Summary (SA)
Chapter 151- Purūravas and Urvaśī
{{Ref- SS 244-245}}
ब्रह्मोवाच-
निम्नभेदम् इति ख्यातं सर्वपापप्रणाशनम् ।
गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ १ ॥
यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् ।
वेदद्वीपश् च तत्रैव दर्शनाद् वेदविद् भवेत् ॥ २ ॥
उर्वशीं चकमे राजा ऐलः परमधार्मिकः ।
को न मोहम् उपायाति विलोक्य मदिरेक्षणाम् ॥ ३ ॥
सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते ।
आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः ॥ ४ ॥
तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् ।
सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ ५ ॥
विलोक्य तं विवसनं तदैवासौ विनिर्गता ।
विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ ६ ॥
ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् ।
एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति ॥ ७ ॥
ताञ् जित्वा पुनर् अप्य् आगाद् देवलोकं सुपूजितम् ।
स चागत्य महाराजो वसिष्ठाच् च पुरोधसः ॥ ८ ॥
उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः ।
न जुहोति न चाश्नाति न शृणोति न पश्यति ॥ ९ ॥
एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् ।
बोधयाम् आस वाक्यैश् च हेतुभूतैः पुरोहितः ॥ १० ॥
वसिष्ठ उवाच-
सा मृताद्य महाराज मा व्यथस्व महामते ।
एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युर् आशुगाः ॥ ११ ॥
न वै स्त्रैणानि जानीषे हृदयानि महामते ।
शालावृकाणां यादॄंशि तस्मात् त्वं भूप मा शुचः ॥ १२ ॥
को नाम लोके राजेन्द्र कामिनीभिर् न वञ्चितः ।
वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ १३ ॥
इति स्वाभाविकं यासां ताः कथं सुखहेतवः ।
कालेन को न निहतः को ऽर्थी गौरवम् आगतः ॥ १४ ॥
श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः ।
स्वप्नमायोपमा राजन् मदविप्लुतचेतसः ॥ १५ ॥
सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव ।
विहाय शङ्करं विष्णुं गौतमीं वा महामते ।
दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये ॥ १६ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः ।
गौतम्या मध्यसंस्थो ऽसाव् ऐलः परमधार्मिकः ॥ १७ ॥
तत्र चाराधयाम् आस शिवं देवं जनार्दनम् ।
ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश् च यत्नतः ॥ १८ ॥
यो विपन्नो न तीर्थानि देवताश् च न सेवते ।
स कालवशगो जन्तुः कां दशाम् अनुयास्यति ॥ १९ ॥
तदीश्वरैकशरणो गौतमीसेवनोत्सुकः ।
परां श्रद्धाम् उपगतः संसारास्थापराङ्मुखः ॥ २० ॥
ईजे यज्ञांश् च बहुलान् ऋत्विग्भिर् बहुदक्षिणान् ।
वेदद्वीपो ऽभवत् तेन यज्ञद्वीपः स उच्यते ॥ २१ ॥
पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी ।
तस्य दीपस्य यः कुर्यात् प्रदक्षिणम् अथो नरः ॥ २२ ॥
प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा ।
वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ २३ ॥
सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् ।
ऐलतीर्थं तु तज् ज्ञेयं तद् एव च पुरूरवम् ॥ २४ ॥
वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते ।
ऐले राज्ञि न किञ्चित् स्यान् निम्नं सर्वेषु कर्मसु ॥ २५ ॥
यद् एतन् निम्नम् उर्वश्यां सर्वभावेन वर्तनम् ।
तच् चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ २६ ॥
निम्नभेदम् अभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् ।
तत्र सप्त शतान्य् आहुस् तीर्थानि गुणवन्ति च ॥ २७ ॥
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान् ॥ २८ ॥
इह चामुत्र वा निम्नं न किञ्चित् तस्य विद्यते ।
सर्वोन्नतिम् अवाप्यासौ मोदते दिवि शक्रवत् ॥ २९ ॥