155

Summary (SA)

Chapter 155- The earth as sacrificial gift turning into a lioness and exchanged for a cow

{{Ref- SS 249}}

ब्रह्मोवाच-

कपिलतीर्थम् आख्यातं तद् एवाङ्गिरसं स्मृतम् ।
तद् एवादित्यम् आख्यातं सैंहिकेयं तद् उच्यते ॥ १ ॥

गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम ।
अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः ॥ २ ॥

अङ्गिरोभ्यस् तदादित्यास् तपसे ऽङ्गिरसो ययुः ।
सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत् ॥ ३ ॥

तत्रसुस् ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् ।
विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीम् इति ॥ ४ ॥

आदित्यान् अनुगत्वाथ वाचम् अङ्गिरसो ऽब्रुवन् ।
भुवं गृह्णन्तु या दत्ता नेत्य् आदित्यास् तदाब्रुवन् ॥ ५ ॥

निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः ।
स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ॥ ६ ॥

षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः ।
भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित् ॥ ७ ॥

पापम् अस्ति महारौद्रं न स्वीकुर्मः पुनस् तु ताम् ।
एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ ८ ॥

तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् ।
तथेत्य् उक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ ९ ॥

गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः ।
भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस् तिष्ठति मूर्तिमान् ॥ १० ॥

कपिलासङ्गमं तच् च सर्वाघौघविनाशनम् ।
तत्राभवद् दानतोयाद् आपगा कपिलाभिधा ॥ ११ ॥

सस्यवत्या अपि भुवो दानाद् गोदानम् उत्तमम् ।
लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ १२ ॥

यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् ।
पुण्यदं तत्र तीर्थानां शतम् उक्तं मनीषिभिः ॥ १३ ॥

तत्र स्नानेन दानेन भूमिदानफलं लभेत् ।
सङ्गता गङ्गया तच् च कपिलासङ्गमं विदुः ॥ १४ ॥