Summary (SA)
Chapter 172- Confluence of the Gautamī with the ocean
{{Ref- SS 275}}
ब्रह्मोवाच-
सामुद्रं तीर्थम् आख्यातं सर्वतीर्थफलप्रदम् ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १ ॥
विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी ।
लोकानाम् उपकारार्थं प्रायात् पूर्वार्णवं प्रति ॥ २ ॥
आगच्छन्ती देवनदी कमण्डलुधृता मया ।
शिरसा च धृता देवी शम्भुना परमात्मना ॥ ३ ॥
विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना ।
आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम् ॥ ४ ॥
गुरोर् गुरुतमां सिन्धुर् दृष्ट्वा कृत्यम् अचिन्तयत् ।
या वन्द्या जगताम् ईशा ब्रह्मेशाद्यैर् नमस्कृता ॥ ५ ॥
ताम् अहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् ।
आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते ॥ ६ ॥
न तस्य कोपि त्रातास्ति पापिनो लोकयोर् द्वयोः ।
एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः ।
कृताञ्जलिपुटो गङ्गाम् आहेदं सरिताम्पतिः ॥ ७ ॥
सिन्धुर् उवाच-
रसातलगतं वारि पृथिव्यां यन् नभस्तले ।
तन् माम् एवात्र विशतु नाहं वक्ष्यामि किञ्चन ॥ ८ ॥
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः ।
एतान् अप्य् अखिलान् अन्यान् भीमान् सन्धारयाम्य् अहम् ॥ ९ ॥
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ।
ममाशक्यं न किमपि विद्यते सचराचरे ॥ १० ॥
महत्य् अभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् ।
स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ ११ ॥
न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् ।
किं तु त्वं गौरवेणैषाम् अतिरिक्ता ततस् त्व् अहम् ॥ १२ ॥
ब्रवीमि देवि गङ्गे मां त्वं साम्यात् सङ्गता भव ।
नैकरूपाम् अहं शक्तः सङ्गन्तुं बहुधा यदि ॥ १३ ॥
सङ्गम् एष्यसि देवि त्वं सङ्गच्छे ऽहं न चान्यथा ।
गङ्गे समेष्यसि यदि बहुधा तद् विचारये ॥ १४ ॥
ब्रह्मोवाच-
तम् एवंवादिनं सिन्धुम् अपाम् ईशं तदाब्रवीत् ।
गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम ॥ १५ ॥
सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः ।
भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्व् अहम् ॥ १६ ॥
अल्पभूता भविष्यामि ततः स्यां तव सङ्गता ।
तथेत्य् उक्त्वा सप्तर्षीणां भार्याभिर् ऋषिभिर् वृतः ॥ १७ ॥
आनयाम् आस तां देवी सप्तधा सा व्यभज्यत ।
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ १८ ॥
सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास् ततो ऽभवन् ।
तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ १९ ॥
स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् ।
नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये ।
पापहानौ भुक्तिमुक्तिप्राप्तौ च मनसो मुदे ॥ २० ॥