Summary (SA)
Chapter 173- Viśvarūpa’s terrible sacrifice
{{Ref- SS 276-277}}
ब्रह्मोवाच-
ऋषिसत्त्रम् इति ख्यातम् ऋषयः सप्त नारद ।
निषेदुस् तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १ ॥
तत्रेदं वृत्तम् आख्यास्ये देवर्षिपितृबृंहितम् ।
शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ २ ॥
सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद ।
वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा ॥ ३ ॥
वामदेव्य् अपरा ज्ञेया गौतमी मध्यतः शुभा ।
भारद्वाजी स्मृता चान्या आत्रेयी चेत्य् अथापरा ॥ ४ ॥
जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा ।
तैः सर्वैर् ऋषिभिस् तत्र यष्टुम् इष्टैर् महात्मभिः ॥ ५ ॥
निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः ।
एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः ॥ ६ ॥
विश्वरूप इति ख्यातो मुनीनां सत्त्रम् अभ्यगात् ।
ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि ।
विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात् ॥ ७ ॥
विश्वरूप उवाच-
ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना ।
यथा स्याद् बलवान् पुत्रो देवानाम् अपि दुर्धरः ।
यज्ञैर् वा तपसा वापि मुनयो वक्तुम् अर्हथ ॥ ८ ॥
ब्रह्मोवाच-
तत्र प्राह महाबुद्धिर् विश्वामित्रो महामनाः ॥ ९ ॥
विश्वामित्र उवाच-
कर्मणा तात लभ्यन्ते फलानि विविधानि च ।
त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ १० ॥
ततश् च कारणं कर्ता ततश् चान्यत् प्रकीर्तितम् ।
उपादानं तथा बीजं न च कर्म विदुर् बुधाः ॥ ११ ॥
कर्मणां कारणत्वं च कारणे पुष्कले सति ।
भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम् ॥ १२ ॥
कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् ।
कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते ॥ १३ ॥
तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् ।
यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः ॥ १४ ॥
तद्भावनानुरूपेण फलनिष्पत्तिर् उच्यते ।
करोति कर्म विधिवद् विना भावनया यदि ॥ १५ ॥
अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः ।
तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ १६ ॥
कर्मणस् त्व् अनुरूपेण फलं दास्यन्ति भावतः ।
तस्माद् भावानुरूपेण कर्म वै दास्यते फलम् ॥ १७ ॥
भावस् तु त्रिविधो ज्ञेयः सात्त्विको राजसस् तथा ।
तामसस् तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ १८ ॥
भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः ।
तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः ॥ १९ ॥
पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् ।
फलं ददाति फलिनां फले यदि प्रवर्तते ॥ २० ॥
कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः ।
तद् एव चोपदानादि सत्त्वादिगुणभेदतः ॥ २१ ॥
भावात् प्रारभते तद्वद् भावैः फलम् अवाप्यते ।
धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ २२ ॥
भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् ।
स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ २३ ॥
फलानि विविधान्य् आशु करोति समतानुगम् ।
एक एव पदार्थो ऽसौ भावैर् भेदः प्रदृश्यते ॥ २४ ॥
क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते ।
यथाभावं कर्म कुरु यथेप्सितम् अवाप्स्यसि ॥ २५ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा ऋषेर् वाक्यं विश्वामित्रस्य धीमतः ।
तपस् तप्त्वा बहुकालं तामसं भावम् आश्रितः ॥ २६ ॥
विश्वरूपः कर्म भीमं चकार सुरभीषणम् ।
पश्यत्सु ऋषिमुख्येषु वार्यमाणो ऽपि नित्यशः ॥ २७ ॥
आत्मकोपानुसारेण भीमं कर्म तथाकरोत् ।
भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ २८ ॥
भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् ।
एवं तपन्तम् आलक्ष्य वाग् उवाचाशरीरिणी ॥ २९ ॥
जटाजूटं विनात्मानं न च वृत्रो व्यजीयत ।
वृथात्मानं विश्वरूपो जुहुयाज् जातवेदसि ॥ ३० ॥
स एवेन्द्रः स वरुणः स च स्यात् सर्वम् एव च ।
त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः ॥ ३१ ॥
वृत्र इत्य् उच्यते वेदे स चापि वृजिनो ऽभवत् ।
भीमस्य महिमानं को जानाति जगदीशितुः ॥ ३२ ॥
सृजत्य् अशेषम् अपि यो न च सङ्गेन लिप्यते ।
विररामेति सङ्कीर्त्य सा वाण्य् एनं मुनीश्वराः ॥ ३३ ॥
भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वम् अथाश्रमम् ।
विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥ ३४ ॥
भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह ।
तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते ।
तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥ ३५ ॥
इति पठति शृणोति यश् च भक्त्या ।
विबुधपतिं शिवम् अत्र भीमरूपम् ।
स्मृतिपदशरणेन मुक्तिदश् च ॥ ३६ ॥
समूहहन्त्री परमार्थदात्री ।
सदैव सर्वत्र विशेषतस् तु ।
यत्राम्बुराशिं समनुप्रविष्टा ॥ ३७ ॥
स्नात्वा तु तस्मिन् सुकृती शरीरी ।
गोदावरीवारिधिसङ्गमे यः ।
उद्धृत्य तीव्रान् निरयाद् अशेषात् ।
स पूर्वजान् याति पुरं पुरारेः ॥ ३८ ॥
वेदान्तवेद्यं यद् उपासितव्यं ।
तद् ब्रह्म साक्षात् खलु भीमनाथः ।
दृष्टे हि तस्मिन् न पुनर् विशन्ति ।
शरीरिणः संस्मृतिम् उग्रदुःखाम् ॥ ३९ ॥