Summary (SA)
Chapter 169- The hunter and the Brahmin as devotees of Śiva
{{Ref- SS 269-270}}
ब्रह्मोवाच-
भिल्लतीर्थम् इति ख्यातं रोगघ्नं पापनाशनम् ।
महादेवपदाम्भोजयुगभक्तिप्रदायकम् ॥ १ ॥
तत्राप्य् एवंविधां पुण्यां कथां शृणु महामते ।
गङ्गाया दक्षिणे तीरे श्रीगिरेर् उत्तरे तटे ॥ २ ॥
आदिकेश इति ख्यात ऋषिभिः परिपूजितः ।
महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ ३ ॥
सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः ।
तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ ४ ॥
तम् आदिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् ।
नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ ॥ ५ ॥
भिक्षाटनाय वेदो ऽपि याति ग्रामं विचक्षणः ।
याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः ॥ ६ ॥
तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः ।
अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम् ॥ ७ ॥
मुखे गृहीत्वा पानीयम् अभिषेकाय शूलिनः ।
न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ ८ ॥
आदिकेशं समागत्य न्यस्य मांसं ततो बहिः ।
गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ ९ ॥
यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः ।
अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ १० ॥
आदिकेशं समागत्य वेदेनार्चितम् ओजसा ।
पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ ११ ॥
स्नापयित्वा शिवं देवम् अर्चयित्वा तु पत्त्रकैः ।
कल्पयित्वा तु तन् मांसं शिवो मे प्रीयताम् इति ॥ १२ ॥
नैव किञ्चित् स जानाति शिवभक्तिं विना शुभाम् ।
ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ १३ ॥
करोत्य् एतादृग् आगत्य आगत्य प्रत्यहम् एव सः ।
तथापीशस् तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ १४ ॥
यावन् नायात्य् असौ भिल्लः शिवस् तावन् न सौख्यभाक् ।
भक्तानुकम्पितां शम्भोर् मानातीतां तु वेत्ति कः ॥ १५ ॥
सम्पूजयत्य् आदिकेशम् उमया प्रत्यहं शिवम् ।
एवं बहुतिथे काले याते वेदश् चुकोप ह ॥ १६ ॥
पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् ।
को नु विध्वंसते पापो मत्तः स वधम् आप्नुयात् ॥ १७ ॥
गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेर् अपि ।
सर्वस्यापि वधार्हो ऽसौ शिवस्य द्रोहकृन् नरः ॥ १८ ॥
एवं निश्चित्य मेधावी वेदः सिन्धोस् तथानुजः ।
कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः ॥ १९ ॥
पुष्पैर् वन्यभवैर् दिव्यैः कन्दैर् मूलफलैः शुभैः ।
कृतां पूजां स विध्वस्य ह्य् अन्यां पूजां करोति यः ॥ २० ॥
मांसेन तरुपत्त्रैश् च स च वध्यो भवेन् मम ।
एवं सञ्चिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ २१ ॥
तं पश्येयम् अहं पापं पूजाकर्तारम् ईश्वरे ।
एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा ॥ २२ ॥
नित्यवत् पूजयन्तं तम् आदिकेशस् तदाब्रवीत् ॥ २३ ॥
आदिकेश उवाच-
भो भो व्याध महाबुद्धे श्रान्तो ऽसीति पुनः पुनः ।
चिराय कथम् आयातस् त्वां विना तात दुःखितः ।
न विन्दामि सुखं किञ्चित् समाश्वसिहि पुत्रक ॥ २४ ॥
ब्रह्मोवाच-
तम् एवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु ।
चुकोप विस्मयाविष्टो न च किञ्चिद् उवाच ह ॥ २५ ॥
व्याधश् च नित्यवत् पूजां कृत्वा स्वभवनं ययौ ।
वेदश् च कुपितो भूत्वा आगत्येशम् उवाच ह ॥ २६ ॥
वेद उवाच-
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः ।
प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ २७ ॥
हीनजातिर् अकिञ्चिज्ज्ञो गुरुक्रमविवर्जितः ।
सदानुचितकारी चानिर्जिताखिलगोगणः ॥ २८ ॥
तस्यात्मानं दर्शितवान् न मां किञ्चन वक्ष्यसि ।
पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ २९ ॥
त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः ।
व्याधो मांसेन दुष्टेन पूजां तव करोत्य् असौ ॥ ३० ॥
तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम् ।
शास्तिम् अस्य करिष्यामि भिल्लस्य ह्य् अपकारिणः ॥ ३१ ॥
मृदोः कोपि भवेत् प्रीतः कोपि तद्वद् दुरात्मनः ।
तस्माद् अहं मूर्ध्नि शिलां पातयेयम् असंशयम् ॥ ३२ ॥
ब्रह्मोवाच-
इत्य् उक्तवति वै वेदे विहस्येशो ऽब्रवीद् इदम् ॥ ३३ ॥
आदिकेश उवाच-
श्वः प्रतीक्षस्व पश्चान् मे शिलां पातय मूर्धनि ॥ ३४ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा स वेदो ऽपि शिलां सन्त्यज्य बाहुना ।
उपसंहृत्य तं कोपं श्वः करोमीत्य् उवाच ह ॥ ३५ ॥
ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च ।
वेदो ऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके ॥ ३६ ॥
लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् ।
वेदः स विस्मितो भूत्वा किम् इदं लिङ्गमूर्धनि ॥ ३७ ॥
महोत्पातो भवेत् कस्य सूचयेद् इत्य् अचिन्तयत् ।
मृद्भिश् च गोमयेनापि कुशैस् तं गाङ्गवारिभिः ॥ ३८ ॥
प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा ।
एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः ॥ ३९ ॥
मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके ।
शङ्करस्यादिकेशस्य ददृशे ऽन्तर्गतस् तदा ॥ ४० ॥
दृष्ट्वैव किम् इदं चित्रम् इत्य् उक्त्वा निशितैः शरैः ।
आत्मानं भेदयाम् आस शतधा च सहस्रधा ॥ ४१ ॥
स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः ।
मुहुर् निनिन्द चात्मानं मयि जीवत्य् अभूद् इदम् ॥ ४२ ॥
कष्टम् आपतितं कीदृग् अहो दुर्विधिवैशसात् ।
तत् कर्म तस्य संवीक्ष्य महादेवो ऽतिविस्मितः ।
ततः प्रोवाच भगवान् वेदं वेदविदां वरम् ॥ ४३ ॥
आदिकेश उवाच-
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् ।
त्वं तु मृद्भिः कुशैर् वार्भिर् मूर्धानं स्पृष्टवान् असि ॥ ४४ ॥
अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः ।
भक्तिः प्रेमाथवा शक्तिर् विचारो यत्र विद्यते ।
तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम ॥ ४५ ॥
ब्रह्मोवाच-
वरेण च्छन्दयाम् आस व्याधं देवो महेश्वरः ।
व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत् ॥ ४६ ॥
तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थम् उच्यताम् ।
सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम् ॥ ४७ ॥
ब्रह्मोवाच-
तथेत्य् उवाच देवेशस् ततस् तत् तीर्थम् उत्तमम् ।
भिल्लतीर्थं समस्ताघसङ्घविच्छेदकारणम् ॥ ४८ ॥
श्रीमहादेवचरणमहाभक्तिविधायकम् ।
अभवत् स्नानदानाद्यैर् भुक्तिमुक्तिप्रदायकम् ।
वेदस्यापि वरान् प्रादाच् छिवो नानाविधान् बहून् ॥ ४९ ॥