Summary (SA)
Chapter 167- The young Brahmin and the Rākṣasī
{{Ref- SS 266-267}}
ब्रह्मोवाच-
विप्रतीर्थम् इति ख्यातं तथा नारायणं विदुः ।
तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम् ॥ १ ॥
अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः ।
तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ २ ॥
तेषां कनीयान् यो भ्राता शान्तो गुणगणैर् वृतः ।
आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ ३ ॥
विवाहाय पिता तस्माऐ आसन्दिवाय यत्नवान् ।
एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ ४ ॥
अविष्णुस्मरणं सौम्यशिरस्कम् असमाहितम् ।
आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ ५ ॥
तम् आदायागमच् छीघ्रं गौतम्या दक्षिणे तटे ।
श्रीगिरेर् उत्तरे पारे बहुब्राह्मणसेवितम् ॥ ६ ॥
नगरं धर्मनिलयं लक्ष्म्या निलयम् एव च ।
तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ ७ ॥
तस्यामितक्षेमसुभिक्षयुक्तं ।
निशावसाने द्विजपुत्रयुक्ता ।
सा राक्षसी तत् पुरम् आससाद ।
मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ ८ ॥
सा कामरूपेण चरत्य् अशेषां ।
महीम् इमां तेन समं द्विजेन ।
गोदावरीदक्षिणतीरभागे ।
वृद्धाकृतिस् तं द्विजम् आह भीमा ॥ ९ ॥
राक्षस्य् उवाच-
एषा तु गङ्गा द्विजमुख्य सन्ध्या ।
उपास्यतां विप्रवरैः समेत्य ।
यथोचितं विप्रवरास् तु काले ।
नोपासते यत्नत एव सन्ध्याम् ॥ १० ॥
नीचास् त एवाभिहिताः सुरेशैर् ।
अन्त्यावसायिप्रवरास् त एते ।
अहं जनित्री तव चेति वाच्यं ।
नो चेद् इदानीं त्वम् उपैषि नाशम् ॥ ११ ॥
मद्वाक्यकर्तासि यदि द्विजेन्द्र ।
सुखं करिष्ये तव यत् प्रियं च ।
पुनश् च देशं निलयं गुरूंश् च ।
सम्प्रापयिष्ये ननु सत्यम् एतत् ॥ १२ ॥
ब्रह्मोवाच-
स प्राह का त्वं द्विजपुङ्गवो ऽपि ।
सोवाच तं राक्षसी कामरूपा ।
विश्वासयन्ती शपथैर् अनेकैस् ।
तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ १३ ॥
कङ्कालिनी नाम जगत्प्रसिद्धा ।
विप्रो ऽपि ताम् आह निवेदितं यत् ।
तद् एव कर्तास्मि न संशयो ऽत्र ।
यत् तत् प्रियं वच्मि करोमि चैव ॥ १४ ॥
ब्रह्मोवाच-
तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी ।
वृद्धा तथापि चार्वङ्गी दिव्यालङ्कारभूषणा ॥ १५ ॥
द्विजम् आदाय सर्वत्र मत्सुतो ऽयं गुणाकरः ।
एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ १६ ॥
तं विप्रं रूपसौभाग्यवयोविद्याविभूषितम् ।
तां च वृद्धां गुणोपेताम् अस्य मातेति मेनिरे ॥ १७ ॥
तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् ।
राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये ॥ १८ ॥
सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्य् अचिन्तयत् ।
स द्विजो ऽपि गुणैर् युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ १९ ॥
द्विज उवाच-
माम् इयं भक्षयेद् एव राक्षसी पापरूपिणी ।
किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा ॥ २० ॥
महत् सङ्कटम् आपन्नं रक्षयिष्यति को ऽत्र माम् ।
भार्या ममेयं कल्याणी गुणरूपवयोयुता ।
एनाम् अप्य् अशुभाकस्माद् भक्षयिष्यति राक्षसी ॥ २१ ॥
ब्रह्मोवाच-
एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी ।
वृद्धाप्य् अतिदुराधर्षा सा गता कुत्रचित् तदा ॥ २२ ॥
प्रश्रयावनता भूत्वा बाला चापि पतिव्रता ।
भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ २३ ॥
भार्योवाच-
कस्मात् ते दुःखम् आपन्नं स्वामिंस् तत्त्वं वदस्व मे ॥ २४ ॥
ब्रह्मोवाच-
शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् ।
किम् अकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ २५ ॥
भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥ २६ ॥
भार्योवाच-
अनात्मनः सर्वतो ऽपि भयम् अस्ति गृहेष्व् अपि ।
कुतो भयं ह्य् आत्मवतां किं पुनर् गौतमीतटे ॥ २७ ॥
वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् ।
अत्र स्नात्वा शुचिर् भूत्वा स्तुहि देवम् अनामयम् ॥ २८ ॥
ब्रह्मोवाच-
एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः ।
तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ २९ ॥
द्विज उवाच-
त्वम् अन्तरात्मा जगतो ऽस्य नाथ ।
त्वम् एव कर्तास्य मुकुन्द हर्ता ।
त्वं पालकः पालयसे न दीनम् ।
अनाथबन्धो नरसिंह कस्मात् ॥ ३० ॥
श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः ।
नारायणो ऽपि तां पापां निजघान स राक्षसीम् ॥ ३१ ॥
सुदर्शनेन चक्रेण सहस्रारेण भास्वता ।
तस्मै प्रादाद् वरान् इष्टान् प्रापयच् च गुरुं प्रभुः ॥ ३२ ॥
ततः प्रभृति तत् तीर्थं विप्रं नारायणं विदुः ।
स्नानदानेन पूजाद्यैर् यत्र सिध्यति वाञ्छितम् ॥ ३३ ॥