161

Summary (SA)

Chapter 161- Creation of the world from Brahman’s primordial sacrifice

{{Ref- SS 256-260}}

ब्रह्मोवाच-

कुशतर्पणम् आख्यातं प्रणीतासङ्गमं तथा ।
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १ ॥

तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् ।
विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ २ ॥

यदङ्घ्रिभ्यो ऽभवन् नद्यो गोदाभीमरथीमुखाः ।
यत्राभवत् तद् विरजम् एकवीरा च यत्र सा ॥ ३ ॥

न तस्य महिमा कैश्चिद् अपि शक्यो ऽनुवर्णितुम् ।
तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः ॥ ४ ॥

गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् ।
यन् न जानन्ति मुनयो देवाश् च पितरो ऽसुराः ॥ ५ ॥

तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् ।
परः स पुरुषो ज्ञेयो ह्य् अव्यक्तो ऽक्षर एव तु ॥ ६ ॥

अपरश् च क्षरस् तस्मात् प्रकृत्यन्वित एव च ।
निराकारात् सावयवः पुरुषः समजायत ॥ ७ ॥

तस्माद् आपः समुद्भूता अद्भ्यश् च पुरुषस् तथा ।
ताभ्याम् अब्जं समुद्भूतं तत्राहम् अभवं मुने ॥ ८ ॥

पृथिवी वायुर् आकाश आपो ज्योतिस् तथैव च ।
एते मत्तः पूर्वतरा एकदैवाभवन् मुने ॥ ९ ॥

एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् ।
नैव वेदास् तदा चासन् नाहं द्रष्टास्मि किञ्चन ॥ १० ॥

यस्माद् अहं समुद्भूतो न पश्येयं तम् अप्य् अथ ।
तूष्णीं स्थिते मयि तदा अश्रौषं वाचम् उत्तमाम् ॥ ११ ॥

आकाशवाग् उवाच-

ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥ १२ ॥

ब्रह्मोवाच-

ततो ऽहम् अब्रवं वाचं परुषां तत्र नारद ।
कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ १३ ॥

सैव वाग् अब्रवीद् दैवी प्रकृतिर् याभिधीयते ।
विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ १४ ॥

आकाशवाग् उवाच-

यज्ञं कुरु ततः शक्तिस् ते भवित्री न संशयः ।
यज्ञो वै विष्णुर् इत्य् एषा श्रुतिर् ब्रह्मन् सनातनी ॥ १५ ॥

किं यज्वनाम् असाध्यं स्याद् इह लोके परत्र च ॥ १६ ॥

ब्रह्मोवाच-

पुनस् ताम् अब्रवं देवीं क्व वा केनेति तद् वद ।
यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ १७ ॥

आकाशवाग् उवाच-

ओङ्कारभूता या देवी मातृकल्पा जगन्मयी ।
कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ १८ ॥

स एव साधनं ते स्यात् तेन तं यज सुव्रत ।
यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ १९ ॥

हरिर् एवाखिलं तेन सर्वं विष्णोर् अवाप्यते ॥ २० ॥

ब्रह्मोवाच-

पुनस् ताम् अब्रवं देवीं कर्मभूः क्व विधीयते ।
तदा नारद नैवासीद् भागीरथ्य् अथ नर्मदा ॥ २१ ॥

यमुना नैव तापी सा सरस्वत्य् अथ गौतमी ।
समुद्रो वा नदः कश्चिन् न सरः सरितो ऽमलाः ।
सा शक्तिः पुनर् अप्य् एवं माम् उवाच पुनः पुनः ॥ २२ ॥

दैवी वाग् उवाच-

सुमेरोर् दक्षिणे पार्श्वे तथा हिमवतो गिरेः ।
दक्षिणे चापि विन्ध्यस्य सह्याच् चैवाथ दक्षिणे ।
सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ २३ ॥

ब्रह्मोवाच-

तत् तु वाक्यम् अथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् ।
तं प्रदेशम् अथागत्य स्थातव्यं क्वेत्य् अचिन्तयम् ।
ततो माम् अब्रवीत् सैव विष्णोर् वाण्य् अशरीरिणी ॥ २४ ॥

आकाशवाग् उवाच-

इतो गच्छ इतस् तिष्ठ तथोपविश चात्र हि ।
सङ्कल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ २५ ॥

कृते चैवाथ सङ्कल्पे यज्ञार्थे सुरसत्तम ।
यद् वदन्त्य् अखिला वेदा विधे तत् तत् समाचर ॥ २६ ॥

ब्रह्मोवाच-

इतिहासपुराणानि यद् अन्यच् छब्दगोचरम् ।
स्वतो मुखे मम प्रायाद् अभूच् च स्मृतिगोचरम् ॥ २७ ॥

वेदार्थश् च मया सर्वो ज्ञातो ऽसौ तत्क्षणेन च ।
ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम् ॥ २८ ॥

यज्ञोपकरणं सर्वं तद् उक्तं च त्व् अकल्पयम् ।
तदुक्तेन प्रकारेण यज्ञपात्राण्य् अकल्पयम् ॥ २९ ॥

अहं स्थित्वा यत्र देशे शुचिर् भूत्वा यतात्मवान् ।
दीक्षितो विप्रदेशो ऽसौ मन्नाम्ना तु प्रकीर्तितः ॥ ३० ॥

मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः ।
चतुरशीतिपर्यन्तं योजनानि महामुने ॥ ३१ ॥

मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः ।
तत्र मध्ये वेदिका स्याद् गार्हपत्यो ऽस्य दक्षिणे ॥ ३२ ॥

तत्र चाहवनीयस्य एवम् अग्नींस् त्व् अकल्पयम् ।
विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥ ३३ ॥

शरीरम् आत्मनो ऽहं वै द्वेधा चाकरवं मुने ।
पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये ॥ ३४ ॥

उत्तरेण त्व् अहं तद्वद् अर्धो जाया इति श्रुतेः ।
कालं वसन्तम् उत्कृष्टम् आज्यरूपेण नारद ॥ ३५ ॥

अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः ।
ऋतुं च प्रावृषं पुत्र तदा बर्हिर् अकल्पयम् ॥ ३६ ॥

छन्दांसि सप्त वै तत्र तदा परिधयो ऽभवन् ।
कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥ ३७ ॥

यो ऽनादिश् च त्व् अनन्तश् च स्वयं कालो ऽभवत् तदा ।
यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥ ३८ ॥

सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः ।
ततो ऽहम् अब्रवं वाचं वैष्णवीम् अशरीरिणीम् ॥ ३९ ॥

विनैव पशुना नायं यज्ञः परिसमाप्यते ।
ततो माम् अवदद् देवी सैव नित्याशरीरिणी ॥ ४० ॥

आकाशवाग् उवाच-

पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥ ४१ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा स्तूयमाने देवदेवे जनार्दने ।
मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥ ४२ ॥

सा च माम् अब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु ।
तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥ ४३ ॥

कालयूपस्य पार्श्वे तं गुणपाशैर् निवेशितम् ।
बर्हिस्थितम् अहं प्रौक्षं पुरुषं जातम् अग्रतः ॥ ४४ ॥

एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वम् अभूद् इदम् ।
ब्राह्मणास् तु मुखात् तस्य ऽभवन् बाह्वोश् च क्षत्रियाः ॥ ४५ ॥

मुखाद् इन्द्रस् तथाग्निश् च श्वसनः प्राणतो ऽभवत् ।
दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गो ऽभवत् तदा ॥ ४६ ॥

मनसश् चन्द्रमा जातः सूर्यो ऽभूच् चक्षुषस् तथा ।
अन्तरिक्षं तथा नाभेर् ऊरुभ्यां विश एव च ॥ ४७ ॥

पद्भ्यां शूद्रश् च सञ्जातस् तथा भूमिर् अजायत ।
ऋषयो रोमकूपेभ्य ओषध्यः केशतो ऽभवन् ॥ ४८ ॥

ग्राम्यारण्याश् च पशवो नखेभ्यः सर्वतो ऽभवन् ।
कृमिकीटपतङ्गादि पायूपस्थाद् अजायत ॥ ४९ ॥

स्थावरं जङ्गमं किञ्चिद् दृश्यादृश्यं च किञ्चन ।
तस्मात् सर्वम् अभूद् देवा मत्तश् चाप्य् अभवन् पुनः ।
एतस्मिन्न् अन्तरे सैव विष्णोर् वाग् अब्रवीच् च माम् ॥ ५० ॥

आकाशवाग् उवाच-

सर्वं सम्पूर्णम् अभवत् सृष्टिर् जाता तथेप्सिता ।
इदानीं जुहुधि ह्य् अग्नौ पात्राणि च समानि च ॥ ५१ ॥

विसर्जय तथा यूपं प्रणीतां च कुशांस् तथा ।
ऋत्विग्रूपं यज्ञरूपम् उद्देश्यं ध्येयम् एव च ॥ ५२ ॥

स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय ॥ ५३ ॥

ब्रह्मोवाच-

तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु ।
गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥ ५४ ॥

पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस् तदा ।
तत्र तत्र जगद्योनिम् अनुसन्धाय पूरुषम् ॥ ५५ ॥

मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः ।
लोकनाथो विश्वकर्ता कुण्डानां तत्र सन्निधौ ॥ ५६ ॥

शुक्लरूपधरो विष्णुर् भवेद् आहवनीयके ।
श्यामो विष्णुर् दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥ ५७ ॥

सर्वकालं तेषु विष्णुर् अतो देशेषु संस्थितः ।
न तेन रहितं किञ्चिद् विष्णुना विश्वयोनिना ॥ ५८ ॥

प्रणीतायाः प्रणयनं मन्त्रैश् चाकरवं ततः ।
प्रणीतोदकम् अप्य् एतत् प्रणीतेति नदी शुभा ॥ ५९ ॥

व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैर् अथ ।
मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥ ६० ॥

पतितास् तत्र तीर्थानि जातानि गुणवन्ति च ।
सञ्जाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा ॥ ६१ ॥

यालङ्कृता सर्वकालं देवदेवेन शार्ङ्गिणा ।
सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥ ६२ ॥

सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे ।
कुशतर्पणम् आख्यातं बहुपुण्यफलप्रदम् ॥ ६३ ॥

कुशैश् च तर्पिताः सर्वे कुशतर्पणम् उच्यते ।
पश्चाच् च सङ्गता तत्र गौतमी कारणान्तरात् ॥ ६४ ॥

प्रणीतायां महाबुद्धे प्रणीतासङ्गमो ऽभवत् ।
कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम् ॥ ६५ ॥

तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे ।
विसृष्टो लोकपूज्यो ऽसौ विष्णोर् आसीत् समाश्रयः ॥ ६६ ॥

अक्षयश् चाभवच् छ्रीमान् अक्षयो ऽसौ वटो ऽभवत् ।
नित्यश् च कालरूपो ऽसौ स्मरणात् क्रतुपुण्यदः ॥ ६७ ॥

मद्देवयजनं चेदं दण्डकारण्यम् उच्यते ।
सम्पूर्णे तु क्रतौ विष्णुर् मया भक्त्या प्रसादितः ॥ ६८ ॥

यो विराड् उच्यते वेदे यस्मान् मूर्तम् अजायत ।
यस्माच् च मम चोत्पत्तिर् यस्येदं विकृतं जगत् ॥ ६९ ॥

तम् अहं देवदेवेशम् अभिवन्द्य व्यसर्जयम् ।
योजनानि चतुर्विंशन् मद्देवयजनं शुभम् ॥ ७० ॥

तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद ।
यज्ञेश्वरस्वरूपाणि विष्णोर् वै चक्रपाणिनः ॥ ७१ ॥

ततः प्रभृति चाख्यातं मद्देवयजनं च तत् ।
तत्रस्थः कृमिकीटादिः सो ऽप्य् अन्ते मुक्तिभाजनम् ॥ ७२ ॥

धर्मबीजं मुक्तिबीजं दण्डकारण्यम् उच्यते ।
विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमो ऽभवत् ॥ ७३ ॥

प्रणीतासङ्गमे चापि कुशतर्पण एव वा ।
स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम् ॥ ७४ ॥

स्मरणं पठनं वापि श्रवणं चापि भक्तितः ।
सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥ ७५ ॥

उभयोस् तीरयोस् तत्र तीर्थान्य् आहुर् मनीषिणः ।
षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥ ७६ ॥

वाराणस्या अपि मुने कुशतर्पणम् उत्तमम् ।
नानेन सदृशं तीर्थं विद्यते सचराचरे ॥ ७७ ॥

ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम् ।
तीर्थम् एतन् मुने प्रोक्तं स्वर्गद्वारं महीतले ॥ ७८ ॥