165

Summary (SA)

Chapter 165- Marriage of the sun-god’s ugly daughter Viṣṭi

{{Ref- SS 264-265}}

ब्रह्मोवाच-

भद्रतीर्थम् इति प्रोक्तं सर्वानिष्टनिवारणम् ।
सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ १ ॥

आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता ।
छायापि भार्या सवितुस् तस्याः पुत्रः शनैश्चरः ॥ २ ॥

तस्य स्वसा विष्टिर् इति भीषणा पापरूपिणी ।
तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ ३ ॥

यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः ।
तच् छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया ।
एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ ४ ॥

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ।
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥ ५ ॥

विष्टिर् उवाच-

बालाम् एव पिता यस् तु दद्यात् कन्यां सुरूपिणे ।
स कृतार्थो भवेल् लोके न चेद् दुष्कृतवान् पिता ॥ ६ ॥

चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः ।
तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ ७ ॥

श्रीमते विदुषे यूने कुलीनाय यशस्विने ।
उदाराय सनाथाय कन्या देया वराय वै ॥ ८ ॥

एतच् चेद् अन्यथा कुर्यात् पिता स निरयी सदा ।
धर्मस्य साधनं कन्या विदुषाम् अपि भास्कर ॥ ९ ॥

नरकस्येव मूर्खाणां कामोपहतचेतसाम् ।
एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ १० ॥

स्वलङ्कृतोपाधिहीना सुकन्या चैकतः स्मृता ।
विक्रीणीते यश् च कन्याम् अश्वं वा गां तिलान् अपि ॥ ११ ॥

न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर् भवेत् ।
विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ १२ ॥

तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते ।
यावल् लज्जां न जानाति यावत् क्रीडति पांशुभिः ॥ १३ ॥

तावत् कन्या प्रदातव्या नो चेत् पित्रोर् अधोगतिः ।
पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः ॥ १४ ॥

आत्मनः सुखितां लोके को न कुर्यात् करोति च ।
यत् कन्यायां पिता कुर्याद् दानं पूजनम् ईक्षणम् ॥ १५ ॥

यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् ।
यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते ॥ १६ ॥

पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे ।
करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ १७ ॥

ब्रह्मोवाच-

एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥ १८ ॥

सूर्य उवाच-

किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् ।
कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ १९ ॥

मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च ।
अस्मासु सर्वम् अप्य् अस्ति विना तव गुणैः शुभे ।
किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम् ॥ २० ॥

ब्रह्मोवाच-

एवम् उक्त्वा पुनस् तां च विष्टिं प्रोवाच भास्करः ॥ २१ ॥

सूर्य उवाच-

यस्मै कस्मै च दातव्या त्वं वै यद्य् अनुमन्यसे ।
दीयसे ऽद्य मया विष्टे अनुजानीहि मां ततः ॥ २२ ॥

ब्रह्मोवाच-

पितरं प्राह सा विष्टिर् भर्ता पुत्रा धनं सुखम् ।
आयू रूपं च सम्प्रीतिर् जायते प्राक्तनानुगम् ॥ २३ ॥

यत् पुरा विहितं कर्म प्राणिना साध्व् असाधु वा ।
फलं तदनुरोधेन प्राप्यते ऽपि भवान्तरे ॥ २४ ॥

स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् ।
तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा ॥ २५ ॥

तस्मात् तद्दानसम्बन्धं स्ववंशानुगतं पिता ।
करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति ॥ २६ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा दुहितुर् वाक्यं त्वष्टुः पुत्राय भीषणाम् ।
विश्वरूपाय तां प्रादाद् विष्टिं लोकभयङ्करीम् ॥ २७ ॥

विश्वरूपो ऽपि तद्वच् च भीषणो भीषणाकृतिः ।
एवं मिथः सञ्चरतोः शीलरूपसमानयोः ॥ २८ ॥

प्रीतिः कदाचिद् वैषम्यं दम्पत्योर् अभवन् मिथः ।
गण्डो नामाभवत् पुत्रो ह्य् अतिगण्डस् तथैव च ॥ २९ ॥

रक्ताक्षः क्रोधनश् चैव व्ययो दुर्मुख एव च ।
तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक् ॥ ३० ॥

सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः ।
स कदाचिद् यमगृहं द्रष्टुं मातुलम् अभ्यगात् ॥ ३१ ॥

स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः ।
स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥ ३२ ॥

हर्षण उवाच-

क इमे सुखिनस् तात पच्यन्ते नरके च के ॥ ३३ ॥

ब्रह्मोवाच-

एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् ।
तत्कर्मणां गतिं सर्वाम् अशेषेण न्यवेदयत् ॥ ३४ ॥

यम उवाच-

विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम् ।
न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः ॥ ३५ ॥

न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् ।
विहितातिक्रमं कुर्युर् ये ते नरकगामिनः ॥ ३६ ॥

ब्रह्मोवाच-

स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनर् अब्रवीत् ॥ ३७ ॥

हर्षण उवाच-

पिता त्वाष्ट्रो भीषणश् च माता विष्टिश् च भीषणा ।
भ्रातरश् च महात्मानो येन ते शान्तबुद्धयः ॥ ३८ ॥

सुरूपाश् च भविष्यन्ति निर्दोषा मङ्गलप्रदाः ।
तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥ ३९ ॥

अन्यथा तान् न गच्छेयम् इत्य् उक्तः प्राह धर्मराट् ।
हर्षणं शुद्धबुद्धिं तं हर्षणो ऽसि न संशयः ॥ ४० ॥

बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः ।
एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम् ॥ ४१ ॥

कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः ।
यः पूर्वजान् उद्धरति स पुत्रस् त्व् इतरो गदः ॥ ४२ ॥

यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् ।
तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥ ४३ ॥

स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा ।
स तु प्रीतो यदि भवेत् सर्वम् इष्टं प्रदास्यति ॥ ४४ ॥

ब्रह्मोवाच-

इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ ।
शुचिस् तुष्टाव देवेशं हरिं प्रीतो ऽभवद् धरिः ॥ ४५ ॥

हर्षणाय ततः प्रादात् कुलभद्रं ततस् तु सः ।
सर्वाभद्रप्रशमनपूर्वकं भद्रम् अस्तु ते ॥ ४६ ॥

तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस् तथा सुताः ।
ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते ॥ ४७ ॥

सर्वमङ्गलदं पुंसां तत्र भद्रपतिर् हरिः ।
तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् ।
मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः ॥ ४८ ॥