166

Summary (SA)

Chapter 166- Story of Sampāti and Jaṭāyu

{{Ref- SS 266}}

ब्रह्मोवाच-

पतत्रितीर्थम् आख्यातं रोगघ्नं पापनाशनम् ।
तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १ ॥

बभूवतुः कश्यपस्य सुताव् अरुणाव् ईश्वरौ ।
सम्पातिश् च जटायुश् च सम्भवेतां तदन्वये ॥ २ ॥

तार्क्ष्यप्रजापतेः पुत्राव् अरुणो गरुडस् तथा ।
तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ ३ ॥

जटायुर् इति विख्यातो ह्य् अपरः सोदरो ऽनुजः ।
अन्योन्यस्पर्धया युक्ताव् उन्मत्तौ स्वबलेन तौ ॥ ४ ॥

सञ्जग्मतुर् दिनकरं नमस्कर्तुं विहायसि ।
यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ ५ ॥

दग्धपक्षाव् उभौ श्रान्तौ पतितौ गिरिमूर्धनि ।
बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ ६ ॥

तावद् दुःखाभिभूतो ऽसाव् अरुणः प्राह भास्करम् ।
तौ दृष्ट्वा त्व् अरुणः सूर्य्।अम् प्राहेदं पतितौ भुवि ।
आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः ॥ ७ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा दिनकरो जीवयाम् आस तौ खगौ ।
गरुडो ऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ ८ ॥

आगत्याश्वासयाम् आस सुखं चक्रे च नारद ।
सर्व एव तदा जग्मुर् गङ्गां तापापनुत्तये ॥ ९ ॥

जटायुश् चारुणश् चैव सम्पातिर् गरुडस् तथा ।
सूर्यो विष्णुस् तत् प्रययौ तत् तीर्थं बहुपुण्यदम् ॥ १० ॥

पतत्रितीर्थम् आख्यातं विषघ्नं सर्वकामदम् ।
स्वयं सूर्यस् तथा विष्णुः सुपर्णेनारुणेन च ॥ ११ ॥

आसते गौतमीतीरे तथैव वृषभध्वजः ।
त्रयाणाम् अपि देवानां स्थितेस् तत् तीर्थम् उत्तमम् ॥ १२ ॥

तत्र स्नात्वा शुचिर् भूत्वा नमस्कुर्यात् सुरान् इमान् ।
आधिव्याधिविनिर्मुक्तः स परं सौख्यम् आप्नुयात् ॥ १३ ॥