170

Summary (SA)

Chapter 170- The good merchant and the treacherous Brahmin

{{Ref- SS 270-273}}

ब्रह्मोवाच-

चक्षुस्तीर्थम् इति ख्यातं रूपसौभाग्यदायकम् ।
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १ ॥

पुरं भौवनम् आख्यातं गिरिमूर्ध्न्य् अभिधीयते ।
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ २ ॥

तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः ।
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ ३ ॥

तस्य मातुर् मनोदोषाद् विपरीतो ऽभवद् द्विजः ।
सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते ॥ ४ ॥

तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः ।
श्रीमद्दरिद्रयोर् नित्यं परस्परहितैषिणोः ॥ ५ ॥

कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् ।
प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ ६ ॥

गौतम उवाच-

गच्छामो धनम् आदातुं पर्वतान् उदधीन् अपि ।
यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः ।
धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम् ॥ ७ ॥

ब्रह्मोवाच-

कुण्डलो द्विजम् आहेदं मत्पित्रोपार्जितं धनम् ।
बह्व् अस्ति किं धनेनाद्य करिष्ये द्विजसत्तम ।
द्विजः पुनर् उवाचेदं मणिकुण्डलम् ओजसा ॥ ८ ॥

गौतम उवाच-

धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते ।
उत्कर्षप्राप्तिर् एवैषां सखे श्लाघ्या शरीरिणाम् ॥ ९ ॥

स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः ।
परदत्तार्थसन्तुष्टाः कष्टजीविन एव ते ॥ १० ॥

स पुत्रः शस्यते लोके पितृभिश् चाभिनन्द्यते ।
यः पैत्र्यम् अभिलिप्सेत न वाचापि तु कुण्डल ॥ ११ ॥

स्वबाहुबलम् आश्रित्य यो ऽर्थान् अर्जयते सुतः ।
स कृतार्थो भवेल् लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ १२ ॥

स्वयम् आर्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे ।
तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः ॥ १३ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः ।
तथेति मत्वा तद्वाक्यं रत्नान्य् आदाय सत्वरः ॥ १४ ॥

आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
धनेनैतेन देशांश् च परिभ्रम्य यथासुखम् ॥ १५ ॥

धनान्य् आदाय वित्तानि पुनर् एष्यामहे गृहम् ।
सत्यम् एव वणिग् वक्ति स तु विप्रः प्रतारकः ॥ १६ ॥

पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् ।
तौ परस्परम् आमन्त्र्य मातापित्रोर् अजानतोः ॥ १७ ॥

देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ ।
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुम् इच्छति ॥ १८ ॥

ब्राह्मण उवाच-

येन केनाप्य् उपायेन तद् धनं हि समाहरे ।
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ १९ ॥

इष्टप्रदात्र्यः कामस्य देवता इव योषितः ।
मनोहरास् तत्र तत्र सन्ति किं क्रियते मया ॥ २० ॥

धनम् आहृत्य यत्नेन योषिद्भ्यो यदि दीयते ।
भुज्यन्ते तास् ततो नित्यं सफलं जीवितं हि तत् ॥ २१ ॥

नृत्यगीतरतो नित्यं पण्यस्त्रीभिर् अलङ्कृतः ।
भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तम् आगतम् ॥ २२ ॥

ब्रह्मोवाच-

एवं चिन्तयमानो ऽसौ गौतमः प्रहसन्न् इव ।
मणिकुण्डलम् आहेदम् अधर्माद् एव जन्तवः ॥ २३ ॥

वृद्धिं सुखम् अभीष्टानि प्राप्नुवन्ति न संशयः ।
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ २४ ॥

तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना ॥ २५ ॥

ब्रह्मोवाच-

नेत्य् उवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् ।
पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च ।
यतो धर्मस् ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ २६ ॥

ब्रह्मोवाच-

एवं विवदतोस् तत्र सम्परायस् तयोर् अभूत् ।
यस्य पक्षो भवेज् ज्यायान् स परार्थम् अवाप्नुयात् ॥ २७ ॥

पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्य् अधर्मिणः ।
वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत् ॥ २८ ॥

एवं विवदमानौ ताव् ऊचतुः सकलाञ् जनान् ।
धर्मस्य वाप्य् अधर्मस्य प्राबल्यम् अनयोर् भुवि ॥ २९ ॥

तद् वदन्तु यथावृत्तम् एवम् ऊचतुर् ओजसा ।
एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः ॥ ३० ॥

तैर् दुःखम् अनुभूयते पापिष्ठाः सुखिनो जनाः ।
सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥ ३१ ॥

मणिमान् धर्मविच्छ्रेष्ठः पुनर् धर्मं प्रशंसति ।
मणिमन्तं द्विजः प्राह किं धर्मम् अनुशंससि ।

ब्रह्मोवाच-

तथेति चेत्य् आह वैश्यो ब्राह्मणः पुनर् अब्रवीत् ॥ ३२ ॥

ब्राह्मण उवाच-

जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे ।
मयैव विजितो धर्मो यथेष्टचरणात्मना ॥ ३३ ॥

ब्रह्मोवाच-

तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥ ३४ ॥

वैश्य उवाच-

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।
तथैव तान् सखे मन्ये येषां धर्मो न विद्यते ॥ ३५ ॥

चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते ।
पश्चाद् अर्थश् च कामश् च स धर्मो मयि तिष्ठति ।
कथं ब्रूषे द्विजश्रेष्ठ मया विजितम् इत्य् अदः ॥ ३६ ॥

ब्रह्मोवाच-

द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः ।
तथेति मन्यते वैश्यस् तौ गत्वा पुनर् ऊचतुः ॥ ३७ ॥

पूर्ववल् लौकिकान् गत्वा जितम् इत्य् अब्रवीद् द्विजः ।
करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे ।
आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनम् अब्रवीत् ॥ ३८ ॥

वैश्य उवाच-

धर्मम् एव परं मन्ये प्राणैः कण्ठगतैर् अपि ।
माता पिता सुहृद् बन्धुर् धर्म एव शरीरिणाम् ॥ ३९ ॥

ब्रह्मोवाच-

एवं विवदमानौ ताव् अर्थवान् ब्राह्मणो ऽभवत् ।
विमुक्तो वैश्यकस् तत्र बाहुभ्यां च धनेन च ॥ ४० ॥

एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् ।
यदृच्छया मुनिश्रेष्ठ मिथस् ताव् ऊचतुः पुनः ॥ ४१ ॥

वैश्यो गङ्गां तु योगेशं धर्मम् एव प्रशंसति ।
अतिकोपाद् द्विजो वैश्यम् आक्षिपन् पुनर् अब्रवीत् ॥ ४२ ॥

ब्राह्मण उवाच-

गतं धनं करौ छिन्नाव् अवशिष्टो ऽसुभिर् भवान् ।
त्वम् अन्यथा यदि ब्रूष आहरिष्ये ऽसिना शिरः ॥ ४३ ॥

ब्रह्मोवाच-

विहस्य पुनर् आहेदं वैश्यो गौतमम् अञ्जसा ॥ ४४ ॥

वैश्य उवाच-

धर्मम् एव परं मन्ये यथेच्छसि तथा कुरु ।
ब्राह्मणांश् च गुरून् देवान् वेदान् धर्मं जनार्दनम् ॥ ४५ ॥

यस् तु निन्दयते पापो नासौ स्पृश्यो ऽथ पापकृत् ।
उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥ ४६ ॥

ब्रह्मोवाच-

ततः प्राह स कोपेन धर्मं यद्य् अनुशंससि ।
आवयोः प्राणयोर् अत्र पणः स्याद् इति वै मुने ॥ ४७ ॥

एवम् उक्ते गौतमेन तथेत्य् आह वणिक् तदा ।
पुनर् अप्य् ऊचतुर् उभौ लोकांल् लोकास् तथोचिरे ॥ ४८ ॥

योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे ।
तं निपात्य विशं विप्रश् चक्षुर् उत्पाट्य चाब्रवीत् ॥ ४९ ॥

विप्र उवाच-

गतो ऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया ।
गतं धनं गतं चक्षुश् छेदितौ करपल्लवौ ।
पृष्टो ऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥ ५० ॥

ब्रह्मोवाच-

तस्मिन् प्रयाते वैश्यो ऽसौ चिन्तयाम् आस चेतसि ।
हा कष्टं मे किम् अभवद् धर्मैकमनसो हरे ॥ ५१ ॥

स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतबाहुकः ।
गतनेत्रः शुचं प्राप्तो धर्मम् एवानुसंस्मरन् ॥ ५२ ॥

एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले ।
निश्चेष्टो ऽथ निरुत्साहः पतितः शोकसागरे ॥ ५३ ॥

दिनावसाने शर्वर्याम् उदिते चन्द्रमण्डले ।
एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥ ५४ ॥

स तु योगेश्वरं देवं पूजयित्वा यथाविधि ।
स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर् वृतः ॥ ५५ ॥

विभीषणस्य हि सुतो विभीषण इवापरः ।
वैभीषणिर् इति ख्यातस् तम् अपश्यद् उवाच ह ॥ ५६ ॥

वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् ।
पित्रे निवेदयाम् आस लङ्केशाय महात्मने ।
स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥ ५७ ॥

विभीषण उवाच-

श्रीमान् रामो मम गुरुस् तस्य मान्यः सखा मम ।
हनुमान् इति विख्यातस् तेनानीतो गिरिर् महान् ॥ ५८ ॥

पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयो ऽचलः ।
जाते कार्ये तम् आदाय हिमवन्तम् अथागमत् ॥ ५९ ॥

विशल्यकरणी चेति मृतसञ्जीवनीति च ।
तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥ ६० ॥

निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः ।
पुनर् गिरिं समादाय आगच्छद् देवपर्वतम् ॥ ६१ ॥

ताम् आनीयास्य हृदये निवेशय हरिं स्मरन् ।
ततः प्राप्स्यत्य् अयं सर्वम् अपेक्षितम् उदारधीः ॥ ६२ ॥

गच्छतस् तस्य वेगेन विशल्यकरणी पुनः ।
अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः ॥ ६३ ॥

वैभीषणिर् उवाच-

ताम् ओषधीं मम पितर् दर्शयाशु विलम्ब मा ।
परार्तिशमनाद् अन्यच् छ्रेयो न भुवनत्रये ॥ ६४ ॥

ब्रह्मोवाच-

विभीषणस् तथेत्य् उक्त्वा तां पुत्रस्याप्य् अदर्शयत् ।
इषे त्वेत्य् अस्य वृक्षस्य शाखां चिच्छेद तत्सुतः ।
वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥ ६५ ॥

विभीषण उवाच-

यत्रापतन् नगे चास्मिन् स वृक्षस् तु प्रतापवान् ।
तस्य शाखां समादाय हृदये ऽस्य निवेशय ।
तत्स्पृष्टमात्र एवासौ स्वकं रूपम् अवाप्नुयात् ॥ ६६ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा पितुर् वाक्यं वैभीषणिर् उदारधीः ।
तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत् ॥ ६७ ॥

हृदये स तु वैश्यो ऽपि सचक्षुः सकरो ऽभवत् ।
मणिमन्त्रौषधीनां हि वीर्यं को ऽपि न बुध्यते ॥ ६८ ॥

तद् एव काष्ठम् आदाय धर्मम् एवानुसंस्मरन् ।
स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥ ६९ ॥

नमस्कृत्वा पुनर् अगात् काष्ठखण्डेन वैश्यकः ।
परिभ्रमन् नृपपुरं महापुरम् इति श्रुतम् ॥ ७० ॥

महाराज इति ख्यातस् तत्र राजा महाबलः ।
तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना ॥ ७१ ॥

सैव तस्य सुता पुत्रस् तस्यापि व्रतम् ईदृशम् ।
देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥ ७२ ॥

वैश्यो वा शूद्रयोनिर् वा सगुणो निर्गुणो ऽपि वा ।
तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥ ७३ ॥

राज्येन सह देयेयम् इति राजा ह्य् अघोषयत् ।
अहर्निशम् असौ वैश्यः श्रुत्वा घोषम् अथाब्रवीत् ॥ ७४ ॥

वैश्य उवाच-

अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥ ७५ ॥

ब्रह्मोवाच-

तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् ।
तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा ॥ ७६ ॥

ततः सविस्मयो राजा को भवान् इति चाब्रवीत् ।
वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः ॥ ७७ ॥

वैश्य उवाच-

ब्राह्मणानां प्रसादेन धर्मस्य तपसस् तथा ।
दानप्रभावाद् यज्ञैश् च विविधैर् भूरिदक्षिणैः ।
दिव्यौषधिप्रभावेन मम सामर्थ्यम् ईदृशम् ॥ ७८ ॥

ब्रह्मोवाच-

एतद् वैश्यवचः श्रुत्वा विस्मितो ऽभून् महीपतिः ॥ ७९ ॥

राजोवाच-

अहो महानुभावो ऽयं प्रायो वृन्दारको भवेत् ।
अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् ।
तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥ ८० ॥

ब्रह्मोवाच-

इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान् ।
विहारार्थं गतः स्वैरं परं खेदम् उपागतः ॥ ८१ ॥

न मित्रेण विना राज्यं न मित्रेण विना सुखम् ।
तम् एव सततं विप्रं चिन्तयन् वैश्यनन्दनः ॥ ८२ ॥

एतद् एव सुजातानां लक्षणं भुवि देहिनाम् ।
कृपार्द्रं यन् मनो नित्यं तेषाम् अप्य् अहितेषु हि ॥ ८३ ॥

महानृपो वनं प्रायात् स राजा मणिकुण्डलः ।
तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम् ॥ ८४ ॥

हृतस्वं द्यूतकैः पापैर् अपश्यन् मणिकुण्डलः ।
तम् आदाय द्विजं मित्रं पूजयाम् आस धर्मवित् ॥ ८५ ॥

धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् ।
स्नापयाम् आस गङ्गायां तं सर्वाघनिवृत्तये ॥ ८६ ॥

तेन विप्रेण सर्वैस् तैः स्वकीयैर् गोत्रजैर् वृतः ।
वैश्यैः स्वदेशसम्भूतैर् ब्राह्मणस्य तु बान्धवैः ॥ ८७ ॥

वृद्धकौशिकमुख्यैश् च तस्मिन् योगेश्वरान्तिके ।
यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गम् उपेयिवान् ॥ ८८ ॥

ततः प्रभृति तत् तीर्थं मृतसञ्जीवनं विदुः ।
चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् ।
मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥ ८९ ॥