153

Summary (SA)

Chapter 153- Prācīnabarhis’ long reign and his obtaining a son from Śiva

{{Ref- SS 247}}

ब्रह्मोवाच-

भावतीर्थम् इति प्रोक्तं यत्र साक्षाद् भवः स्थितः ।
अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ १ ॥

तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम् ।
सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरन्धरः ॥ २ ॥

प्राचीनबर्हिर् आख्यातः सर्वधर्मेषु पारगः ।
तिस्रः कोट्यो ऽर्धकोटिश् च वर्षाणां राज्य आस्थितः ॥ ३ ॥

तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः ।
भवेयं प्रियया वापि पुत्रैर् वा प्रियवस्तुभिः ॥ ४ ॥

वियुज्येयं ततो राज्यं त्यक्ष्ये ऽहं नात्र संशयः ।
विवेकिनां कुलीनानाम् इदम् एवोचितं नृणाम् ॥ ५ ॥

स्थीयते विजने क्वापि विरक्तैर् विभवक्षये ।
तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ ६ ॥

नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् ।
तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते ॥ ७ ॥

ततः पुत्रार्थम् अकरोद् यज्ञं राजा महामतिः ।
ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम् ॥ ८ ॥

गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः ।
पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ ९ ॥

भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् ।
ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ १० ॥

चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः ।
येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ ११ ॥

किम् अलभ्यं भगवति प्रसन्ने त्रिपुरान्तके ।
यं नित्यम् अनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ १२ ॥

प्राप्तपुत्रश् च नृपतिस् तीर्थश्रैष्ठ्यम् अयाचत ।
महापापमहारोगमहाव्यसनिनां नृणाम् ॥ १३ ॥

नानाविपद्गणार्तानां सर्वाभिमतलब्धये ।
प्रादाज् ज्यैष्ठ्यं भवश् चापि भावतीर्थं तद् उच्यते ॥ १४ ॥

तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ।
भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः ॥ १५ ॥

महिमा गौतमीतीरे भावतीर्थं तद् उच्यते ।
तत्र सप्तति तीर्थानि पुण्यान्य् अखिलदानि च ॥ १६ ॥