Summary (SA)
Chapter 152- The abduction of Tārā
{{Ref- SS 245-247}}
ब्रह्मोवाच-
नन्दीतटम् इति ख्यातं तीर्थं वेदविदो विदुः ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १ ॥
अत्रिपुत्रो महातेजाश् चन्द्रमा इति विश्रुतः ।
सर्वान् वेदांश् च विधिवद् धनुर्वेदं यथाविधि ॥ २ ॥
अधीत्य जीवात् सर्वाश् च विद्याश् चान्या महामते ।
गुरुपूजां करोमीति जीवम् आह स चन्द्रमाः ।
बृहस्पतिस् तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ ३ ॥
बृहस्पतिर् उवाच-
मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ ४ ॥
ब्रह्मोवाच-
प्रष्टुं तां च तदा प्रायाद् अन्तर् वेश्म स चन्द्रमाः ।
तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ ५ ॥
स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा ।
तावद् धैर्यनिधिर् ज्ञानी मतिमान् विजितेन्द्रियः ॥ ६ ॥
यावन् न कामिनीनेत्रवागुराभिर् निबध्यते ।
विशेषतो रहःसंस्थां कामिनीम् आयतेक्षणाम् ॥ ७ ॥
विलोक्य न मनो याति कस्य कामेषु वश्यताम् ।
अत एवान्यपुरुषदर्शनं न कदाचन ॥ ८ ॥
कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः ।
विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः ॥ ९ ॥
दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिर् उदारधीः ।
शशाप कोपाच् चाक्षिप्य वाग्भिर् विप्रियकारिभिः ॥ १० ॥
पराभिभूताम् आलोक्य कान्तां कः सोढुम् ईश्वरः ।
युयुधे तेन जीवो ऽपि देवश् चन्द्रमसा रुषा ॥ ११ ॥
न शापैर् हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः ।
बृहस्पतिप्रणीतैश् च न मन्त्रैर् हन्यते शशी ॥ १२ ॥
तदा चन्द्रस् तु तां तारां नीत्वा संस्थाप्य मन्दिरे ।
बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ १३ ॥
न जीयेत तदा देवैर् न कोपैः शापमन्त्रकैः ।
न राजभिर् न ऋषिभिर् न साम्ना भेददण्डनैः ॥ १४ ॥
यदा भार्यां न लेभे ऽसौ गुरुः सर्वप्रयत्नतः ।
सर्वोपायक्षये जीवस् तदा नीतिम् अथास्मरत् ॥ १५ ॥
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थम् उद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १६ ॥
साध्यं केनाप्य् उपायेन जानद्भिः पुरुषैः फलम् ।
वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ १७ ॥
एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् ।
तम् आगतं कविर् ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ १८ ॥
उपविष्टं सुविश्रान्तं पूजितं च यथाविधि ।
पर्यपृच्छद् दैत्यगुरुस् तदागमनकारणम् ॥ १९ ॥
गृहागतस्य विमुखाः शत्रवो ऽप्य् उत्तमा नहि ।
तस्मै स विस्तरेणाह भार्याहरणम् आदितः ॥ २० ॥
बृहस्पतेस् तदा वाक्यं श्रुत्वा कोपान्वितः कविः ।
अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद ।
अतिक्रमम् इमं श्रुत्वा कोपात् कविर् अथाब्रवीत् ॥ २१ ॥
शुक्र उवाच-
तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे ।
यदानये प्रियां भ्रातस् तव भार्यां परार्दिताम् ॥ २२ ॥
ताम् आनीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् ।
पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर ॥ २३ ॥
ब्रह्मोवाच-
एवम् उक्त्वा स जीवेन दैत्याचार्यो जगाम ह ।
शिवम् आराध्य यत्नेन परं सामर्थ्यम् आप्तवान् ॥ २४ ॥
वरान् अवाप्य विविधाञ् शङ्कराद् भावपूजितात् ।
शिवप्रसादात् किं नाम देहिनाम् इह दुर्लभम् ॥ २५ ॥
जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः ।
वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः ॥ २६ ॥
यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् ।
कुष्ठी भूयास् ततश् चन्द्रं शशापैवं रुषा कविः ॥ २७ ॥
कविशापप्रदग्धो ऽभूत् तदैव मृगलाञ्छनः ।
प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ २८ ॥
तत्याज तां स चन्द्रो ऽपि तां तारां जगृहे कविः ।
शुक्रो ऽपि देवान् आहूय ऋषीन् पितृगणांस् तथा ॥ २९ ॥
नदीर् नदांश् च विविधान् ओषधीश् च पतिव्रताः ।
ततः सम्प्रष्टुम् आरेभे तारावृत्तविनिष्क्रयम् ॥ ३० ॥
ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस् त्व् इयम् ।
स्नानं करोतु जीवेन तारा पूता भविष्यति ॥ ३१ ॥
रहस्यम् एतत् परमं न कथ्यं यस्य कस्यचित् ।
सर्वास्व् अपि दशास्व् एह शरणं गौतमी नृणाम् ॥ ३२ ॥
तथाकरोच् चैव तारा भर्त्रा स्नानं यथाविधि ।
पुष्पवृष्टिर् अभूत् तत्र जयशब्दो व्यवर्तत ॥ ३३ ॥
पुनर् वै देवा अददुः पुनर् मनुष्या उत ।
राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर् ददुः ॥ ३४ ॥
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् ।
सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने ॥ ३५ ॥
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् ।
सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने ।
तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् ।
आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम् ॥ ३६ ॥
बृहस्पतेश् च शुक्रस्य तारायाश् च विशेषतः ।
परमानन्दम् आपन्नो गुरुर् गङ्गाम् अभाषत ॥ ३७ ॥
गुरुर् उवाच-
त्वं गौतमि सदा पूज्या सर्वेषाम् अपि मुक्तिदा ।
विशेषतस् तु सिंहस्थे मयि त्रैलोक्यपावनी ॥ ३८ ॥
भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता ।
यानि कानि च तीर्थानि स्वर्गमृत्युरसातले ।
त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थिते ऽम्बिके ॥ ३९ ॥
ब्रह्मोवाच-
धन्यं यशस्यम् आयुष्यम् आरोग्यश्रीविवर्धनम् ।
सौभाग्यैश्वर्यजननं तीर्थम् आनन्दनामकम् ॥ ४० ॥
तत्र पञ्च सहस्राणि तीर्थान्य् आह स गौतमः ।
स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा ॥ ४१ ॥
शिवस्यात्र निविष्टस्य नन्दी गङ्गातटे ऽनिशम् ।
साक्षाच् चरत्य् असौ धर्मस् तस्मान् नन्दीतटं स्मृतम् ।
आनन्दम् अपि तत् तीर्थं सर्वानन्दविवर्धनात् ॥ ४२ ॥