Summary (SA)
Chapter 164- Story of King Pavamāna and the Ciccika-bird
{{Ref- SS 262-264}}
ब्रह्मोवाच-
चिच्चिकातीर्थम् इत्य् उक्तं सर्वरोगविनाशनम् ।
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १ ॥
तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे ।
गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ २ ॥
चिच्चिकः पक्षिराट् तत्र भेरुण्डो यो ऽभिधीयते ।
सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ ३ ॥
नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर् नगैः ।
सेविते द्विजमुख्यैश् च गौतम्या चोपशोभिते ॥ ४ ॥
सिद्धचारणगन्धर्वकिन्नरामरसङ्कुले ।
तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम् ॥ ५ ॥
रोगार्तिक्षुत्तृषाचिन्तामरणानां न भाजनम् ।
एवं गुणान्विते शैले नानामुनिगणावृते ॥ ६ ॥
पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः ।
क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः ॥ ७ ॥
बलेन महता युक्तः सपुरोधा वनं ययौ ।
रेमे स्त्रीभिर् मनोज्ञाभिर् नृत्यवादित्रजैः सुखैः ॥ ८ ॥
स च एवं धनुष्पाणिर् मृगयाशीलिभिर् वृतः ।
एवं भ्रमन् कदाचित् स श्रान्तो द्रुमम् उपागतः ॥ ९ ॥
गौतमीतीरसम्भूतं नानापक्षिगणैर् वृतम् ।
आश्रमाणां गृहपतिं धर्मज्ञम् इव सेवितम् ॥ १० ॥
तम् आश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः ।
स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ ११ ॥
तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् ।
चिन्ताविष्टं तथा श्रान्तं तम् अपृच्छन् नृपोत्तमः ॥ १२ ॥
राजोवाच-
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे ।
नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखम् आगतः ॥ १३ ॥
ब्रह्मोवाच-
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः ।
समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः ॥ १४ ॥
चिच्चिक उवाच-
मत्तो भयं न चान्येषां मम वान्योपपादितम् ।
नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ १५ ॥
पश्येयं शून्यम् एवाद्रिं ततः शोचामि माम् अहम् ।
न लभामि सुखं किञ्चिन् न तृप्यामि कदाचन ।
निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ १६ ॥
ब्रह्मोवाच-
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ १७ ॥
राजोवाच-
को भवान् किं कृतं पापं कस्माच् छून्यश् च पर्वतः ।
एकेनास्येन तृप्यन्ति प्राणिनो ऽत्र नगोत्तमे ॥ १८ ॥
किम् उतास्यद्वयेन त्वं न तृप्तिम् उपयास्यसि ।
किं वा ते दुष्कृतं प्राप्तम् इह जन्मन्य् अथो पुरा ॥ १९ ॥
तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ २० ॥
ब्रह्मोवाच-
राजानं तं द्विजः प्राह निःश्वसन्न् अथ चिच्चिकः ॥ २१ ॥
चिच्चिक उवाच-
वक्ष्ये ऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत् ।
अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ २२ ॥
कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः ।
वदे पुरस् तथा पृष्ठे अन्यद् अन्यच् च जन्तुषु ॥ २३ ॥
परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः ।
कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ २४ ॥
मित्रस्वामिगुरुद्रोही दम्भाचारो ऽतिनिर्घृणः ।
मनसा कर्मणा वाचा तापयामि जनान् बहून् ॥ २५ ॥
अयम् एव विनोदो मे सदा यत् परहिंसनम् ।
युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ २६ ॥
करोमि निर्विचारो ऽहं विद्वत्सेवापराङ्मुखः ।
न मया सदृशः कश्चित् पातकी भवनत्रये ॥ २७ ॥
तेनाहं द्विमुखो जातस् तापनाद् दुःखभाग्य् अहम् ।
तस्माद् दुःखेन सन्तप्तः शून्यो ऽयं पर्वतो मम ॥ २८ ॥
अन्यच् च शृणु भूपाल वाक्यं धर्मार्थसंहितम् ।
ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते ॥ २९ ॥
क्षत्रियः सङ्गरं गत्वा अथवान्यत्र सङ्गरात् ।
पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ ३० ॥
अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् ।
तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः ॥ ३१ ॥
अधीतं विस्मरति यस् त्वं करोति तथोत्तमम् ।
अनादरं च गुरुषु तम् आहुर् ब्रह्मघातकम् ॥ ३२ ॥
प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च ।
अन्यद् धृदि वचस्य् अन्यत् करोत्य् अन्यत् सदैव यः ॥ ३३ ॥
गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः ।
मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः ॥ ३४ ॥
देवं वेदम् अथाध्यात्मं धर्मब्राह्मणसङ्गतिम् ।
एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः ॥ ३५ ॥
एवं भूतो ऽप्य् अहं राजन् दम्भार्थं लज्जया तथा ।
सद्वृत्त इव वर्ते ऽहं तस्माद् राजन् द्विजो ऽभवम् ॥ ३६ ॥
एवं भूतो ऽपि सत्कर्म किञ्चित् कर्तास्मि कुत्रचित् ।
तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम् ॥ ३७ ॥
ब्रह्मोवाच-
तच् चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः ।
कर्मणा केन ते मुक्तिर् इत्य् आह नृपतिर् द्विजम् ॥ ३८ ॥
इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥ ३९ ॥
चिच्चिक उवाच-
अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे ।
गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥ ४० ॥
तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं चेति महद्भिर् मुनिभिः श्रुतम् ॥ ४१ ॥
न गौतम्यास् तथा विष्णोर् अपरं क्लेशनाशनम् ।
सर्वभावेन तत् तीर्थं पश्येयम् इति मे मतिः ॥ ४२ ॥
मत्कृतेन प्रयत्नेन नैतच् छक्यं कदाचन ।
कथम् आकाङ्क्षितप्राप्तिर् भवेद् दुष्कृतकर्मणाम् ॥ ४३ ॥
सप्रयत्नो ऽप्य् अहं वीर न पश्ये तत् सुदुष्करम् ।
तस्मात् तव प्रसादाच् च पश्येयं हि गदाधरम् ॥ ४४ ॥
अविज्ञापितदुःखज्ञं करुणावरुणालयम् ।
यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर् नरैः ॥ ४५ ॥
दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत ॥ ४६ ॥
ब्रह्मोवाच-
एवम् उक्तः स नृपतिश् चिच्चिकेन द्विजन्मना ।
दर्शयाम् आस तं देवं तां च गङ्गां द्विजन्मने ॥ ४७ ॥
ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥ ४८ ॥
चिच्चिक उवाच-
गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः ।
न पश्यत्य् उच्यते तावद् इहामुत्रापि पातकी ॥ ४९ ॥
तस्मात् सर्वागसम् अपि माम् उद्धर सरिद्वरे ।
संसारे देहिनाम् अन्या न गतिः कापि कुत्रचित् ।
त्वां विना विष्णुचरणसरोरुहसमुद्भवे ॥ ५० ॥
ब्रह्मोवाच-
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः ।
स्नानं चक्रे स्मरन्न् अन्तर् गङ्गे त्रायस्व माम् इति ॥ ५१ ॥
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु ।
पवमानाभ्यनुज्ञातस् तदैव दिवम् आक्रमत् ॥ ५२ ॥
पवमानः स्वनगरं प्रययौ सानुगस् ततः ।
ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम् ॥ ५३ ॥
गदाधरं कोटितीर्थम् इति वेदविदो विदुः ।
कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम् ॥ ५४ ॥