Summary (SA)
Chapter 174- Completion of the sacrifice performed by the sages
{{Ref- SS 277-279}}
ब्रह्मोवाच-
सा सङ्गता पूर्वम् अपाम्पतिं तं ।
गङ्गा सुराणाम् अपि वन्दनीया ।
देवैश् च सर्वैर् अनुगम्यमाना ।
संस्तूयमाना मुनिभिर् मरुद्भिः ॥ १ ॥
क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः ।
भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ २ ॥
सुधूतपापा मनुगौतमादयः ।
सकौशिकास् तुम्बरुपर्वताद्याः ।
अगस्त्यमार्कण्डसपिप्पलाद्याः ।
सगालवा योगपरायणाश् च ॥ ३ ॥
सवामदेवाङ्गिरसो ऽथ भार्गवाः ।
स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः ।
सर्वे पुराणार्थविदो बहुज्ञास् ।
ते गौतमीं देवनदीं तु गत्वा ॥ ४ ॥
स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् ।
हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः ।
तां सङ्गतां वीक्ष्य शिवो हरिश् च ।
आत्मानम् आदर्शयतां मुनिभ्यः ॥ ५ ॥
तथामरास् तौ पितृभिश् च दृष्टौ ।
स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ ६ ॥
आदित्या वसवो रुद्रा मरुतो लोकपालकाः ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशङ्करौ ॥ ७ ॥
सङ्गमेषु प्रसिद्धेषु नित्यं सप्तसु नारद ।
समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ ८ ॥
गौतमेश्वर आख्यातो यत्र देवो महेश्वरः ।
नित्यं सन्निहितस् तत्र माधवो रमया सह ॥ ९ ॥
ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः ।
लोकानाम् उपकारार्थम् आत्मनः कारणान्तरे ॥ १० ॥
चक्रपाणिर् इति ख्यातः स्तुतो देवैर् मया सह ।
तत्र सन्निहितो विष्णुर् देवैः सह मरुद्गणैः ॥ ११ ॥
ऐन्द्रतीर्थम् इति ख्यातं तद् एव हयमूर्धकम् ।
हयमूर्धा तत्र विष्णुस् तन्मूर्धनि सुरा अपि ।
सोमतीर्थम् इति ख्यातं यत्र सोमेश्वरः शिवः ॥ १२ ॥
इन्द्रस्य सोमश्रवसो देवैश् च ऋषिभिस् तथा ।
प्रार्थितः सोम एवादाव् इन्द्रायेन्दो परिस्रव ॥ १३ ॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न ।
इन्द्रायेन्दो परिस्रव ॥ १४ ॥
यत् ते राजञ् छृतं हविस् तेन सोमाभिरक्ष नः ।
अरातीवा मा नस् तारीन् मो च नः किञ्चनाममद् ।
इन्द्रायेन्दो परिस्रव ॥ १५ ॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् ।
इन्द्रायेन्दो परिस्रव ॥ १६ ॥
कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना ।
नानाधियो वसूयवो ऽनु गा इव तस्थिम ।
इन्द्रायेन्दो परिस्रव ॥ १७ ॥
एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे ।
तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १८ ॥
तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत् ।
अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम् ॥ १९ ॥
सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः ।
स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा ॥ २० ॥
तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम् ।
यत्रादित्यो वेदमयो नित्यम् एति उपासितुम् ॥ २१ ॥
रूपान्तरेण मध्याह्ने द्रष्टुं मां शङ्करं हरिम् ।
नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः ॥ २२ ॥
रूपेण केन सविता समायातीत्य् अनिश्चयात् ।
तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम् ॥ २३ ॥
बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ।
ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥ २४ ॥
तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति ।
तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे ॥ २५ ॥
प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे ।
हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते ॥ २६ ॥
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् ।
एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता ॥ २७ ॥
यावत् सागरगा देवी तत्र तीर्थानि कानिचित् ।
सङ्क्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ २८ ॥
वेदे पुराणे ऋषिभिः प्रसिद्धा ।
या गौतमी लोकनमस्कृता च ।
वक्तुं कथं ताम् अतिसुप्रभावाम् ।
अशेषतो नारद कस्य शक्तिः ॥ २९ ॥
भक्त्या प्रवृत्तस्य यथाकथञ्चिन् ।
नैवापराधो ऽस्ति न संशयो ऽत्र ।
तस्माच् च दिङ्मात्रमतिप्रयासात् ।
संसूचितं लोकहिताय तस्याः ॥ ३० ॥
कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः ।
अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः ॥ ३१ ॥
क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि ।
गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ ३२ ॥
सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम् ।
वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते ॥ ३३ ॥