Summary (SA)
Chapter 157- Rāma and the Liṅgas
{{Ref- SS 250-251}}
ब्रह्मोवाच-
किष्किन्धातीर्थम् आख्यातं सर्वकामप्रदं नृणाम् ।
सर्वपापप्रशमनं यत्र सन्निहितो भवः ॥ १ ॥
तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद ।
पुरा दाशरथी रामो रावणं लोकरावणम् ॥ २ ॥
किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि ।
सपुत्रं सबलं हत्वा सीताम् आदाय शत्रुहा ॥ ३ ॥
भ्रात्रा सौमित्रिणा सार्धं वानरैश् च महाबलैः ।
विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ ४ ॥
कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः ।
यद् आसीद् धनराजस्य कामगेनाशुगामिना ॥ ५ ॥
अयोध्याम् अगमन् सर्वे गच्छन् गङ्गाम् अपश्यत ।
रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ ६ ॥
गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् ।
मनोनयनसन्तापनिवारणपरायणाम् ॥ ७ ॥
तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरम् अथाविशत् ।
तां दृष्ट्वा प्राह नृपतिर् हर्षगद्गदया गिरा ।
हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने ॥ ८ ॥
राम उवाच-
अस्याः प्रभावाद् धरयो यो ऽसौ मम पिता प्रभुः ।
सर्वपापविनिर्मुक्तस् ततो यातस् त्रिविष्टपम् ॥ ९ ॥
इयं जनित्री सकलस्य जन्तोर् ।
भुक्तिप्रदा मुक्तिम् अथापि दद्यात् ।
पापानि हन्याद् अपि दारुणानि ।
कान्यानयास्त्य् अत्र नदी समाना ॥ १० ॥
हतानि शश्वद् दुरितानि चैव ।
अस्याः प्रभावाद् अरयः सखायः ।
विभीषणो मैत्रम् उपैति नित्यं ।
सीता च लब्धा हनुमांश् च बन्धुः ॥ ११ ॥
लङ्का च भग्ना सगणं हि रक्षो ।
हतं हि यस्याः परिसेवनेन ।
यां गौतमो देववरं प्रपूज्य ।
शिवं शरण्यं सजटाम् अवाप ॥ १२ ॥
सेयं जनित्री सकलेप्सितानाम् ।
अमङ्गलानाम् अपि सन्निहन्त्री ।
जगत्पवित्रीकरणैकदक्षा ।
दृष्टाद्य साक्षात् सरितां सवित्री ॥ १३ ॥
कायेन वाचा मनसा सदैनां ।
व्रजामि गङ्गां शरणं शरण्याम् ॥ १४ ॥
ब्रह्मोवाच-
एतत् समाकर्ण्य वचो नृपस्य ।
तत्राप्लवन् हरयः सर्व एव ।
पूजां चक्रुर् विधिवत् ते पृथक् च ।
पुष्पैर् अनेकैः सर्वलोकोपहारैः ॥ १५ ॥
सम्पूज्य शर्वं नृपतिर् यथावत् ।
स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः ।
ते वानरा मुदिताः सर्व एव ।
नृत्यं च गीतं च तथैव चक्रुः ॥ १६ ॥
सुखोषितस् तां रजनीं महात्मा ।
प्रियानुयुक्तः संवृतः प्रेमवद्भिः ।
दुःखं जहौ सर्वम् अमित्रसम्भवं ।
किं नाप्यते गौतमीसेवनेन ॥ १७ ॥
सविस्मयः पश्यति भृत्यवर्गं ।
गोदावरीं स्तौति च सम्प्रहृष्टः ।
सम्मानयन् भृत्यगणं समग्रम् ।
अवाप रामः कमपि प्रमोदम् ।
पुनः प्रभाते विमले तु सूर्ये ।
विभीषणो दाशरथिं बभाषे ॥ १८ ॥
विभीषण उवाच-
नाद्यापि तृप्तास् तु भवाम तीर्थे ।
कञ्चिच् च कालं निवसाम चात्र ।
वत्स्याम चात्रैव पराश् चतस्रो ।
रात्रीर् अथो याम वृतास् त्व् अयोध्याम् ॥ १९ ॥
ब्रह्मोवाच-
तस्याथ वाक्यं हरयो ऽनुमेनिरे ।
तथैव रात्रीर् अपराश् चतस्रः ।
सम्पूज्य देवं सकलेश्वरं तं ।
भ्रातृप्रियं तीर्थम् अथो जगाम ॥ २० ॥
सिद्धेश्वरं नाम जगत्प्रसिद्धं ।
यस्य प्रभावात् प्रबलो दशास्यः ।
एवं तु पञ्चाहम् अथोषिरे ते ।
स्वं स्वं प्रतिष्ठापितलिङ्गम् अर्च्य ॥ २१ ॥
शुश्रूषणं तत्र करोति वायोः ।
सुतो ऽनुगामी हनुमान् नृपस्य ।
गच्छन् नृपेन्द्रो हनुमन्तम् आह ।
लिङ्गानि सर्वाणि विसर्जयस्व ॥ २२ ॥
मत्स्थापितान्य् उत्तममन्त्रविद्भिस् ।
तथेतरैः शङ्करकिङ्करैश् च ।
नोद्वास्य पूजां परशङ्करेण ।
बाह्यं समायोज्यम् अहो भवस्य ॥ २३ ॥
तिष्ठन्ति सुस्थास् तदनादरेण ।
ते खड्गपत्त्रादिषु सम्भवन्ति ।
ये ऽश्रद्दधानाः शिवलिङ्गपूजां ।
विधाय कृत्यं न समाचरन्ति ॥ २४ ॥
यथोचितं ते यमकिङ्करैर् हि ।
पच्यन्त एवाखिलदुर्गतीषु ।
रामाज्ञया वायुसुतो जगाम ।
दोर्भ्यां न चोत्पाटयितुं शशाक ॥ २५ ॥
ततः स्वपुच्छेन ग्रहीतुकामः ।
संवेष्ट्य लिङ्गं तु विसृष्टकामः ।
नैवाशकत् तन् महद् अद्भुतं स्यात् ।
कपीश्वराणां नृपतेस् तथैव ॥ २६ ॥
कश् चालयेल् लब्धमहानुभावं ।
महेशलिङ्गं पुरुषो मनस्वी ।
तन् निश्चलं प्रेक्ष्य महानुभावो ।
नृपप्रवीरः सहसा जगाम ॥ २७ ॥
विप्रान् अथामन्त्र्य विधाय पूजां ।
प्रदक्षिणीकृत्य च रामचन्द्रः ।
शुद्धातिशुद्धेन हृदाखिलैस् तैर् ।
लिङ्गानि सर्वाणि ननाम रामः ॥ २८ ॥
किष्किन्धवासिप्रवरैर् अशेषैः ।
संसेवितं तीर्थम् अतो बभूव ।
अत्राप्लवाद् एव महान्ति पापान्य् ।
अपि क्षयं यान्ति न संशयो ऽत्र ॥ २९ ॥
पुनश् च गङ्गां प्रणनाम भक्त्या ।
प्रसीद मातर् मम गौतमीति ।
जल्पन् मुहुर् विस्मितचित्तवृत्तिर् ।
विलोकयन् प्रणमन् गौतमीं ताम् ॥ ३० ॥
ततः प्रभृत्य् एतद् अतीव पुण्यं ।
किष्किन्धतीर्थं विबुधा वदन्ति ।
पठेत् स्मरेद् वापि शृणोति भक्त्या ।
पापापहं किं पुनः स्नानदानैः ॥ ३१ ॥