176

Summary (SA)

Chapter 176- Prehistory of the image of Vāsudeva

{{Ref- SS 283-284}}

मुनय ऊचुः-

नहि नस् तृप्तिर् अस्तीह शृण्वतां भगवत्कथाम् ।
पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः ॥ १ ॥

अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया ।
श्रोतुम् इच्छामहे देव विस्तरेण वदस्व नः ॥ २ ॥

ब्रह्मोवाच-

प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् ।
अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ ३ ॥

आदिकल्पे पुरा विप्रास् त्व् अहम् अव्यक्तजन्मवान् ।
विश्वकर्माणम् आहूय वचनं प्रोक्तवान् इदम् ॥ ४ ॥

वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् ।
प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ ५ ॥

यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः ।
येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम् ॥ ६ ॥

त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् ।
वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ ७ ॥

मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् ।
चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ ८ ॥

सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् ।
श्रीवत्सलक्ष्मसंयुक्ताम् अत्युग्रां प्रतिमोत्तमाम् ॥ ९ ॥

वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् ।
पीतवस्त्रां सुपीनांसां कुण्डलाभ्याम् अलङ्कृताम् ॥ १० ॥

एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस् तदा स्वयम् ।
प्रतिष्ठाकालम् आसाद्य मयासौ निर्मिता पुरा ॥ ११ ॥

तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह ।
जगाम ब्रह्मसदनम् आरुह्य गजम् उत्तमम् ॥ १२ ॥

प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः ।
प्रतिमां तां समाराध्य स्वपुरं पुनर् आगमत् ॥ १३ ॥

तां समाराध्य सुचिरं यतवाक्कायमानसः ।
वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च ॥ १४ ॥

निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् ।
द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ १५ ॥

बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् ।
दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ १६ ॥

चचार व्रतम् अत्युग्रं तपः परमदुश्चरम् ।
तपसा तेन तुष्टो ऽहं वरं तस्मै प्रदत्तवान् ॥ १७ ॥

अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् ।
शापप्रहरणैर् उग्रैर् अवध्यो यमकिङ्करैः ॥ १८ ॥

वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् ।
धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ १९ ॥

सङ्ग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः ।
देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ २० ॥

राक्षसस् तत्सुतो नाम मेघनादः प्रलब्धवान् ।
अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ २१ ॥

ददर्शाञ्जनसङ्काशां रावणस् तु बलान्वितः ।
प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ २२ ॥

श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् ।
वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ २३ ॥

शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् ।
सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ २४ ॥

विहाय रत्नसङ्घांश् च प्रतिमां शुभलक्षणाम् ।
पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम् ॥ २५ ॥

पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः ।
रावणस्यानुजो मन्त्री नारायणपरायणः ॥ २६ ॥

दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् ।
रोमाञ्चिततनुर् भूत्वा विस्मयं समपद्यत ॥ २७ ॥

प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ २८ ॥

इत्य् उक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर् मुहुः ।
ज्येष्ठं भ्रातरम् आसाद्य कृताञ्जलिर् अभाषत ॥ २९ ॥

राजन् प्रतिमया त्वं मे प्रसादं कर्तुम् अर्हसि ।
याम् आराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ ३० ॥

भ्रातुर् वचनम् आकर्ण्य रावणस् तं तदाब्रवीत् ।
गृहाण प्रतिमां वीर त्व् अनया किं करोम्य् अहम् ॥ ३१ ॥

स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्व् अहम् ।
नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥ ३२ ॥

विभीषणो महाबुद्धिस् तदा तां प्रतिमां शुभाम् ।
शतम् अष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥ ३३ ॥

अजरामरणं प्राप्तम् अणिमादिगुणैर् युतम् ।
राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान् ॥ ३४ ॥

मुनय ऊचुः-

अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् ।
अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम् ॥ ३५ ॥

श्रोतुम् इच्छामहे देव विस्तरेण यथातथम् ।
तस्य देवस्य माहात्म्यं वक्तुम् अर्हस्य् अशेषतः ॥ ३६ ॥

ब्रह्मोवाच-

तदा स राक्षसः क्रूरो देवगन्धर्वकिन्नरान् ।
लोकपालान् समनुजान् मुनिसिद्धांश् च पापकृत् ॥ ३७ ॥

विजित्य समरे सर्वान् आजहार तदङ्गनाः ।
संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥ ३८ ॥

शङ्कितो मृगरूपेण सौवर्णेन च रावणः ।
ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥ ३९ ॥

रावणस्य वधार्थाय हत्वा वालिं मनोजवम् ।
अभिषिक्तश् च सुग्रीवो युवराजो ऽङ्गदस् तथा ॥ ४० ॥

हनुमान् नलनीलश् च जाम्बवान् पनसस् तथा ।
गवयश् च गवाक्षश् च पाठीनः परमौजसः ॥ ४१ ॥

एतैश् चान्यैश् च बहुभिर् वानरैः समहाबलैः ।
समावृतो महाघोरै रामो राजीवलोचनः ॥ ४२ ॥

गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ ।
बलेन महता रामः समुत्तीर्य महोदधिम् ॥ ४३ ॥

सङ्ग्रामम् अतुलं चक्रे रक्षोगणसमन्वितः ।
यमहस्तं प्रहस्तं च निकुम्भं कुम्भम् एव च ॥ ४४ ॥

नरान्तकं महावीर्यं तथा चैव यमान्तकम् ।
मालाढ्यं मालिकाढ्यं च हत्वा रामस् तु वीर्यवान् ॥ ४५ ॥

पुनर् इन्द्रजितं हत्वा कुम्भकर्णं सरावणम् ।
वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥ ४६ ॥

वासुदेवं समादाय यानं पुष्पकम् आरुहत् ।
लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम् ॥ ४७ ॥

कनिष्ठं भरतं स्नेहाच् छत्रुघ्नं भक्तवत्सलः ।
अभिषिच्य तदा रामः सर्वराज्ये ऽधिराजवत् ॥ ४८ ॥

पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः ।
दश वर्षसहस्राणि दश वर्षशतानि च ॥ ४९ ॥

भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः ।
राज्यम् आसाद्य सुगतिं वैष्णवं पदम् आविशत् ॥ ५० ॥

तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् ।
धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥ ५१ ॥

द्वापरं युगम् आसाद्य यदा देवो जगत्पतिः ।
धरण्याश् चानुरोधेन भावशैथिल्यकारणात् ॥ ५२ ॥

अवतीर्णः स भगवान् वसुदेवकुले प्रभुः ।
कंसादीनां वधार्थाय सङ्कर्षणसहायवान् ॥ ५३ ॥

तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् ।
सर्वलोकहितार्थाय कस्यचित् कारणान्तरे ॥ ५४ ॥

तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे ।
उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः ॥ ५५ ॥

तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः ।
आस्ते स देवो देवानां सर्वकामफलप्रदः ॥ ५६ ॥

ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् ।
वाङ्मनःकर्मभिर् नित्यं ते यान्ति परमं पदम् ॥ ५७ ॥

दृष्ट्वानन्तं सकृद् भक्त्या सम्पूज्य प्रणिपत्य च ।
राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥ ५८ ॥

सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ५९ ॥

त्रिःसप्तकुलम् उद्धृत्य दिव्यस्त्रीगणसेवितः ।
उपगीयमानो गन्धर्वैर् नरो विष्णुपुरं व्रजेत् ॥ ६० ॥

तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः ।
दिव्यरूपधरः श्रीमान् यावद् आभूतसम्प्लवम् ॥ ६१ ॥

पुण्यक्षयाद् इहायातश् चतुर्वेदी द्विजोत्तमः ।
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥ ६२ ॥

एवं मया त्व् अनन्तो ऽसौ कीर्तितो मुनिसत्तमाः ।
कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैर् अपि ॥ ६३ ॥