ॥ ७९ ॥

एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ ८० ॥

इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत् ॥ ८१ ॥

ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् ।
किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव ।
गतम् एतन् न कुरुते विस्मयं कस्य कथ्यते ॥ ८२ ॥

मुनिर् उवाच-

प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम् ।
मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥ ८३ ॥

इयं च वर्तते सन्ध्या परिणामम् अहो गतम् ।
अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम ॥ ८४ ॥

प्रम्लोचोवाच-

प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न मे मृषा ।
किन्त्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते ॥ ८५ ॥

ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस् त्वया मे रमतः सदा ॥ ८६ ॥

प्रम्लोचोवाच-

सप्तोत्तराण्य् अतीतानि नववर्षशतानि च ।
मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥ ८७ ॥

ऋषिर् उवाच-

सत्यं भीरु वदस्य् एतत् परिहासो ऽथवा शुभे ।
दिनम् एकम् अहं मन्ये त्वया सार्धम् इहोषितम् ॥ ८८ ॥

प्रम्लोचोवाच-

वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके ।
विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना ॥ ८९ ॥

व्यास उवाच-

निशम्य तद् वचस् तस्याः स मुनिर् द्विजसत्तमाः ।
धिग् धिङ् माम् इत्य् अनाचारं विनिन्द्यात्मानम् आत्मना ॥ ९० ॥

मुनिर् उवाच-

तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
हृतो विवेकः केनापि योषिन् मोहाय निर्मिता ॥ ९१ ॥

ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे ।
गतिर् एषा कृता येन धिक् तं काममहाग्रहम् ॥ ९२ ॥

व्रतानि सर्ववेदाश् च कारणान्य् अखिलानि च ।
नरकग्राममार्गेण कामेनाद्य हतानि मे ॥ ९३ ॥

विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना ।
ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत् ।

ऋषिर् उवाच-

गच्छ पापे यथाकामं यत् कार्यं तत् त्वया कृतम् ।
देवराजस्य यत् क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ ९४ ॥

न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना ।
सतां साप्तपदं मैत्र्यम् उषितो ऽहं त्वया सह ॥ ९५ ॥

अथवा तव दोषः कः किं वा कुर्याम् अहं तव ।
ममैव दोषो नितरां येनाहम् अजितेन्द्रियः ॥ ९६ ॥

यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः ।
त्वया दृष्टिमहामोहमनुनाहं जुगुप्सितः ॥ ९७ ॥

व्यास उवाच-

यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम् ।
तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥ ९८ ॥

प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः ॥ ९९ ॥

सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १०० ॥

वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः ।
निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥ १०१ ॥

ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः ।
निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥ १०२ ॥

तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः ।
सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥ १०३ ॥

मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना ।
प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥ १०४ ॥

स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं भो विप्रा विष्णोर् आयतनं ययौ ॥ १०५ ॥

ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् ।
दक्षिणस्योदधेस् तीरे सर्वकामफलप्रदम् ॥ १०६ ॥

सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् ।
नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥ १०७ ॥

सर्वत्र सुखसञ्चारं सर्वर्तुकुसुमान्वितम् ।
सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम् ॥ १०८ ॥

भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस् तथा ।
गन्धर्वैः किन्नरैर् यक्षैस् तथान्यैर् मोक्षकाङ्क्षिभिः ॥ १०९ ॥

ददर्श च हरिं तत्र देवैः सर्वैर् अलङ्कृतम् ।
ब्राह्मणाद्यैस् तथा वर्णैर् आश्रमस्थैर् निषेवितम् ॥ ११० ॥

दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् ।
कृतकृत्यम् इवात्मानं मेने स मुनिसत्तमः ॥ १११ ॥

तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः ।
ऊर्ध्वबाहुर् महायोगी स्थित्वासौ मुनिसत्तमः ॥ ११२ ॥

मुनय ऊचुः-

ब्रह्मपारं मुने श्रोतुम् इच्छामः परमं शुभम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥ ११३ ॥

व्यास उवाच-

पारं परं विष्णुर् अपारपारः ।
परः परेभ्यः परमात्मरूपः ।
स ब्रह्मपारः परपारभूतः ।
परः पराणाम् अपि पारपारः ॥ ११४ ॥

स कारणं कारणसंश्रितो ऽपि ।
तस्यापि हेतुः परहेतुहेतुः ।
रूपैर् अनेकैर् अवतीह सर्वम् ॥ ११५ ॥

ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ।
ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ ।
ब्रह्माव्ययं नित्यम् अजं स विष्णुर् ।
अपक्षयाद्यैर् अखिलैर् असङ्गः ॥ ११६ ॥

ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ ११७ ॥

व्यास उवाच-

श्रुत्वा तस्य मुनेर् जाप्यं ब्रह्मपारं द्विजोत्तमाः ।
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ ११८ ॥

प्रीत्या स परया देवस् तदासौ भक्तवत्सलः ।
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥ ११९ ॥

मेघगम्भीरया वाचा दिशः सन्नादयन्न् इव ।
आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥ १२० ॥

श्रीभगवान् उवाच-

मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते ।
वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत ॥ १२१ ॥

श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः ।
चक्षुर् उन्मील्य सहसा ददर्श पुरतो हरिम् ॥ १२२ ॥

अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् ।
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥ १२३ ॥

चतुर्बाहुम् उदाराङ्गं पीतवस्त्रधरं शुभम् ।
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥ १२४ ॥

सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् ।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥ १२५ ॥

ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः ।
दण्डवत् प्रणिपत्योर्व्यां प्रणामम् अकरोत् तदा ॥ १२६ ॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
इत्य् उक्त्वा मुनिशार्दूलास् तं स्तोतुम् उपचक्रमे ॥ १२७ ॥

कण्डुर् उवाच-

नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते ।
जगद्बीज जगद्धाम जगत्साक्षिन् नमो ऽस्तु ते ॥ १२८ ॥

अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमो ऽस्तु ते ॥ १२९ ॥

हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन ।
भूगर्भ ध्रुव ईशान हृषीकेश नमो ऽस्तु ते ॥ १३० ॥

अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो ऽस्तु ते ॥ १३१ ॥

पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
दुःखार्तिनाशन हरे जलशायिन् नमो ऽस्तु ते ॥ १३२ ॥

भूतपाव्यक्त भूतेश भूततत्त्वैर् अनाकुल ।
भूताधिवास भूतात्मन् भूतगर्भ नमो ऽस्तु ते ॥ १३३ ॥

यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद ।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो ऽस्तु ते ॥ १३४ ॥

क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी ।
क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो ऽस्तु ते ॥ १३५ ॥

गुणालय गुणावास गुणाश्रय गुणावह ।
गुणभोक्तृ गुणाराम गुणत्यागिन् नमो ऽस्तु ते ॥ १३६ ॥

त्वं विष्णुस् त्वं हरिश् चक्री त्वं जिष्णुस् त्वं जनार्दनः ।
त्वं भूतस् त्वं वषट्कारस् त्वं भव्यस् त्वं भवत्प्रभुः ॥ १३७ ॥

त्वं भूतकृत् त्वम् अव्यक्तस् त्वं भवो भूतभृद् भवान् ।
त्वं भूतभावनो देवस् त्वाम् आहुर् अजम् ईश्वरम् ॥ १३८ ॥

त्वम् अनन्तः कृतज्ञस् त्वं प्रकृतिस् त्वं वृषाकपिः ।
त्वं रुद्रस् त्वं दुराधर्षस् त्वम् अमोघस् त्वम् ईश्वरः ॥ १३९ ॥

त्वं विश्वकर्मा जिष्णुस् त्वं त्वं शम्भुस् त्वं वृषाकृतिः ।
त्वं शङ्करस् त्वम् उशना त्वं सत्यं त्वं तपो जनः ॥ १४० ॥

त्वं विश्वजेता त्वं शर्म त्वं शरण्यस् त्वम् अक्षरम् ।
त्वं शम्भुस् त्वं स्वयम्भूश् च त्वं ज्येष्ठस् त्वं परायणः ॥ १४१ ॥

त्वम् आदित्यस् त्वम् ओङ्कारस् त्वं प्राणस् त्वं तमिस्रहा ।
त्वं पर्जन्यस् त्वं प्रथितस् त्वं वेधास् त्वं सुरेश्वरः ॥ १४२ ॥

त्वम् ऋग् यजुः साम चैव त्वम् आत्मा सम्मतो भवान् ।
त्वम् अग्निस् त्वं च पवनस् त्वम् आपो वसुधा भवान् ॥ १४३ ॥

त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
त्वं प्रभुस् त्वं विभुः श्रेष्ठस् त्वं लोकपतिर् अच्युतः ॥ १४४ ॥

त्वं सर्वदर्शनः श्रीमांस् त्वं सर्वदमनो ऽरिहा ।
त्वम् अहस् त्वं तथा रात्रिस् त्वाम् आहुर् वत्सरं बुधाः ॥ १४५ ॥

त्वं कालस् त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः ।
त्वं बालस् त्वं तथा वृद्धस् त्वं पुमान् स्त्री नपुंसकः ॥ १४६ ॥

त्वं विश्वयोनिस् त्वं चक्षुस् त्वं स्थाणुस् त्वं शुचिश्रवाः ।
त्वं शाश्वतस् त्वम् अजितस् त्वम् उपेन्द्रस् त्वम् उत्तमः ॥ १४७ ॥

त्वं सर्वविश्वसुखदस् त्वं वेदाङ्गं त्वम् अव्ययः ।
त्वं वेदवेदस् त्वं धाता विधाता त्वं समाहितः ॥ १४८ ॥

त्वं जलनिधिर् आमूलं त्वं धाता त्वं पुनर् वसुः ।
त्वं वैद्यस् त्वं धृतात्मा च त्वम् अतीन्द्रियगोचरः ॥ १४९ ॥

त्वम् अग्रणीर् ग्रामणीस् त्वं त्वं सुपर्णस् त्वम् आदिमान् ।
त्वं सङ्ग्रहस् त्वं सुमहत् त्वं धृतात्मा त्वम् अच्युतः ॥ १५० ॥

त्वं यमस् त्वं च नियमस् त्वं प्रांशुस् त्वं चतुर्भुजः ।
त्वम् एवान्नान्तरात्मा त्वं परमात्मा त्वम् उच्यते ॥ १५१ ॥

त्वं गुरुस् त्वं गुरुतमस् त्वं वामस् त्वं प्रदक्षिणः ।
त्वं पिप्पलस् त्वम् अगमस् त्वं व्यक्तस् त्वं प्रजापतिः ॥ १५२ ॥

हिरण्यनाभस् त्वं देवस् त्वं शशी त्वं प्रजापतिः ।
अनिर्देश्यवपुस् त्वं वै त्वं यमस् त्वं सुरारिहा ॥ १५३ ॥

त्वं च सङ्कर्षणो देवस् त्वं कर्ता त्वं सनातनः ।
त्वं वासुदेवो ऽमेयात्मा त्वम् एव गुणवर्जितः ॥ १५४ ॥

त्वं ज्येष्ठस् त्वं वरिष्ठस् त्वं त्वं सहिष्णुश् च माधवः ।
सहस्रशीर्षा त्वं देवस् त्वम् अव्यक्तः सहस्रदृक् ॥ १५५ ॥

सहस्रपादस् त्वं देवस् त्वं विराट् त्वं सुरप्रभुः ।
त्वम् एव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ १५६ ॥

यद् भूतं तत् त्वम् एवोक्तः पुरुषः शक्र उत्तमः ।
यद् भाव्यं तत् त्वम् ईशानस् त्वम् ऋतस् त्वं तथामृतः ॥ १५७ ॥

त्वत्तो रोहत्य् अयं लोको महीयांस् त्वम् अनुत्तमः ।
त्वं ज्यायान् पुरुषस् त्वं च त्वं देव दशधा स्थितः ॥ १५८ ॥

विश्वभूतश् चतुर्भागो नवभागो ऽमृतो दिवि ।
नवभागो ऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ १५९ ॥

भागद्वयं च भूसंस्थं चतुर्भागो ऽप्य् अभूद् इह ।
त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ १६० ॥

त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान् ।
सो ऽतिरिच्यत भूतेभ्यस् तेजसा यशसा श्रिया ॥ १६१ ॥

त्वत्तः सुराणाम् आहारः पृषदाज्यम् अजायत ।
ग्राम्यारण्याश् चौषधयस् त्वत्तः पशुमृगादयः ॥ १६२ ॥

ध्येयध्यानपरस् त्वं च कृतवान् असि चौषधीः ।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ १६३ ॥

जङ्गमाजङ्गमं सर्वं जगद् एतच् चराचरम् ।
त्वत्तः सर्वम् इदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ १६४ ॥

अनिरुद्धस् त्वं माधवस् त्वं प्रद्युम्नः सुरारिहा ।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ १६५ ॥

त्राहि माम् अरविन्दाक्ष नारायण नमो ऽस्तु ते ।
नमस् ते भगवन् विष्णो नमस् ते पुरुषोत्तम ॥ १६६ ॥

नमस् ते सर्वलोकेश नमस् ते कमलालय ।
गुणालय नमस् ते ऽस्तु नमस् ते ऽस्तु गुणाकर ॥ १६७ ॥

वासुदेव नमस् ते ऽस्तु नमस् ते ऽस्तु सुरोत्तम ।
जनार्दन नमस् ते ऽस्तु नमस् ते ऽस्तु सनातन ॥ १६८ ॥

नमस् ते योगिनां गम्य योगावास नमो ऽस्तु ते ।
गोपते श्रीपते विष्णो नमस् ते ऽस्तु मरुत्पते ॥ १६९ ॥

जगत्पते जगत्सूते नमस् ते ज्ञानिनां पते ।
दिवस्पते नमस् ते ऽस्तु नमस् ते ऽस्तु महीपते ॥ १७० ॥

नमस् ते मधुहन्त्रे च नमस् ते पुष्करेक्षण ।
कैटभघ्न नमस् ते ऽस्तु सुब्रह्मण्य नमो ऽस्तु ते ॥ १७१ ॥

नमो ऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ १७२ ॥

अश्वशीर्ष महाघोण महापुरुषविग्रह ।
मधुकैटभहन्त्रे च नमस् ते तुरगानन ॥ १७३ ॥

महाकमठभोगाय पृथिव्युद्धरणाय च ।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ १७४ ॥

नमो महावराहाय पृथिव्युद्धारकारिणे ।
नमश् चादिवराहाय विश्वरूपाय वेधसे ॥ १७५ ॥

नमो ऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ १७६ ॥

तस्मै नमः कारणकारणाय ।
योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय ।
तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ १७७ ॥

व्यास उवाच-

इत्थं स्तुतस् तदा तेन प्रीतः प्रोवाच माधवः ।
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि ॥ १७८ ॥

कण्डुर् उवाच-

संसारे ऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे ।
अनित्ये दुःखबहुले कदलीदलसन्निभे ॥ १७९ ॥

निराश्रये निरालम्बे जलबुद्बुदचञ्चले ।
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥ १८० ॥

भ्रमामि सुचिरं कालं मायया मोहितस् तव ।
न चान्तम् अभिगच्छामि विषयासक्तमानसः ॥ १८१ ॥

त्वाम् अहं चाद्य देवेश संसारभयपीडितः ।
गतो ऽस्मि शरणं कृष्ण माम् उद्धर भवार्णवात् ॥ १८२ ॥

गन्तुम् इच्छामि परमं पदं यत् ते सनातनम् ।
प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम् ॥ १८३ ॥

श्रीभगवान् उवाच-

भक्तो ऽसि मे मुनिश्रेष्ठ माम् आराधय नित्यशः ।
मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥ १८४ ॥

मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः ।
प्राप्नुवन्ति परां सिद्धिं किं पुनस् त्वं द्विजोत्तम ॥ १८५ ॥

श्वपाको ऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः ।
प्राप्नोत्य् अभिमतां सिद्धिम् अन्येषां तत्र का कथा ॥ १८६ ॥

व्यास उवाच-

एवम् उक्त्वा तु तं विप्राः स देवो भक्तवत्सलः ।
दुर्विज्ञेयगतिर् विष्णुस् तत्रैवान्तरधीयत ॥ १८७ ॥

गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः ।
सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः ॥ १८८ ॥

सर्वेन्द्रियाणि संयम्य निर्ममो निरहङ्कृतिः ।
एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम् ॥ १८९ ॥

निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् ।
अवाप परमं मोक्षं सुराणाम् अपि दुर्लभम् ॥ १९० ॥

यः पठेच् छृणुयाद् वापि कथां कण्डोर् महात्मनः ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १९१ ॥

एवं मया मुनिश्रेष्ठाः कर्मभूमिर् उदाहृता ।
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥ १९२ ॥

ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं ।
भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं संसारदुःखापहम् ॥ १९३ ॥

ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः स्वर्गे च दिव्यं सुखं ।
पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेर् अव्ययम् ॥ १९४ ॥