Summary (SA)
Chapter 150- Jīgarti’s life after death and his redemption by Śunaḥśepa
{{Ref- SS 243-244}}
ब्रह्मोवाच-
पैशाचं तीर्थम् आख्यातं गङ्गाया उत्तरे तटे ।
पिशाचत्वात् पुरा विप्रो मुक्तिम् आप महामते ॥ १ ॥
सुयवस्यात्मजो लोके जीगर्तिर् इति विश्रुतः ।
कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ २ ॥
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् ।
विक्रीतवान् क्षत्रियाय वधाय बहुलैर् धनैः ॥ ३ ॥
किं नामापद्गतः पापं नाचरत्य् अपि पण्डितः ।
शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ ४ ॥
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः ।
ततो ऽप्रतिसमाधेयमहारोगनिपीडितः ॥ ५ ॥
स मृतः कालपर्याये नरकेष्व् अथ पातितः ।
भोगाद् ऋते न क्षयो ऽस्ति प्राक्तनानाम् इहांहसाम् ॥ ६ ॥
किङ्करैर् यमवाक्येन बहुयोन्यन्तरं गतः ।
ततः पिशाचो ह्य् अभवद् दारुणो दारुणाकृतिः ॥ ७ ॥
शुष्ककाष्ठेष्व् अथारण्ये निर्जले निर्जने तथा ।
ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिङ्करैः ॥ ८ ॥
कन्यापुत्रमहीवाजिगवां विक्रयकारिणः ।
नरकान् न निवर्तन्ते यावद् आभूतसम्प्लवम् ॥ ९ ॥
स्वकृताघविपाकेन दारुणैर् यमकिङ्करैः ।
सङ्घाते पच्यमानो ऽसौ रुरोदोच्चैः कृतं स्मरन् ॥ १० ॥
पथि गच्छन् कदाचित् स जीगर्तेर् मध्यमः सुतः ।
शुश्राव रुदतो वाणीं पिशाचस्य मुहुर् मुहुः ॥ ११ ॥
पुत्रक्रेतुर् ब्रह्महन्तुर् जीगर्तेस् तु पितुस् तदा ।
पापिनः पुत्रविक्रेतुर् ब्रह्महन्तुः पितुश् च ताम् ॥ १२ ॥
शुनःशेपस् तदोवाच को भवान् अतिदुःखितः ।
जीगर्तिर् अब्रवीद् दुःखाच् छुनःशेपपिता ह्य् अहम् ॥ १३ ॥
पापीयसीं क्रियां कृत्वा योनिं प्राप्तो ऽस्मि दारुणाम् ।
नरकेष्व् अथ पक्वश् च पुनः प्राप्तो ऽन्तरालकम् ।
ये ये दुष्कृतकर्माणस् तेषां तेषाम् इयं गतिः ॥ १४ ॥
जीगर्तिपुत्रस् तम् उवाच दुःखात् ।
सो ऽहं सुतस् ते मम दोषेण तात ।
विक्रीत्वा मां नरकान् एवम् आप्तस् ।
ततः करिष्ये स्वर्गतं त्वाम् इदानीम् ॥ १५ ॥
पुत्रत्वम् आप्तो ऽथ मुनिप्रवीरः ।
गङ्गाम् अभिध्याय पितुश् च लोकान् ।
अनुत्तमान् ईहमानो जगाम ॥ १६ ॥
अशेषदुःखानलधूपितानां ।
निमज्जतां मोहमहासमुद्रे ।
शरीरिणां नान्यद् अहो त्रिलोक्याम् ।
आलम्बनं विष्णुपदीं विहाय ॥ १७ ॥
एवं विनिश्चित्य मुनिर् महात्मा ।
समुद्दिधीर्षुः पितरं स दुर्गतेः ।
शुचिस् ततो गौतमीम् आशु गत्वा ।
तत्र स्नात्वा संस्मरञ् छम्भुविष्णू ॥ १८ ॥
ददौ जलं प्रेतरूपाय पित्रे ।
पिशाचरूपाय सुदुःखिताय ।
तद्दानमात्रेण तदैव पूतो ।
जीगर्तिर् आवाप वपुः सुपुण्यम् ॥ १९ ॥
विमानयुक्तः सुरसङ्घजुष्टं ।
विष्णोः पदं प्राप सुतप्रभावात् ।
गङ्गाप्रभावाच् च हरेश् च शम्भोर् ।
विधातुर् अर्कायुततुल्यतेजाः ॥ २० ॥
ततः प्रभृत्य् एतद् अतिप्रसिद्धं ।
पैशाचनाशं च महागदं च ।
महान्ति पापानि च नाशम् आशु ।
प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ २१ ॥
तीर्थस्य चेदं गदितं तवाद्य ।
माहात्म्यम् एतत् त्रिशतानि यत्र ।
मुक्तिप्रदायीनि किम् अन्यद् अत्र ॥ २२ ॥
सर्वसिद्धिदम् आख्यातम् इत्याद्य् अत्र शतत्रयम् ।
तीर्थानां मुनिजुष्टानां स्मरणाद् अप्य् अभीष्टदम् ॥ २३ ॥