160

Summary (SA)

Chapter 160- Battle between gods and demons

{{Ref- SS 255-256}}

ब्रह्मोवाच-

देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् ।
भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम् ॥ १ ॥

तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद ।
देवानाम् असुराणां च स्पर्धाभूद् धनहेतवे ॥ २ ॥

स्वर्गः सुराणाम् अभवद् असुराणाम् इलाभवत् ।
कर्मभूमिम् अवष्टभ्य असुराः सर्वतो ऽभवन् ॥ ३ ॥

देवानां यज्ञभागांश् च दातॄन् घ्नन्त्य् असुरास् ततः ।
ततः सुरगणाः सर्वे यज्ञभागैर् विना कृताः ॥ ४ ॥

व्यथिता माम् उपाजग्मुः किं कृत्यम् इति चाब्रुवन् ।
मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात् ॥ ५ ॥

भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च ।
तथेत्य् उक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ ६ ॥

दैत्याश् च दानवाश् चैव राक्षसा बलदर्पिताः ।
एकीभूत्वा ययुस् ते ऽपि जयिनो युद्धकाङ्क्षिणः ॥ ७ ॥

अहिर् वृत्रो बलिस् त्वाष्ट्रिर् नमुचिः शम्बरो मयः ।
एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ ८ ॥

अग्निर् इन्द्रो ऽथ वरुणस् त्वष्टा पूषा तथाश्विनौ ।
मरुतो लोकपालाश् च नानायुद्धविशारदाः ॥ ९ ॥

ते दानवाः सर्व एव याम्यां वै दिशि सङ्गरे ।
अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ १० ॥

त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् ।
तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ ११ ॥

सर्वेषां मेलनं यत्र पर्वतो मलयस् तु सः ।
मलयस्यापि देशो ऽसौ देवारीणाम् अभूत् तदा ॥ १२ ॥

देवानां गौतमीतीरे तत्र सन्निहितः शिवः ।
इति तेषां समायोगो देवानाम् अभवत् किल ॥ १३ ॥

देवाः स्वरथम् आरूढास् तत्र तत्र समागमन् ।
गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ १४ ॥

प्रसन्नाभीष्टदा या स्यात् पितॄणाम् अखिलस्य तु ।
ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् ।
अभयं चिन्तयाम् आसुस् ते सर्वे ऽथ परस्परम् ॥ १५ ॥

देवा ऊचुः-

अत्राप्य् उपायः को ऽस्माकं निर्जितानां परैर् हठात् ।
एकम् एवात्र नः श्रेयो विजयो वाथवा मृतिः ।
सपत्नैर् अभिभूतानां जीवितं धिङ् मनस्विनाम् ॥ १६ ॥

ब्रह्मोवाच-

एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी ॥ १७ ॥

आकाशवाग् उवाच-

क्लेशेनालं सुरगणा गौतमीम् आशु गच्छत ।
भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ १८ ॥

गोदावर्यास् तयोश् चैव प्रसादात् किं तु दुष्करम् ॥ १९ ॥

ब्रह्मोवाच-

प्रसन्नाभ्यां हरीशाभ्यां देवा जयम् अभीप्सितम् ।
अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ २० ॥

यत्र देवागमो जातस् तत् तीर्थं तेन विश्रुतम् ।
देवागमं प्रशंसन्ति मुनयस् तत्त्वदर्शिनः ॥ २१ ॥

तत्राशीतिसहस्राणि शिवलिङ्गानि नारद ।
देवागमः पर्वतो ऽसौ प्रिय इत्य् अपि कथ्यते ।
ततः प्रभृति तत् तीर्थं देवप्रियम् अतो विदुः ॥ २२ ॥