Summary (SA)
Chapter 163- Śākalya, a devotee of Viṣṇu, and the Rākṣasa Paraśu
{{Ref- SS 261-262}}
ब्रह्मोवाच-
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम् ॥ १ ॥
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् ।
तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद ॥ २ ॥
पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः ।
शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ ३ ॥
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः ।
तस्मिञ् शुभ्रे पुण्यगिरौ तपस् तेपे ह्य् अनुत्तमम् ॥ ४ ॥
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरम् आश्रितम् ।
सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ ५ ॥
अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् ।
ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते ॥ ६ ॥
तस्मिन् गिरौ महापुण्ये देवद्विजभयङ्करः ।
यज्ञद्वेषी ब्रह्महन्ता परशुर् नाम राक्षसः ॥ ७ ॥
कामरूपी विचरति नानारूपधरो वने ।
क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक् ॥ ८ ॥
कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् ।
कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः ॥ ९ ॥
कदाचिद् बालरूपेण एवं चरति पापकृत् ।
यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः ॥ १० ॥
तम् आयाति महापापी परशू राक्षसाधमः ।
शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च ॥ ११ ॥
नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत् ।
स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः ॥ १२ ॥
भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने ।
ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली ।
कन्याम् आदाय काञ्चिच् च शाकल्यं वाक्यम् अब्रवीत् ॥ १३ ॥
परशुर् उवाच-
भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज ।
आतिथ्यकाले सम्प्राप्तं कृतकृत्यो ऽसि मानद ॥ १४ ॥
त एव धन्या लोके ऽस्मिन् येषाम् अतिथयो गृहात् ।
पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे ॥ १५ ॥
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् ।
अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुन्धरा ॥ १६ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत् ।
आसने चोपवेश्याथाज्ञानात् तं परशुं द्विजम् ॥ १७ ॥
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ ।
आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत् ॥ १८ ॥
परशुर् उवाच-
दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः ।
तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः ॥ १९ ॥
अतिथिश् चापवादी च द्वाव् एतौ विश्वबान्धवौ ।
अपवादी हरेत् पापम् अतिथिः स्वर्गसङ्क्रमः ॥ २० ॥
अभ्यागतं पथि श्रान्तं सावज्ञं यो ऽभिवीक्षते ।
तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः ॥ २१ ॥
तस्माद् अभ्यागतः श्रान्तो याचे ऽहं त्वां द्विजोत्तम ।
दास्यसे यदि मे कामं तद् भोक्ष्ये ऽहं न चान्यथा ॥ २२ ॥
ब्रह्मोवाच-
दत्तम् इत्य् एव शाकल्यो भुङ्क्ष्वेत्य् एवाह राक्षसम् ।
ततः प्रोवाच परशुर् अहं राक्षससत्तमः ॥ २३ ॥
नाहं द्विजस् तव रिपुर् न वृद्धः पलितः कृशः ।
बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ २४ ॥
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा ।
तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ २५ ॥
ब्रह्मोवाच-
श्रुत्वा परशुवाक्यं तच् छाकल्यो वाक्यम् अब्रवीत् ॥ २६ ॥
शाकल्य उवाच-
ये महाकुलसम्भूता विज्ञातसकलागमाः ।
तत् प्रतिश्रुतम् अभ्येति न जात्व् अत्र विपर्ययम् ॥ २७ ॥
यथोचितं कुरु सखे तथापि शृणु मे वचः ।
निहन्तुम् अप्य् उद्यतेषु वक्तव्यं हितम् उत्तमैः ॥ २८ ॥
ब्राह्मणो ऽहं वज्रतनुः सर्वतो रक्षको हरिः ।
पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ २९ ॥
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् ।
हृदयं रक्षतात् कृष्णो ह्य् अङ्गुली रक्षतान् मृगः ॥ ३० ॥
मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः ।
श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः ।
नानापत्स्व् एकशरणं देवो नारायणः स्वयम् ॥ ३१ ॥
ब्रह्मोवाच-
एवम् उक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् ।
मां राक्षसेन्द्र परशो त्वम् इदानीम् अतन्द्रितः ॥ ३२ ॥
राक्षसस् तस्य वचनाद् भक्षणाय समुद्यतः ।
नास्त्य् एव हृदये नूनं पापिनां करुणाकणः ॥ ३३ ॥
दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा ।
ब्राह्मणं तं निरीक्ष्यैवं परशुर् वाक्यम् अब्रवीत् ॥ ३४ ॥
परशुर् उवाच-
शङ्खचक्रगदापाणिं त्वां पश्ये ऽहं द्विजोत्तम ।
सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥ ३५ ॥
सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् ।
त्वाम् अद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥ ३६ ॥
तस्मात् प्रसादये विप्र त्वम् एव शरणं भव ।
ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्य् अघनिष्कृतिम् ॥ ३७ ॥
महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम् ।
द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः ॥ ३८ ॥
अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥ ३९ ॥
ब्रह्मोवाच-
एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम् ।
शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥ ४० ॥
तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम् ।
मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः ॥ ४१ ॥
किञ्चिद् अप्य् अस्ति लोके ऽस्मिन् कारणं शृणु राक्षस ।
प्रसन्ना तव सा देवी मद्वाक्याच् च भविष्यति ॥ ४२ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा स परशुर् गङ्गां त्रैलोक्यपावनीम् ।
स्नात्वा शुचिर् यतमना गङ्गाम् अभिमुखः स्थितः ॥ ४३ ॥
तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम् ।
सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥ ४४ ॥
जगज्जाड्यहरां विश्वजननीं भुवनेश्वरीम् ।
ताम् उवाच विनीतात्मा परशुर् गतकल्मषः ॥ ४५ ॥
परशुर् उवाच-
गुरुः शाकल्य इत्य् आह माकान्तं स्तुहि विध्वजम् ।
तव प्रसादात् सा शक्तिर् यथा मे स्यात् तथा कुरु ॥ ४६ ॥
ब्रह्मोवाच-
तथास्त्व् इति च सा प्राह परशुं श्रीसरस्वती ।
सरस्वत्याः प्रसादेन परशुस् तं जनार्दनम् ॥ ४७ ॥
तुष्टाव विविधैर् वाक्यैस् ततस् तुष्टो ऽभवद् धरिः ।
वरं प्रादाद् राक्षसाय कृपासिन्धुर् जनार्दनः ॥ ४८ ॥
जनार्दन उवाच-
यद् यन् मनोगतं रक्षस् तत् तत् सर्वं भविष्यति ॥ ४९ ॥
ब्रह्मोवाच-
शाकल्यस्य प्रसादेन गौतम्याश् च प्रसादतः ।
सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥ ५० ॥
पापिष्ठो ऽपि तदा रक्षः परशुर् दिवम् एयिवान् ।
सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच् छार्ङ्गधन्वनः ॥ ५१ ॥
ततः प्रभृति तत् तीर्थं सारस्वतम् इति श्रुतम् ।
तत्र स्नानेन दानेन विष्णुलोके महीयते ॥ ५२ ॥
वाग्जवैष्णवशाकल्यपरशुप्रभवाणि हि ।
बहून्य् अभूवंस् तीर्थानि तस्मिन् वै श्वेतपर्वते ॥ ५३ ॥