Summary (SA)
Chapter 168- The performance of King Abhiṣṭut’s horse-sacrifice
{{Ref- SS 267-269}}
ब्रह्मोवाच-
भानुतीर्थम् इति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ।
ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १ ॥
अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः ।
हयमेधेन पुण्येन यष्टुम् आरब्धवान् सुरान् ॥ २ ॥
तत्रर्त्विजः षोडश स्युर् वसिष्ठात्रिपुरोगमाः ।
क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ ३ ॥
ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् ।
भूपतौ दीक्षिते दाता को भवेत् को नु याचते ॥ ४ ॥
याच्ञेयम् अखिलाशर्मजननी पापरूपिणी ।
केनाप्य् अतो न कार्यैव क्षत्रियेण विशेषतः ॥ ५ ॥
एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् ।
तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ ६ ॥
वसिष्ठ उवाच-
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति ।
देहि मे देव सवितर् यजनं देवतोचितम् ॥ ७ ॥
दैवं क्षत्रम् असि ब्रह्मन् भूतनाथ नमो ऽस्तु ते ।
याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ ८ ॥
ददात्य् एव ततो राजन् प्रार्थयेशं दिवाकरम् ॥ ९ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वाभिष्टुतो ऽपि देवदेवं दिवाकरम् ।
श्रद्धया प्रार्थयाम् आस हरीशाजात्मकं रविम् ॥ १० ॥
राजोवाच-
देवानां यजनं देहि सवितस् ते नमो ऽस्तु ते ॥ ११ ॥
ब्रह्मोवाच-
क्षत्रं दैवं यतः सूर्यो दत्ता भूर् भूपतेस् ततः ।
सविता देवदेवेशो ददामीत्य् अभ्यभाषत ॥ १२ ॥
एवं करोति यो यज्ञं तस्य रिष्टिर् न काचन ।
तथा वाजिमखे सत्त्रे ब्राह्मणैर् वेदपारगैः ॥ १३ ॥
प्रारब्धे ऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः ।
देवानां यजनं दातुं भानुतीर्थं तद् उच्यते ॥ १४ ॥
तं देवक्रतुम् उत्कृष्टं हयमेधं सुरैर् युतम् ।
दैत्याश् च दनुजाश् चैव तथान्ये यज्ञघातकाः ॥ १५ ॥
ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव ।
ते ऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः ॥ १६ ॥
चमसानि च पात्राणि सोमं चषालम् एव च ।
सोमपानं हविस् त्यागम् ऋत्विजो भूपतिं तथा ॥ १७ ॥
निन्दन्ति निक्षिपन्त्य् अन्ये हसन्त्य् अन्ये तथासुराः ।
तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ १८ ॥
विश्वरूपो ऽपि पितरं प्राह दैत्या इमे इति ।
तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम् ॥ १९ ॥
त्वष्टोवाच-
गृहीत्वा वारिदर्भांश् च प्रोक्षयध्वं समन्ततः ।
ये निन्दन्ति मखं पुण्यं चमसं सोमम् एव च ॥ २० ॥
मया त्व् अपहताः सर्व इत्य् उक्त्वा परिषिञ्चत ॥ २१ ॥
ब्रह्मोवाच-
तथा चक्रुः सुरगणास् त्वष्टा चापि तथाकरोत् ।
भस्मीभूतास् ततः सर्वे कान्दिशीकास् ततो ऽभवन् ॥ २२ ॥
हता मया महापापा इत्य् उक्त्वा वार्य् अवाक्षिपत् ।
ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास् ततः ॥ २३ ॥
यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः ।
त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम् ॥ २४ ॥
त्वष्टुर् वाक्याच् च्युतान् दैत्यान् निजघान यमस् तदा ।
कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ २५ ॥
यत्र ते निहता दैत्यास् तत् तीर्थं याम्यम् उच्यते ।
यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ २६ ॥
धाराभिः शरमानाभिर् अखण्डाभिर् महाध्वरे ।
यत्राभवद् धव्यवाहस् तृप्तस् तस्य ह्य् अभिष्टुतः ॥ २७ ॥
अग्नितीर्थं तद् आख्यातम् अश्वमेधफलप्रदम् ।
इन्द्रो मरुद्भिर् नृपतिं प्राहेदं वचनं शुभम् ॥ २८ ॥
त्वं संराड् भविता राजन्न् उभयोर् अपि लोकयोः ।
सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ २९ ॥
स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् ।
कुर्यात् पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ ३० ॥
माहेश्वरं तु तत् तीर्थं पूजितो ऽभिष्टुतः शिवः ।
भक्तियुक्तेन विप्रैश् च सर्वकर्मविशारदैः ॥ ३१ ॥
वैदिकैर् लौकिकैश् चैव मन्त्रैः पूज्यं महेश्वरम् ।
नृत्यैर् गीतैस् तथा वाद्यैर् अमृतैः पञ्चसम्भवैः ॥ ३२ ॥
उपचारैश् च बहुभिर् दण्डपातप्रदक्षिणैः ।
धूपैर् दीपैश् च नैवेद्यैः पुष्पैर् गन्धैः सुगन्धिभिः ॥ ३३ ॥
पूजयाम् आस देवेशं विष्णुं शम्भुं धियैकया ।
ततः प्रसन्नौ देवेशौ वरान् ददतुर् ओजसा ॥ ३४ ॥
अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि ।
माहात्म्यम् अस्य तीर्थस्य तथा ददतुर् उत्तमम् ॥ ३५ ॥
ततःप्रभृति तत् तीर्थं शैवं वैष्णवम् उच्यते ।
तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥ ३६ ॥
इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा ।
विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥ ३७ ॥
भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् ।
तत्र तीर्थे महापुण्यं तीर्थानां शतम् अत्र हि ॥ ३८ ॥