175

Summary (SA)

Chapter 175- Brahman’s teachings about dharma; on the origin of the Gaṅgā

{{Ref- SS 279-282}}

नारद उवाच-

त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ।
ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १ ॥

आदिमध्यावसाने च उभयोस् तीरयोर् अपि ।
या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम ।
पुनः सङ्क्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ २ ॥

ब्रह्मोवाच-

कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा ।
महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ ३ ॥

ब्रह्मतेजःप्रभावेण शिवम् आराध्य यत्नतः ।
ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ ४ ॥

आगत्य सङ्गता देवी सर्वतीर्थमयी नृणाम् ।
ईप्सितानां तथा दात्री प्रभावो ऽस्या विशिष्यते ॥ ५ ॥

एतस्या नाधिकं मन्ये किञ्चित् तीर्थं जगत्त्रये ।
अस्याश् चैव प्रभावेण भाव्यं यच् च मनःस्थितम् ॥ ६ ॥

अद्याप्य् अस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते ।
भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ ७ ॥

तस्याः परतरं तीर्थं न स्याद् इति मतिर् मम ।
अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन ॥ ८ ॥

श्रुत्वा मद्वाक्यपीयूषैर् गङ्गाया गुणकीर्तनम् ।
सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता ।
इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ ९ ॥

नारद उवाच-

धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः ।
छन्दांसि सरहस्यानि पुराणस्मृतयो ऽपि च ॥ १० ॥

धर्मशास्त्राणि यच् चान्यत् तव वाक्ये प्रतिष्ठितम् ।
तीर्थानाम् अथ दानानां यज्ञानां तपसां तथा ॥ ११ ॥

देवतामन्त्रसेवानाम् अधिकं किं वद प्रभो ।
यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा ॥ १२ ॥

एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुम् अर्हसि ।
इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयम् आगतः ॥ १३ ॥

ब्रह्मोवाच-

शृणु नारद वक्ष्यामि रहस्यं धर्मम् उत्तमम् ।
चतुर्विधानि तीर्थानि तावन्त्य् एव युगानि च ॥ १४ ॥

गुणास् त्रयश् च पुरुषास् त्रयो देवाः सनातनाः ।
वेदाश् च स्मृतिभिर् युक्ताश् चत्वारस् ते प्रकीर्तिताः ॥ १५ ॥

पुरुषार्थाश् च चत्वारो वाणी चापि चतुर्विधा ।
गुणा ह्य् अपि तु चत्वारः समत्वेनेति नारद ॥ १६ ॥

सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः ।
साध्यसाधनभावेन स एव बहुधा मतः ॥ १७ ॥

तस्याश्रयश् च द्विविधो देशः कालश् च सर्वदा ।
कालाश्रयश् च यो धर्मो हीयते वर्धते सदा ॥ १८ ॥

युगानाम् अनुरूपेण पादः पादो ऽस्य हीयते ।
धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ १९ ॥

कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः ।
युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ २० ॥

उभयत्र विहीने च धर्मस्य स्याद् अभावता ।
तस्माद् देशाश्रितो धर्मश् चतुष्पात् सुप्रतिष्ठितः ॥ २१ ॥

स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति ।
कृते देशं च कालं च धर्मो ऽवष्टभ्य तिष्ठति ॥ २२ ॥

त्रेतायां पादहीनेन स तु पादः प्रदेशतः ।
द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ २३ ॥

कलौ पादेन चैकेन धर्मश् चलति सङ्कटम् ।
एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ २४ ॥

युगानाम् अनुभावेन जातिभेदाश् च संस्थिताः ।
गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ २५ ॥

गुणानाम् अनुभावेन उद्भवाभिभवौ तथा ।
तीर्थानाम् अपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ २६ ॥

तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते ।
कालो ऽभिव्यञ्जकः प्रोक्तो देशो ऽभिव्यङ्ग्य उच्यते ॥ २७ ॥

यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा ।
तद् एव व्यञ्जनं ब्रह्मंस् तस्मान् नास्त्य् अत्र संशयः ॥ २८ ॥

युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा ।
कर्मणाम् अपि तीर्थानां जातीनाम् आश्रमस्य तु ॥ २९ ॥

त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते ।
द्विदैवत्यं युगे ऽन्यस्मिन् द्वापरे चैकदैविकम् ॥ ३० ॥

कलौ न किञ्चिद् विज्ञेयम् अथान्यद् अपि तच् छृणु ।
दैवं कृतयुगे तीर्थं त्रेतायाम् आसुरं विदुः ॥ ३१ ॥

आर्षं च द्वापरे प्रोक्तं कलौ मानुषम् उच्यते ।
अथान्यद् अपि वक्ष्यामि शृणु नारद कारणम् ॥ ३२ ॥

गौतम्यां यत् त्वया पृष्टं तत् ते वक्ष्यामि विस्तरात् ।
यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥ ३३ ॥

तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् ।
तद् देवस्य मतं ज्ञात्वा गजवक्त्रम् उवाच सा ॥ ३४ ॥

उमा लोकत्रयेशाना माता च जगतो हिता ।
शान्ता श्रुतिर् इति ख्याता भुक्तिमुक्तिप्रदायिनी ॥ ३५ ॥

ब्रह्मोवाच-

तन् मातुर् वचनं श्रुत्वा गजवक्त्रो ऽभ्यभाषत ॥ ३६ ॥

गजवक्त्र उवाच-

किं कृत्यं शाधि मां मातस् तत्कर्ताहम् असंशयम् ॥ ३७ ॥

ब्रह्मोवाच-

उमा सुतम् उवाचेदं महेश्वरजटास्थिता ।
त्वयावतार्यतां गङ्गा सत्यम् ईशप्रिया सती ॥ ३८ ॥

पुनश् चेशस् तत्र चित्रम् अध्यास्ते सर्वदा सुत ।
शिवो यत्र सुरास् तत्र तत्र वेदाः सनातनाः ॥ ३९ ॥

तत्रैव ऋषयः सर्वे मनुष्याः पितरस् तथा ।
तस्मान् निवर्तयेशानं देवदेवं महेश्वरम् ॥ ४० ॥

तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि ।
निवृत्तास् ते भविष्यन्ति शृणु चेदं वचो मम ।
निवर्तय ततस् तस्याः सर्वभावेन शङ्करम् ॥ ४१ ॥

ब्रह्मोवाच-

मातुस् तद् वचनं श्रुत्वा पुनर् आह गणेश्वरः ॥ ४२ ॥

गणेश्वर उवाच-

नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् ।
अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥ ४३ ॥

न शक्या जगतां मातर् अथान्यच् चापि कारणम् ।
गङ्गावतारिता पूर्वं गौतमेन महात्मना ॥ ४४ ॥

ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा ।
सामोपायेन तद्वाक्यात् पूज्येन ब्रह्मतेजसा ॥ ४५ ॥

आराधयित्वा देवेशं तपोभिः स्तुतिभिर् भवम् ।
तुष्टेन शङ्करेणेदम् उक्तो ऽसौ गौतमस् तदा ॥ ४६ ॥

शङ्कर उवाच-

वरान् वरय पुण्यांश् च प्रियांश् च मनसेप्सितान् ।
यद् यद् इच्छसि तत् सर्वं दाता ते ऽद्य महामते ॥ ४७ ॥

ब्रह्मोवाच-

एवम् उक्तः शिवेनासौ गौतमो मयि शृण्वति ।
इदम् एव तदोवाच सजटां देहि शङ्कर ।
गङ्गां मे याचते पुण्यां किम् अन्येन वरेण मे ॥ ४८ ॥

ब्रह्मोवाच-

पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः ॥ ४९ ॥

शम्भुर् उवाच-

उक्तं न चात्मनः किञ्चित् तस्माद् याचस्व दुष्करम् ॥ ५० ॥

ब्रह्मोवाच-

गौतमो ऽदीनसत्त्वस् तं भवम् आह कृताञ्जलिः ॥ ५१ ॥

गौतम उवाच-

एतद् एव च सर्वेषां दुष्करं तव दर्शनम् ।
मया तद् अद्य सम्प्राप्तं कृपया तव शङ्कर ॥ ५२ ॥

स्मरणाद् एव ते पद्भ्यां कृतकृत्या मनीषिणः ।
भवन्ति किं पुनः साक्षात् त्वयि दृष्टे महेश्वरे ॥ ५३ ॥

ब्रह्मोवाच-

एवम् उक्ते गौतमेन भवो हर्षसमन्वितः ।
त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया ॥ ५४ ॥

न चात्मनो महाबुद्धे याचेत्य् आह शिवो द्विजम् ।
एवं प्रोक्तः पुनर् विप्रो ध्यात्वा प्राह शिवं तथा ॥ ५५ ॥

विनीतवद् अदीनात्मा शिवभक्तिसमन्वितः ।
सर्वलोकोपकाराय पुनर् याचितवान् इदम् ।
शृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥ ५६ ॥

गौतम उवाच-

यावत् सागरगा देवी निसृष्टा ब्रह्मणो गिरेः ।
सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥ ५७ ॥

फलेप्सूनां फलं दाता त्वम् एव जगतः प्रभो ।
तीर्थान्य् अन्यानि देवेश क्वापि क्वापि शुभानि च ॥ ५८ ॥

यत्र ते सन्निधिर् नित्यं तद् एव शुभदं विदुः ।
यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता ।
सर्वत्र तव सान्निध्यात् सर्वतीर्थानि शङ्कर ॥ ५९ ॥

ब्रह्मोवाच-

तद् गौतमवचः श्रुत्वा पुनर् हर्षाच् छिवो ऽब्रवीत् ॥ ६० ॥

शिव उवाच-

यत्र क्वापि च यत् किञ्चिद् यो वा भवति भक्तितः ।
यात्रां स्नानम् अथो दानं पितॄणां वापि तर्पणम् ॥ ६१ ॥

श्रवणं पठनं वापि स्मरणं वापि गौतम ।
यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥ ६२ ॥

सप्तद्वीपवती पृथ्वी सशैलवनकानना ।
सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥ ६३ ॥

दत्त्वा भवति यो धर्मः स भवेद् गौतमीस्मृतेः ।
एवंविधा इला विप्र गोदानाद् याभिधीयते ॥ ६४ ॥

चन्द्रसूर्यग्रहे काले मत्सान्निध्ये यतव्रतः ।
भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥ ६५ ॥

गाः सुन्दराः सवत्साश् च सङ्गमे लोकविश्रुते ।
यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यम् आप्नुयात् ॥ ६६ ॥

तस्माद् वरं पुण्यम् एति स्नानदानादिना नरः ।
गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥ ६७ ॥

तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति ।
सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी ॥ ६८ ॥

गणेश्वर उवाच-

एतच् छ्रुतं मया मातर् वदतो गौतमं शिवात् ।
एतस्मात् कारणाच् छम्भुर् गङ्गायां नियतः स्थितः ॥ ६९ ॥

को निवर्तयितुं शक्तस् तम् अम्ब करुणोदधिम् ।
अथापि मातर् एतत् स्यान् मानुषा विघ्नपाशकैः ॥ ७० ॥

विनिबद्धा न गच्छन्ति गोदाम् अप्य् अन्तिकस्थिताम् ।
न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥ ७१ ॥

तथा मातः करिष्यामि तव सन्तोषहेतवे ।
सन्निरोद्धुम् अथो क्लेशस् तव वाक्यं क्षमस्व मे ॥ ७२ ॥

ब्रह्मोवाच-

ततः प्रभृति विघ्नेशो मानुषान् प्रति किञ्चन ।
विघ्नम् आचरते यस् तु तम् उपास्य प्रवर्तते ॥ ७३ ॥

अथो विघ्नम् अनादृत्य गौतमीं याति भक्तितः ।
स कृतार्थो भवेल् लोके न कृत्यम् अवशिष्यते ॥ ७४ ॥

विघ्नान्य् अनेकानि भवन्ति गेहान् ।
निर्गन्तुकामस्य नराधमस्य ।
निधाय तन्मूर्ध्नि पदं प्रयाति ।
गङ्गां न किं तेन फलं प्रलब्धम् ॥ ७५ ॥

अस्याः प्रभावं को ब्रूयाद् अपि साक्षात् सदाशिवः ।
सङ्क्षेपेण मया प्रोक्तम् इतिहासपदानुगम् ॥ ७६ ॥

धर्मार्थकाममोक्षाणां साधनं यच् चराचरे ।
तद् अत्र विद्यते सर्वम् इतिहासे सविस्तरे ॥ ७७ ॥

वेदोदितं श्रुतिसकलरहस्यम् उक्तं ।
सत्कारणं समभिधानम् इदं सदैव ।
सम्यक् च दृष्टं जगतां हिताय ।
प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥ ७८ ॥

अस्य श्लोकं पदं वापि भक्तितः शृणुयात् पठेत् ।
गङ्गा गङ्गेति वा वाक्यं स तु पुण्यम् अवाप्नुयात् ॥ ७९ ॥

कलिकलङ्कविनाशनदक्षम् इदं ।
सकलसिद्धिकरं शुभदं शिवम् ।
जगति पूज्यम् अभीष्टफलप्रदं ।
गाङ्गम् एतद् उदीरितम् उत्तमम् ॥ ८० ॥

साधु गौतम भद्रं ते को ऽन्यो ऽस्ति सदृशस् त्वया ।
य एनां गौतमीं गङ्गां दण्डकारण्यम् आप्नुयात् ॥ ८१ ॥

गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैर् अपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८२ ॥

तिस्रः कोट्यो ऽर्धकोटी च तीर्थानि भुवनत्रये ।
तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ ॥ ८३ ॥

षष्टिर् वर्षसहस्राणि भागीरथ्यवगाहनम् ।
सकृद् गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥ ८४ ॥

इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया ।
सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति ॥ ८५ ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।
कृत्वा यत् फलम् आप्नोति तद् अस्य श्रवणाद् भवेत् ॥ ८६ ॥

यस्यैतत् तिष्ठति गृहे पुराणं ब्रह्मणोदितम् ।
न भयं विद्यते तस्य कलिकालस्य नारद ॥ ८७ ॥

यस्य कस्यापि नाख्येयं पुराणम् इदम् उत्तमम् ।
श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥ ८८ ॥

इदं कीर्त्यं भुक्तिमुक्तिदायकं पापनाशकम् ।
एतच्छ्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ ८९ ॥

लिखित्वा पुस्तकम् इदं ब्राह्मणाय प्रयच्छति ।
सर्वपापविनिर्मुक्तः पुनर् गर्भं न संविशेत् ॥ ९० ॥