158

Summary (SA)

Chapter 158- The Āṅgirasas and their mother’s curse; Agastya’s teaching

{{Ref- SS 251-253}}

ब्रह्मोवाच-

व्यासतीर्थम् इति ख्यातं प्राचेतसम् अतः परम् ।
नातः परतरं किञ्चित् पावनं सर्वसिद्धिदम् ॥ १ ॥

दश मे मानसाः पुत्राः स्रष्टारो जगताम् अपि ।
अन्तं जिज्ञासवस् ते वै पृथिव्या जग्मुर् ओजसा ॥ २ ॥

पुनः सृष्टाः पुनस् ते ऽपि यातास् तान् समवेक्षितुम् ।
नैव ते ऽपि समायाता ये गतास् ते गता गताः ॥ ३ ॥

तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ४ ॥

ते ऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः ।
तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ ५ ॥

सर्वेभ्यो ह्य् अधिका माता गुरुभ्यो गौरवेण हि ।
तदा नारद कोपेन सा शशाप तदात्मजान् ॥ ६ ॥

मातोवाच-

माम् अनादृत्य ये पुत्राः प्रवृत्ताश् चरितुं तपः ।
सर्वैर् अपि प्रकारैस् तन् न तेषां सिद्धिम् एष्यति ॥ ७ ॥

ब्रह्मोवाच-

नानादेशांश् च चिन्वानास् तपःसिद्धिं न यान्ति च ।
विघ्नम् अन्वेति तान् सर्वान् इतश् चेतश् च धावतः ॥ ८ ॥

क्वापि तद् राक्षसैर् विघ्नं क्वापि तन् मानुषैर् अभूत् ।
प्रमदाभिः क्वचिच् चापि क्वापि तद्देहदोषतः ॥ ९ ॥

एवं तु भ्रममाणास् ते ययुः सर्वे तपोनिधिम् ।
अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ १० ॥

नमस्कृत्वा ह्य् आङ्गिरसा ह्य् अग्निवंशसमुद्भवाः ।
दक्षिणाशापतिं शान्तं विनीताः प्रष्टुम् उद्यताः ॥ ११ ॥

आङ्गिरसा ऊचुः-

भगवन् केन दोषेण तपो ऽस्माकं न सिध्यति ।
नानाविधैर् अप्य् उपायैः कुर्वतां च पुनः पुनः ॥ १२ ॥

किं कुर्मः कः प्रकारो ऽत्र तपस्य् एव भवाम किम् ।
उपायं ब्रूहि विप्रेन्द्र ज्येष्ठो ऽसि तपसा ध्रुवम् ॥ १३ ॥

ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः ।
शान्तो ऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा ॥ १४ ॥

अक्रोधनश् च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् ।
साहङ्कारा दयाहीना गुरुसेवाविवर्जिताः ।
असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ १५ ॥

ब्रह्मोवाच-

अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा शनैः शनैः ॥ १६ ॥

अगस्त्य उवाच-

शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः ।
न पर्याप्तं तपश् चाभूत् स्मरध्वं स्मयकारणम् ॥ १७ ॥

ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखम् एधते ।
ये गताः पुनर् अन्वेष्टुं ते च त्व् आङ्गिरसो ऽभवन् ॥ १८ ॥

ते यूयं च पुनः काले याता याताः शनैः शनैः ।
प्रजापतेर् अप्य् अधिका भवितारो न संशयः ॥ १९ ॥

इतो यान्तु तपस् तप्तुं गङ्गां त्रैलोक्यपावनीम् ।
नोपायो ऽन्यो ऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ २० ॥

तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ ।
स च्छेदयिष्यत्य् अखिलं संशयं वो महामतिः ।
न सिद्धिः क्वापि केषाञ्चिद् विना सद्गुरुणा यतः ॥ २१ ॥

ब्रह्मोवाच-

ते तम् ऊचुर् मुनिवरं ज्ञानदः को ऽभिधीयते ।
ब्रह्मा विष्णुर् महेशो वा आदित्यो वापि चन्द्रमाः ॥ २२ ॥

अग्निश् च वरुणः कः स्याज् ज्ञानदो मुनिसत्तम ।
अगस्त्यः पुनर् अप्य् आह ज्ञानदः श्रूयताम् अयम् ॥ २३ ॥

या आपः सो ऽग्निर् इत्य् उक्तो यो ऽग्निः सूर्यः स उच्यते ।
यश् च सूर्यः स वै विष्णुर् यश् च विष्णुः स भास्करः ॥ २४ ॥

यश् च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वम् एव तत् ।
यस्य सर्वं तु तज् ज्ञानं ज्ञानदः सो ऽत्र कीर्त्यते ॥ २५ ॥

देशिकप्रेरकव्याख्याकृदुपाध्यायदेहदाः ।
गुरवः सन्ति बहवस् तेषां ज्ञानप्रदो महान् ॥ २६ ॥

तद् एव ज्ञानम् अत्रोक्तं येन भेदो विहन्यते ।
एक एवाद्वयः शम्भुर् इन्द्रमित्राग्निनामभिः ।
वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ २७ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा मुनेर् वाक्यं गाथा गायन्त एव ते ।
जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश् च दक्षिणाम् ॥ २८ ॥

अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि ।
आसनेषु विशेषेण ह्य् आसीनास् तत्त्वचिन्तकाः ॥ २९ ॥

तेषां सर्वे सुरगणाः प्रीतिमन्तो ऽभवन् मुने ।
स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना ॥ ३० ॥

अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च ।
लोकानाम् उपकारार्थं धर्मकामार्थसिद्धये ॥ ३१ ॥

पुराणस्मृतिवेदार्थधर्मशास्त्रार्थनिश्चये ।
स्रष्टृत्वं जगताम् इष्टं तादृग्रूपा भविष्यथ ॥ ३२ ॥

प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् ।
यदा ह्य् अधर्मो भविता वेदानां च पराभवः ॥ ३३ ॥

वेदानां व्यसनं तेभ्यो भाविव्यासास् ततस् तु ते ।
यदा यदा तु धर्मस्य ग्लानिर् वेदस्य दृश्यते ॥ ३४ ॥

तदा तदा तु ते व्यासा भविष्यन्त्य् उपकारिणः ।
तेषां यत् तपसः स्थानं गङ्गायास् तीरम् उत्तमम् ॥ ३५ ॥

तत्र तत्र शिवो विष्णुर् अहम् आदित्य एव च ।
अग्निर् आपः सर्वम् इति तत्र सन्निहितं सदा ॥ ३६ ॥

नैतेभ्यः पावनं किञ्चिन् नैतेभ्यस् त्व् अधिकं क्वचित् ।
तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥ ३७ ॥

सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् ।
विशेषतस् तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥ ३८ ॥

सर्वैर् देवैर् अनुवृतस् तदनुग्रहकारकः ।
धर्मव्यासास् तु ते ज्ञेया वेदव्यासास् तथैव च ॥ ३९ ॥

तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये ।
पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् ।
सर्वसिद्धिप्रदं पुंसां व्यासतीर्थम् अनुत्तमम् ॥ ४० ॥