171

Summary (SA)

Chapter 171- The game of dice between Indra and Pramati

{{Ref- SS 273-275}}

ब्रह्मोवाच-

उर्वशीतीर्थम् आख्यातम् अश्वमेधफलप्रदम् ।
स्नानदानमहादेववासुदेवार्चनादिभिः ॥ १ ॥

महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः ।
प्रमतिर् नाम राजासीत् सार्वभौमः प्रतापवान् ॥ २ ॥

रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर् वृतम् ।
तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद ॥ ३ ॥

जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः ।
तं हसन्तम् अथालक्ष्य हरिः प्रमतिम् अब्रवीत् ॥ ४ ॥

इन्द्र उवाच-

देवालये महाबुद्धे मरुद्भिः क्रीडितैर् अलम् ।
दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ ५ ॥

ब्रह्मोवाच-

सकषायं हरिवचो निशम्य प्रमतिर् नृपः ।
तथेत्य् उवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे ।
तच् छ्रुत्वा प्रमतेर् वाक्यं सुरराण् नृपम् अब्रवीत् ॥ ६ ॥

इन्द्र उवाच-

उर्वश्य् एव पणो ऽस्माकं प्राप्या या निखिलैर् मखैः ॥ ७ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः ।
उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे ॥ ८ ॥

यद् ब्रवीषि सुरेशान तन् मन्ये ऽहं शतक्रतो ।
प्राहेन्द्रं प्रमतिस् तद्वन् निष्कृत्यै दक्षिणं करम् ।
सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ ९ ॥

ब्रह्मोवाच-

ताव् एवं संविदं कृत्वा देवनायोपतस्थतुः ।
प्रमतिर् जितवांस् तत्र उर्वशीं दैवतस्त्रियम् ।
तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम् ॥ १० ॥

प्रमतिर् उवाच-

निष्कृत्यै पुनर् अन्यन् मे पश्चाद् दीव्ये त्वया विभो ॥ ११ ॥

इन्द्र उवाच-

देवयोग्यम् अथो वज्रं जैत्रं सरथम् उत्तमम् ।
दीव्ये ऽहं तेन नृपते करेणाप्य् अविचारयन् ॥ १२ ॥

ब्रह्मोवाच-

स गृहीत्वा तदा पाशान् अन्यांश् च मणिभूषितान् ।
जितम् इत्य् अब्रवीच् छक्रं प्रमतिः प्रहसंस् तदा ॥ १३ ॥

एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस् तत्र नारद ।
विश्वावसुर् इति ख्यातो गन्धर्वाणां महेश्वरः ॥ १४ ॥

विश्वावसुर् उवाच-

गन्धर्वविद्यया राजंस् तया दीव्यामहे त्वया ।
तथेत्य् उक्त्वा स नृपतिर् जितम् इत्य् अब्रवीत् तदा ॥ १५ ॥

तौ जित्वा नृपतिर् मौर्ख्याद् देवेन्द्रं प्राह कश्मलम् ॥ १६ ॥

प्रमतिर् उवाच-

रणे वा देवने वापि न त्वं जेता कथञ्चन ।
महेन्द्र सततं तस्माद् अस्मदाराधको भव ।
वद केन प्रकारेण जाता देवेन्द्रता तव ॥ १७ ॥

ब्रह्मोवाच-

तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव ।
उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि ।
वर्तेय सर्वभावेन न मां धिक्कर्तुम् अर्हसि ॥ १८ ॥

ब्रह्मोवाच-

ततस् तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः ।
त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ १९ ॥

एतच् छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस् तदा ।
चित्रसेन इति ख्यातः सुतो विश्वावसोर् बली ॥ २० ॥

चित्रसेन उवाच-

दीव्ये ऽहं वै त्वया राजन् सर्वेणानेन भूपते ।
राज्येन जीवितेनापि मदीयेन तवापि च ॥ २१ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा पुनर् उभौ चित्रसेननृपोत्तमौ ।
दीव्येताम् अभिसंरब्धौ चित्रसेनो ऽजयत् तदा ॥ २२ ॥

गान्धर्वैस् तं महापाशैर् बबन्ध नृपतिं तदा ।
चित्रसेनो ऽजयत् सर्वम् उर्वशीमुख्यतः पणैः ॥ २३ ॥

राज्यं कोशं बलं चैव यद् अन्यद् वसु किञ्चन ।
चित्रसेनस्य तज् जातं यद् आसीत् प्रमतेर् धनम् ॥ २४ ॥

तस्य पुत्रो बाल एव पुरोधसम् उवाच ह ।
वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसम् ओजसा ॥ २५ ॥

प्रमतिपुत्र उवाच-

किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः ।
कथम् एष्यति स्वं स्थानं कथं पाशैर् विमोक्ष्यते ॥ २६ ॥

ब्रह्मोवाच-

सुमतेर् वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः ।
मधुच्छन्दा जगादेदं प्रमतेर् वर्तनं तदा ॥ २७ ॥

मधुच्छन्दा उवाच-

देवलोके तव पिता बद्ध आस्ते महामते ।
कैतवैर् बहुदोषैश् च भ्रष्टराज्यो बभूव ह ॥ २८ ॥

यो याति कैतवसभां स चापि क्लेशभाग् भवेत् ।
द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ २९ ॥

पापिनाम् एव जायन्ते सदा पापात्मकानि हि ।
एकैकम् अप्य् अनर्थाय पापाय नरकाय च ॥ ३० ॥

यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः ।
कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥ ३१ ॥

कितवस्य तु या जाया तप्यते नित्यम् एव सा ।
स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥ ३२ ॥

तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् ।
अहो संसारचक्रे ऽस्मिन् मया तुल्यो न पातकी ॥ ३३ ॥

न किञ्चिद् अपि यस्यास्ते लोके विषयजं सुखम् ।
लोकद्वये ऽपि न सुखी कितवः कोपि दृश्यते ॥ ३४ ॥

विभाति च तथा नित्यं लज्जया दग्धमानसः ।
गतधर्मो निरानन्दो ग्रस्तगर्वस् तथाटति ॥ ३५ ॥

अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् ।
कृषिगोरक्ष्यवाणिज्यम् अपि कुर्यान् न कैतवम् ॥ ३६ ॥

यस् तु कैतववृत्त्या हि धनम् आहर्तुम् इच्छति ।
धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥ ३७ ॥

वेदे ऽपि दूषितं कर्म तव पित्रा तदादृतम् ।
तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते ॥ ३८ ॥

विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥ ३९ ॥

ब्रह्मोवाच-

एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिर् अब्रवीत् ॥ ४० ॥

सुमतिर् उवाच-

किं कृत्वा प्रमतिस् तातः पुना राज्यम् अवाप्नुयात् ॥ ४१ ॥

ब्रह्मोवाच-

पुनर् ध्यात्वा मधुच्छन्दाः सुमतिं चेदम् अब्रवीत् ॥ ४२ ॥

मधुच्छन्दा उवाच-

गौतमीं याहि वत्स त्वं तत्र पूजय शङ्करम् ।
अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते ॥ ४३ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् ।
पूजयाम् आस शम्भुं च तपस् तेपे यतव्रतः ॥ ४४ ॥

सहस्रम् एकं वर्षाणां बद्धं पितरम् आत्मनः ।
मोचयाम् आस देवेभ्यः पुना राज्यम् अवाप सः ॥ ४५ ॥

शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात् ।
अवाप्य विद्यां गान्धर्वीं प्रियश् चासीच् छतक्रतोः ॥ ४६ ॥

शाम्भवं वैष्णवं चैव उर्वशीतीर्थम् एव च ।
ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम् ॥ ४७ ॥

शिवविष्णुसरिन्मातुप्रसादाद् आप्यते न किम् ।
तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् ।
पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥ ४८ ॥