Summary (SA)
Chapter 177- On the greatness of Puruṣottamakṣetra and the merit obtained there
{{Ref- SS 284-285}}
ब्रह्मोवाच-
एवं वो ऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् ।
भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम् ॥ १ ॥
यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः ।
पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ २ ॥
ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् ।
सङ्कर्षणं सुभद्रां च धन्यास् ते नात्र संशयः ॥ ३ ॥
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ।
ये ध्यायन्ति सदा कृष्णं मुक्तास् ते नात्र संशयः ॥ ४ ॥
कृष्णे रताः कृष्णम् अनुस्मरन्ति ।
रात्रौ च कृष्णं पुनर् उत्थिता ये ।
ते भिन्नदेहाः प्रविशन्ति कृष्णं ।
हविर् यथा मन्त्रहुतं हुताशम् ॥ ५ ॥
तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः ।
तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ ६ ॥
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः ।
हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ ७ ॥
सर्वकाले ऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् ।
रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ ८ ॥
आस्ते यश् चतुरो मासान् वार्षिकान् पुरुषोत्तमे ।
पृथिव्यास् तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ ९ ॥
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः ।
जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ १० ॥
तपस् तप्त्वान्यतीर्थेषु वर्षाणाम् अयुतं नरः ।
यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे ॥ ११ ॥
तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् ।
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १२ ॥
सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् ।
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १३ ॥
सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च ।
तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ १४ ॥
यस् तु नानाविधैर् यज्ञैर् यत् फलं लभते नरः ।
तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ १५ ॥
देहं त्यजन्ति पुरुषास् तत्र ये पुरुषोत्तमे ।
कल्पवृक्षं समासाद्य मुक्तास् ते नात्र संशयः ॥ १६ ॥
वटसागरयोर् मध्ये ये त्यजन्ति कलेवरम् ।
ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ १७ ॥
अनिच्छन्न् अपि यस् तत्र प्राणांस् त्यजति मानवः ।
सो ऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ १८ ॥
कृमिकीटपतङ्गाद्यास् तिर्यग्योनिगताश् च ये ।
तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ १९ ॥
भ्रान्तिं लोकस्य पश्यध्वम् अन्यतीर्थं प्रति द्विजाः ।
पुरुषाख्येन यत् प्राप्तम् अन्यतीर्थफलादिकम् ॥ २० ॥
सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् ।
पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान् ॥ २१ ॥
प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः ।
तस्माद् वेदे पुराणे च लोके ऽस्मिन् पुरुषोत्तमः ॥ २२ ॥
यो ऽसौ पुराणे वेदान्ते परमात्मेत्य् उदाहृतः ।
आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ २३ ॥
पाथे श्मशाने गृहमण्डपे वा ।
रथ्याप्रदेशेष्व् अपि यत्र कुत्र ।
इच्छन्न् अनिच्छन्न् अपि तत्र देहं ।
सन्त्यज्य मोक्षं लभते मनुष्यः ॥ २४ ॥
तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः ।
देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥ २५ ॥
पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति ।
त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ २६ ॥
गुणानाम् एकदेशो ऽयं मया क्षेत्रस्य कीर्तितः ।
कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैर् अपि ॥ २७ ॥
यदि यूयं मुनिश्रेष्ठा मोक्षम् इच्छथ शाश्वतम् ।
तस्मिन् क्षेत्रवरे पुण्ये निवसध्वम् अतन्द्रिताः ॥ २८ ॥
व्यास उवाच-
ते तस्य वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः ।
निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ २९ ॥
तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः ।
पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिम् अभीप्सथ ॥ ३० ॥