154

Summary (SA)

Chapter 154- The repudiation of Sītā

{{Ref- SS 247-248}}

ब्रह्मोवाच-

सहस्रकुण्डम् आख्यातं तीर्थं वेदविदो विदुः ।
यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १ ॥

पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे ।
लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः ॥ २ ॥

वैदेहीं च समासाद्य रामो वचनम् अब्रवीत् ।
पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ ३ ॥

अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसन्निधौ ।
एहि वैदेहि शुद्धासि अङ्कम् आरोढुम् अर्हसि ॥ ४ ॥

नेत्य् उवाच तदा श्रीमान् अङ्गदो हनुमांस् तथा ।
अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ ५ ॥

तत्र शुद्धिम् अवाप्याथ पुनर् भ्रातृषु मातृषु ।
लौकिकेष्व् अपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ ६ ॥

अयोध्यायां सुपुण्ये ऽह्नि अङ्कम् आरोढुम् अर्हसि ।
अस्याश् चरित्रविषये सन्देहः कस्य जायते ॥ ७ ॥

लोकापवादस् तद् अपि निरस्यः स्वजनेषु हि ।
तयोर् वाक्यम् अनादृत्य लक्ष्मणः सविभीषणः ॥ ८ ॥

रामश् च जाम्बवांश् चैव ताम् आह्वयन् नृपात्मजाम् ।
स्वस्तीत्य् उक्ता देवताभी राज्ञो ऽङ्कं चारुरोह सा ॥ ९ ॥

मुदितास् ते ययुः शीघ्रं पुष्पकेण विराजता ।
अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ १० ॥

मुदितास् ते ऽभवन् सर्वे सदा रामानुवर्तिनः ।
ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ ११ ॥

वाचं श्रुत्वा स तत्याज गुर्विणीं ताम् अयोनिजाम् ।
मिथ्यापवादम् अपि हि न सहन्ते कुलोन्नताः ॥ १२ ॥

वाल्मीकेर् मुनिमुख्यस्य आश्रमस्य समीपतः ।
तत्याज लक्ष्मणः सीताम् अदुष्टां रुदतीं रुदन् ॥ १३ ॥

नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् असौ तद् अकरोद् भिया ।
ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ १४ ॥

रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः ।
तत्रैवाजग्मतुर् उभौ रामपुत्रौ यशस्विनौ ॥ १५ ॥

लवः कुशश् च विख्यातौ नारदाव् इव गायकौ ।
रामायणं समग्रं तद् गन्धर्वाव् इव सुस्वरौ ॥ १६ ॥

रामस्य चरितं सर्वं गायमानौ समीयतुः ।
यज्ञवाटं राजसुतौ हेतुभिर् लक्षितौ तदा ॥ १७ ॥

रामपुत्राव् उभौ शूरौ वैदेह्यास् तनयाव् इति ।
ताव् आनीय ततः पुत्राव् अभिषिच्य यथाक्रमम् ॥ १८ ॥

अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः ।
संसारदुःखखिन्नानाम् अगतीनां शरीरिणाम् ॥ १९ ॥

पुत्रालिङ्गनम् एवात्र परं विश्रान्तिकारणम् ।
मुहुर् आलिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ २० ॥

किम् अप्य् अन्तर् ध्यायति च निःश्वसत्य् अपि वै मुहुः ।
एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ २१ ॥

सुग्रीवो हनुमांश् चैव अङ्गदो जाम्बवांस् तथा ।
अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ २२ ॥

ते चागत्य नृपं प्राप्ताः सिंहासनम् उपस्थितम् ।
सीताम् अदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः ॥ २३ ॥

क्व गतायोनिजा माता एको रामो ऽत्र दृश्यते ।
रामेण सा परित्यक्ता इत्य् ऊचुर् द्वारपालकाः ॥ २४ ॥

पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि ।
अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ २५ ॥

उत्पन्नैर् लौकिकैर् वाक्यै रामस् त्यजति तां प्रियाम् ।
मरिष्याव इति ह्य् उक्त्वा गौतमीं पुनर् ईयतुः ॥ २६ ॥

रामस् तौ पृष्ठतो ऽभ्येत्य अयोध्यावासिभिः सह ।
आगत्य गौतमीं तत्र ऽकुर्वंस् ते परमं तपः ॥ २७ ॥

स्मारं स्मारं निश्वसन्तस् तां सीतां लोकमातरम् ।
संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ २८ ॥

लोकत्रयपतिः साक्षाद् रामो ऽनुजसमन्वितः ।
प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ २९ ॥

परितापं जहौ सर्वं सहस्रपरिवारितः ।
यत्र चासीत् स वृत्तान्तः सहस्रकुण्डम् उच्यते ॥ ३० ॥

दशापराणि तीर्थानि तत्र सर्वार्थदानि च ।
तत्र स्नानं च दानं च सहस्रफलदायकम् ॥ ३१ ॥

यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः ।
सर्वापत्तारकं होमम् अकारयद् अघान्तकम् ॥ ३२ ॥

सहस्रसङ्ख्यायुक्तेषु कुण्डेषु वसुधारया ।
सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः ॥ ३३ ॥

गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः ।
सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम् ॥ ३४ ॥