Summary (SA)
Chapter 156- Viṣṇu’s fight with the demons
{{Ref- SS 249-250}}
ब्रह्मोवाच-
शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः ।
तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १ ॥
तत्रेदं वृत्तम् आख्यास्ये भुक्तिमुक्तिप्रदायकम् ।
पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥ २ ॥
ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः ।
ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥ ३ ॥
तदाहम् अब्रवं विष्णुं रक्षणाय जगद्गुरुम् ।
स विष्णुस् तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥ ४ ॥
छित्त्वा चक्रेण रक्षांसि शङ्खम् आपूरयत् तदा ।
निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरम् एव च ॥ ५ ॥
ततो हर्षप्रकर्षेण शङ्खम् आपूरयद् धरिः ।
ततो रक्षांसि सर्वाणि ह्य् अनीनशुर् अशेषतः ॥ ६ ॥
यत्रैतद् वृत्तम् अखिलं विष्णुशङ्खप्रभावतः ।
शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम् ॥ ७ ॥
सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् ।
आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥ ८ ॥
स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् ।
तीर्थानाम् अयुतं तत्र सर्वपापनुदं मुने ॥ ९ ॥
तीर्थान्य् अयुतसङ्ख्यानि सर्वपापहराणि च ।
येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥ १० ॥
पापक्षयप्रतिनिधिर् नैतेभ्यो ऽस्त्य् अपरः क्वचित् ॥ ११ ॥