Summary (SA)
Chapter 162- Story of Manyu helping the gods against the demons
{{Ref- SS 260-261}}
ब्रह्मोवाच-
मन्युतीर्थम् इति ख्यातं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नॄणां स्मरणाद् अघनाशनम् ॥ १ ॥
तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने ।
देवानां दानवानां च सङ्गरो ऽभून् मिथः पुरा ॥ २ ॥
तत्राजयन् नैव सुरा दानवा जयिनो ऽभवन् ।
पराङ्मुखाः सुरगणाः सङ्गराद् गतचेतसः ॥ ३ ॥
माम् अभ्येत्य समूचुस् ते देहि नो ऽभयकारणम् ।
तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ ४ ॥
तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् ।
अनपायनिरायाससहजानन्दसुन्दरम् ॥ ५ ॥
लप्स्यते सर्वविबुधा जयहेतुर् महेश्वरात् ।
तथेत्य् उक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ ६ ॥
तपो ऽतप्यन्त केचिद् वै ननृतुश् च तथापरे ।
अस्नापयंश् च केचिच् च ऽपूजयंश् च तथापरे ॥ ७ ॥
ततः प्रसन्नो भगवाञ् शूलपाणिर् महेश्वरः ।
देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम् ॥ ८ ॥
देवा ऊचुः सुरपतिं विजयाय ददस्व नः ।
पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ ९ ॥
यद्बाहुबलम् आश्रित्य भवामः सुखिनो वयम् ।
तथेत्य् उवाच भगवान् देवान् प्रति महेश्वरः ॥ १० ॥
आत्मनस् तेजसा कश्चिन् निर्मितः परमेष्ठिना ।
मन्युनामानम् अत्युग्रं देवसैन्यपुरोगमम् ॥ ११ ॥
तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वम् आलयम् ।
मन्युना सह चाभ्येत्य पुनर् युद्धाय तस्थिरे ॥ १२ ॥
युद्धे स्थित्वा तु दनुजैर् दैतेयैश् च महाबलैः ।
विबुधा जातसन्नद्धा मन्युम् ऊचुः पुरः स्थिताः ॥ १३ ॥
देवा ऊचुः-
सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः ।
तस्माद् दर्शय चात्मानं मन्यो ऽस्माकं युयुत्सताम् ॥ १४ ॥
ब्रह्मोवाच-
तद् देववचनं श्रुत्वा मन्युर् आह स्मयन्न् इव ॥ १५ ॥
मन्युर् उवाच-
जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः ।
यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ १६ ॥
नैव कश्चिच् च तं वेत्ति यः सर्वं वेत्ति सर्वदा ।
अमूर्तं मूर्तम् अप्य् एतद् वेत्ति कर्ता जगन्मयः ॥ १७ ॥
परो ऽसौ भगवान् साक्षात् तथा दिव्य् अन्तरिक्षगः ।
कस् तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ १८ ॥
एवंविधाद् अहं जातो मां कथं वेत्तुम् अर्हथ ।
अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ १९ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा दर्शयाम् आस मन्यू रूपं स्वकं महत् ।
तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ २० ॥
तेजसा सम्भृतं रूपं यतः सर्वं तद् उच्यते ।
पौरुषं पुरुषेष्व् एव अहङ्कारश् च जन्तुषु ॥ २१ ॥
क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् ।
तं शङ्करप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ २२ ॥
सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः ।
वित्रेसुर् दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ २३ ॥
भूत्वा मन्युम् अथोचुस् ते त्वं सेनानीः प्रभो भव ।
त्वया दत्तम् इदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ २४ ॥
तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः ।
त्वम् इन्द्रस् त्वं च वरुणो लोकपालास् त्वम् एव च ॥ २५ ॥
अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै ।
मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किञ्चन ॥ २६ ॥
सर्वेष्व् अन्तः प्रविष्टो ऽहं न मां जानाति कश्चन ।
स एव भगवान् मन्युस् ततो जातः पृथक् पृथक् ॥ २७ ॥
स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवो ऽभवत् ।
स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ २८ ॥
तम् अवाप्य सुराः सर्वे जयम् आपुश् च सङ्गरे ।
जयो मन्युश् च शौर्यं च ईशतेजःसमुद्भवम् ॥ २९ ॥
मन्युना जयम् आप्याथ कृत्वा दैत्यैश् च सङ्गमम् ।
यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ ३० ॥
यत्र वै गौतमीतीरे शिवम् आराध्य ते सुराः ।
मन्युम् आपुर् जयं चैव मन्युतीर्थं तद् उच्यते ॥ ३१ ॥
उत्पत्तिं च तथा मन्योर् यो नरः प्रयतः स्मरेत् ।
विजयो जायते तस्य न कैश्चित् परिभूयते ॥ ३२ ॥
न मन्युतीर्थसदृशं पावनं हि महामुने ।
यत्र साक्षान् मन्युरूपी सर्वदा शङ्करः स्थितः ।
तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥ ३३ ॥