Summary (SA)
Chapter 159- Kadrū and Vinatā
{{Ref- SS 253-255}}
ब्रह्मोवाच-
वञ्जरासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस् तथा ॥ १ ॥
दासत्वम् अगमत् पूर्वं नागानां गरुडः खगः ।
मातृदास्यात् तदा दुःखपरिसन्तप्तमानसः ।
कदाचिच् चिन्तयाम् आस रहः स्थित्वा विनिश्वसन् ॥ २ ॥
गरुड उवाच-
त एव धन्या लोके ऽस्मिन् कृतपुण्यास् त एव हि ।
नान्यसेवा कृता यैस् तु न येषां व्यसनागमः ॥ ३ ॥
सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च ।
स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान् ॥ ४ ॥
ब्रह्मोवाच-
इति चिन्तासमाविष्टो जननीम् एत्य दुःखितः ।
पर्यपृच्छद् अमेयात्मा वैनतेयो ऽथ मातरम् ॥ ५ ॥
गरुड उवाच-
कस्यापराधान् मातस् त्वं पितुर् वा मम वान्यतः ।
दासीत्वम् आप्ता वद तत्कारणं मम पृच्छतः ॥ ६ ॥
ब्रह्मोवाच-
साब्रवीत् पुत्रम् आत्मीयम् अरुणस्यानुजं प्रियम् ॥ ७ ॥
विनतोवाच-
नैव कस्यापराधो ऽस्ति स्वापराधो मयोदितः ।
यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम् ॥ ८ ॥
कद्रूश् चापि तथैवाहं सा मया संयुता ययौ ।
कद्र्वा ममाभवद् वादश् छद्मनाहं तया जिता ॥ ९ ॥
विधिर् हि बलवांस् तात कां कां चेष्टां न चेष्टते ।
एवं दासीत्वम् अगमं कद्र्वाः कश्यपनन्दन ।
यदा दासी तु जाताहं दासो ऽभूस् त्वं द्विजन्मज ॥ १० ॥
ब्रह्मोवाच-
तूष्णीं तदा बभूवासौ गरुडो ऽतीव दुःखितः ।
न किञ्चिद् ऊचे जननीं चिन्तयन् भवितव्यताम् ॥ ११ ॥
कद्रूः कदाचित् सा प्राह पुत्राणां हितम् इच्छती ।
आत्मनो भूतिम् इच्छन्ती विनतां खगमातरम् ॥ १२ ॥
कद्रूर् उवाच-
पुत्रः सूर्यं नमस्कर्तुं तव यात्य् अनिवारितः ।
अहो लोकत्रये ऽप्य् अस्मिन् धन्यासि बत दास्य् अपि ॥ १३ ॥
ब्रह्मोवाच-
स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ १४ ॥
विनतोवाच-
तव पुत्रास् तु किम् इति रविं द्रष्टुं न यान्ति च ॥ १५ ॥
कद्रूर् उवाच-
पुत्रान् मदीयान् सुभगे नय नागालयं प्रति ।
समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः ॥ १६ ॥
ब्रह्मोवाच-
सुपर्णस् त्व् अवहन् नागान् कद्रूं च विनता तथा ।
ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ १७ ॥
सुराणां नेतु निलयं गरुडो मत्सुतान् इति ।
पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ १८ ॥
सर्पमातोवाच-
पुत्रा मे द्रष्टुम् इच्छन्ति हंसं त्रिजगतां गुरुम् ।
नमस्कृत्वा ततः सूर्यम् एष्यन्ति निलयं मम ।
हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलम् अन्वहम् ॥ १९ ॥
ब्रह्मोवाच-
सा वेपमाना विनता दीना कद्रूम् अभाषत ॥ २० ॥
विनतोवाच-
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् ।
दृष्ट्वा दिनकरं देवं पुनर् एव प्रयान्तु ते ॥ २१ ॥
ब्रह्मोवाच-
विनता स्वसुतं प्राह विहगानाम् अधीश्वरम् ।
नमस्कर्तुम् अथेच्छन्ति नागाः स्वामित्वम् आगताः ॥ २२ ॥
भास्वन्तम् इत्य् उवाचेयं मां सर्पजननी हठात् ।
तथेत्य् उक्त्वा स गरुडो माम् आरोहन्तु पन्नगाः ॥ २३ ॥
तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् ।
शनैः शनैर् उपगमद् यत्र देवो दिवाकरः ।
ते दह्यमानास् तीक्ष्णेन भानुतापेन विव्यथुः ॥ २४ ॥
सर्पा ऊचुः-
निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः ।
अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा ।
यामस् त्वया वा गरुड विहाय त्वाम् अथापि वा ॥ २५ ॥
ब्रह्मोवाच-
एवं नागैर् उच्यमान आदित्यं दर्शयामि वः ।
इत्य् उक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ २६ ॥
दग्धभोगा निपेतुस् ते द्वीपं तं वीरणं प्रति ।
बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ २७ ॥
पुत्राणाम् आर्तसन्नादं पतितानां महीतले ।
आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला ॥ २८ ॥
उवाच विनतां कद्रूस् तव पुत्रो ऽतिदुष्कृतम् ।
कृतवान् अतिदुर्मेधा येषां शान्तिर् न विद्यते ॥ २९ ॥
नान्यथा कर्तुम् आयाति स्वामिवाक्यं फणीश्वरः ।
स काश्यपो बृहत्तेजा यद्य् अत्र स्याद् अनामयम् ॥ ३० ॥
भवेच् चैवं कथं शान्तिः पुत्राणां मम भामिनि ।
कद्र्वास् तद् वचनं श्रुत्वा विनता ह्य् अतिभीतवत् ॥ ३१ ॥
पुत्रम् आह महात्मानं गरुडं विहगाधिपम् ॥ ३२ ॥
विनतोवाच-
नेदं युक्ततरं पुत्र भूषणं विनयेन हि ।
वर्तितुं युक्तम् इत्य् उक्तं वैपरीत्यं न युज्यते ॥ ३३ ॥
नामित्रेष्व् अपि कर्तव्यं सद्भिर् जिह्मं कदाचन ।
श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥ ३४ ॥
कुर्वन्त्य् अनिष्टं कपटैस् त एव मम पुत्रक ।
प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः ॥ ३५ ॥
ब्रह्मोवाच-
विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥ ३६ ॥
विनतोवाच-
किं कृत्वा शान्तिर् अभ्येति पुत्राणां ते करोमि तत् ।
जरया तु गृहीतास् ते वद शान्तिं करोमि तत् ॥ ३७ ॥
ब्रह्मोवाच-
कद्रूर् अप्य् आह विनतां रसातलगतं पयः ।
तेनाभिषेचितानां मे पुत्राणां शान्तिर् एष्यति ॥ ३८ ॥
कद्र्वास् तद् वचनं श्रुत्वा रसातलगतं पयः ।
क्षणेनैव समानीय नागांस् तान् अभ्यषेचयत् ।
ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥ ३९ ॥
गरुड उवाच-
मेघाश् चाप्य् अत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥ ४० ॥
ब्रह्मोवाच-
तथा ववर्ष पर्जन्यो नागानाम् अभवच् छिवम् ।
रसातलभवं गाङ्गं नागसञ्जीवनं पयः ॥ ४१ ॥
जराशोकविनाशार्थम् आनीतं गरुडेन यत् ।
यत्राभिषेचिता नागास् तन् नागालयम् उच्यते ॥ ४२ ॥
गरुडेन यतो वारि आनीतं तद् रसातलात् ।
तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥ ४३ ॥
जराया वारणं यस्मान् नागानाम् अभवच् छिवम् ।
रसातलभवं गाङ्गं नागसञ्जीवनं यतः ॥ ४४ ॥
जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे ।
साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी ॥ ४५ ॥
जरादारिद्र्यसन्तापहारिणी क्लेशवारिणी ।
रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥ ४६ ॥
तयोश् च सङ्गमो यः स्यात् किं पुनस् तत्र वर्ण्यते ।
यस्यानुस्मरणाद् एव नाशं यान्त्य् अघसञ्चयाः ॥ ४७ ॥
तत्र च स्नानदानानां फलं को वक्तुम् ईश्वरः ।
सपादं तत्र तीर्थानां लक्षम् आहुर् मनीषिणः ॥ ४८ ॥
सर्वसम्पत्तिदातॄणां सर्वपापौघहारिणाम् ।
वञ्जरासङ्गमसमं तीर्थं क्वापि न विद्यते ।
यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥ ४९ ॥